Try संस्कृतवाहिनी (A word everyday) | YouTube Channel
श्यामा (zyAmA)
श्यामा
[
śyāmā
],
1
Night,
particularly
a
dark
night
श्यामां
श्यामलिमानमानयत
भोः
सान्द्रैर्मषीकूर्चकैः
Viddhasâlabhanjikâ (Bombay).
3.1.
Shade,
shadow.
A
dark
woman.
A
kind
of
woman
(
यौवन-
मध्यस्था
according
to
Malli.
on
Naishadhacharita.
3.8
Sisupâlavadha.
8.36
Meghadūta (Bombay).
84
or
शीते
सुखोष्णसर्वाङ्गी
ग्रीष्मे
या
सुखशीतला
।
तप्तकाञ्चनवर्णाभा
सा
स्त्री
श्यामेति
कथ्यते
according
to
one
commentator
on
Bhaṭṭikâvya.
5.18
and
8.1
).
A
woman
who
has
borne
no
children.
A
cow.
Turmeric.
The
female
cuckoo.
The
Priyaṅgu
creeper
कृत्वा
श्यामाविटपसदृशं
स्नस्तमुक्तं
द्वितीयम्
Mâlavikâgnimitra (Bombay).
2.7
Meghadūta (Bombay).
16.
The
indigo
plant.
ल
The
holy
basil.
The
seed
of
the
lotus.
Name.
of
the
Yamunā.
Name.
of
several
plants.
A
name
or
form
of
Durgā
(
worshipped
by
the
Tāntrikas
).Comp.
-चरः
a
demon,
Rākṣasa.
श्यामा
1
Night,
particularly
a
dark
night
श्मामां
श्यामलिमानमानयत
भोः
सांद्रैर्मषीकूर्चकैः
Vb.
3.
1.
2
Shade,
shadow.
3
A
dark
woman.
4
A
kind
of
woman
(
यौवनमध्यस्था
according
to
Malli.
on
N.
3.
8,
Śi.
8.
36
Me.
82
or
शीते
सुखोष्णसर्वांगी
ग्रीष्मे
या
सुखशीतला
।
तप्तकांचनवर्णाभा
सा
स्री
श्यामोति
कथ्यते
according
to
one
commentator
on
Bk.
5.
18
and
8.
100
).
5
A
woman
who
has
borne
no
children.
6
A
cow.
7
Turmeric.
8
The
female
cuckoo.
9
The
Priyaṅgu
creeper
M.
2.
7
Me.
104.
10
The
indigo
plant.
11
The
holy
basil.
12
The
seed
of
the
lotus.
13
N.
of
the
Yamunā.
14
N.
of
several
plants.
श्यामा
a
(
आ
),
feminine.
a
woman
with
peculiar
marks
or
characteristics
(
according.
to
some
‘a
girl
who
has
the
marks
of
puberty’
according.
to
others
‘a
woman
who
has
not
borne
children’
also
described
as
‘a
female
of
slender
shape’
et cetera.
),
śiśupāla-vadha
Siṃhās.
of
a
goddess
who
executes
the
commands
of
the
6th
Arhat
or
of
the
mother
of
the
13th
Arhat
(
with
Jainas
)
a
kind
of
bird
(
either
‘the
female
of
the
Indian
cuckoo’
or
‘a
hen-sparrow’
),
varāha-mihira 's bṛhat-saṃhitā
pañcatantra
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
"रात,
विशेषतः
काली
रात"
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
स्त्री
विशेष
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
निस्सन्तान
स्त्री
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
गाय
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
हल्दी
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
मादा
कोयल
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
प्रियंगुलता
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
नील
का
पौधा
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
तुलसी
का
पौधा
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
कमल
का
बीज
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
युमना
नदी
श्यामा
स्त्रीलिङ्गम्
-
श्याम
+
टाप्
कई
पौधों
का
नाम
श्यामा
स्त्रीलिङ्गम्
-
-
दुर्गादेवी
का
तान्त्रिक
रुप
SyAma
{%
(
I
)
a.
(
f.
मा
)
%}
1.
Black,
dark-coloured,
अग्रे
स्त्रीनखपाटलं
कुरबकं
श्यामं
द्वयोर्भागयोः
Vikr.ii.,
परिणत
फलश्यामजंबूवनांताः
Megh.i.23,
15,
57
2.
dark-green.
SyAmA
{%
f.
%}
1.
Night,
(
especially
a
dark
night
),
श्यामां
श्यामलिमानमानयत
भोः
K.Pr.vii.
2.
shade,
shadow
3.
a
dark
woman
a
kind
of
woman,
(
described
as
यौवनमध्यस्था,
or
शीते
सुखोष्णसर्वांगी
ग्रीष्मे
तु
सुखशीतला
।
तप्तकांचनवर्णाभा
सा
स्त्री
श्यामेति
कथ्यये
4.
the
first
explanation
is
given
by
Mall.
in
his
comment
on
Megh.ii.19,
and
Sis.viii.36
the
second
is
given
by
Jayamangala
in
his
gloss
on
Bt.v.18,
where
the
words
हंसनंदिनी
and
न्यग्रोधपरिमंडला
are
also
technically
used.
