| YouTube Channel

श्यावदन्तः (zyAvadantaH)

 
शब्दकल्पद्रुमः
Sanskrit
श्यावदन्तः, त्रि, (श्यावा दन्ता यस्य “विभाष ।श्यावारोकाभ्याम् ।” ।१४४ इति विभाषया दत्रादेशो स्वार्थेकन् ।) स्वाभाविककृष्णवर्णदशनयुक्तः ।प्रधानदन्तद्वयमध्यस्थक्षुद्रदन्तविशिष्टः प्रधान-दन्तोपरिदन्तान्तरयुक्तः यथा विष्णुः अथ नर-कानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्येलक्षणानि भवन्ति कुष्ठ्यतिपातकी ब्रह्महायक्ष्मी सुरापः श्यावदन्तकः सुवर्णहारीकुनखी गुरुतल्पगो दुश्चर्म्मा इत्यादि श्याव-दन्तकः स्वभावकृष्णदन्तः प्रधानदन्तद्वयमध्य-वर्त्तिक्षुद्रदन्तः प्रधानदन्तोपरि दन्तान्तर-मिति केचित्
कुनखी सङ्कचितनखः दुश्चर्म्मास्वभावतः अनावृतमेढ्रः अतएव महारोगिणोयावज्जीवमशीचमाह कूर्म्मपुराणम् ।“क्रियाहीनस्य मूर्खस्य महारोगिण एव ।यथेष्टाचरणस्याहुर्म्मरणान्तमशौचकम्
”क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः ।मूर्खस्य गायत्रीरहितस्य सार्थगायत्रीरहि-तस्येति रुद्रधरः
महारोगिणः पापरोगाष्ट-कान्यतमरोगवतः ते उन्मादस्त्वग्दोषोराजयक्ष्मा श्वासो मधुमेहो भगन्दर उदरो-ऽश्मरी इत्यष्टौ पापरोगा नारदोक्ताः यथेष्टा-चरणस्य द्यूतवेश्याद्यासक्तस्य एवञ्च भविष्य-पुराणोक्तं यतिचान्द्रायणप्रायश्चित्तं अकृतप्राय-श्चित्तानां कुष्ठ्यादीनां दाहे बोद्धव्यम् अन्य-थैषां प्रायश्चित्तोपदेशो विफलः स्यात् यथाविष्णुः कुनखी श्यावदन्तश्चद्वादशरात्रं कृच्छ्रंचरित्वोद्धरेयातां तद्दन्तनखौ इति अत्र द्वादश-रात्रं पराकरूपं तत्र पञ्चधेनवः तु प्राजा-पत्यम् तद्दाहकर्त्तुर्यतिचान्द्रायणेन विषम-शिष्टत्वात् अत्र बहूनामेकधर्म्माणामिति वच-नात् आकाङ्क्षितत्वात् कुष्ठ्यादीनामपि प्रायश्चि-त्तम् अतएव प्रायश्चित्तविवेकेऽप्युक्तं एवंदुश्चर्म्मादिष्वप्यूह्यमिति महापातकादतिपात-कस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगुणम् ।इति शुद्धितत्त्वम्