)
5.
a
cow
6.
the
female
of
the
Indian
cuckoo
7.
turmeric
8.
the
sacred
basil
9.
the
river
Yamunā
10.
the
seed
of
the
lotus
11.
the
priyangu
creeper,
Megh.ii.41
12.
the
Indigo
plant.
श्यामा
श्यामा,
रात्रि,
त्रिवृत्,
मुग्धयौवना,
प्रियङ्गु,
वृद्धदारिका
श्यामा
रात्रिस्त्रिवृत्
श्यामा
श्यामा
स्त्री
मुग्धयौवना
।
श्यामा
प्रियङ्गुराख्याता
श्यामा
स्याद्
वृद्धदारिका
॥
१०१
॥
verse
1.1.1.101
page
0007
Synonyms
पृथिवी,
भूः,
भूमिः,
अचला,
अनन्ता,
रसा,
विश्वम्भरा,
स्थिरा,
धरा,
धरित्री,
धरणी,
क्षौणी,
ज्या,
काश्यपी,
क्षितिः,
सर्वसहा,
वसुमती,
वसुधा,
उर्वी,
वसुन्धरा,
गोत्रा,
कुः,
पृथ्वी,
क्ष्मा,
अवनिः,
मेदिनी,
मही,
धरणी,
क्षोणिः,
क्षौणिः,
क्षमा,
अवनी,
महिः,
रत्नगर्भा,
सागराम्बरा,
अब्धिमेखला,
भूतधात्री,
रत्नावती,
देहिनी,
पारा,
विपुला,
मध्यमलोकवर्त्मा,
धारणी,
गन्धवती,
महाकान्ता,
खण्डनी,
गिरिकर्णिका,
धारयित्री,
धात्री,
अचलकीला,
गौः,
अब्धिद्वीपा,
इडा,
इडिका,
इला,
इलिका,
इरा,
आदिमा,
ईला,
वरा,
आद्या,
जगती,
पृथुः,
भुवनमाता,
निश्चला,
श्यामा
(Noun)
मर्त्याद्यधिष्ठानभूता।
"पृथिवी
पञ्चमम्
भूतम्"
Synonyms
पिप्पली,
कृष्णा,
उपकुल्या,
वैदेही,
मागधी,
चपला,
कणा,
उषणा,
शौण्डी,
कोला,
ऊषणा,
पिप्पलिः,
कृकला,
कटुबीजा,
कोरङ्गी,
तिक्ततण्डुला,
श्यामा,
दन्तफला,
मगधोद्भवा
(Noun)
एका
लता
यस्य
कलिका
तूतस्य
आकारवत्
भवति।
"पिप्पली
औषधस्य
रूपेण
उपयुज्यते।"
Synonyms
अनन्तमूलः,
गोपी,
गोपवल्ली,
अनन्ता,
श्यामा,
उत्पलशारिवा,
शारिवा
(Noun)
एका
बहुवर्षीया
औषधीया
लता
या
पञ्चपादेभ्यः
पञ्चदशपादं
यावत्
उन्नता
एवं
कर्पूरमिलितचन्दनगन्धिनी
च।
"अनन्तमूलः
भूम्यां
प्रसरति
अथवा
कमपि
वृक्षं
संश्लिष्य
आरोहति।"
Synonyms
छाया,
भावानुगा,
श्यामा,
अतेजः,
भीरुः,
अनातापः,
आभीतिः,
आतपाभावः,
भावालीना,
अतेजः,
तेजोभीरुः,
प्रतिच्छाया,
कर्दमः
(Noun)
तद्
स्थानं
यत्र
सूर्यादेः
प्रकाशस्य
रोधनं
भवति।
"यात्रिकः
छायायां
विश्राम्यति।"
Synonyms
हरिद्रा,
हरित्,
सुवर्णा,
काञ्चनी,
पीता,
गौरी,
स्वर्णवर्णा,
कावेरी,
उमा,
शिवा,
दीर्घरागा,
हलद्दी,
पौञ्जा,
पीतवालुका,
हेमनाशा,
रञ्जनी,
भङ्गवासा,
घर्षिणी,
पीतिका,
रजनी,
मेहघ्नी,
बहुला,
वर्णिनी,
रात्रिनामिका,
निशाह्वा,
निशा,
शर्वरी,
वरवर्णिनी,
वर्णदाता,
मङ्गलप्रदा,
हेमरागिणी,
घर्षणी,
जनेष्टा,
कृमघ्नी,
लसा,
यामिनी,
वराङ्गी,
वरा,
वर्णदात्री,
पवित्रा,
हरिता,
विषघ्नी,
पिङ्गा,
मङ्गल्या,
मङ्गला,
लक्ष्मीः,
भद्रा,
शिफा,
शोभा,
शोभना,
सुभगाह्वया,
श्यामा,
जयन्तिका
(Noun)
ओषधिमूलविशेषः।
हरिद्रा
नाम
ओषधेः
पीतवर्णीयानि
मूलानि
ये
जनैः
पाकादिषु
व्यञ्जनत्वेन
उपयुज्यन्ते।
रक्तशुद्धिकरत्वात्
ते
भेषजे
तथा
च
देहवर्णविधायित्वात्
च
प्रसाधकेषु
उपयुज्यन्ते।
"हरिद्रायाः
लेपेन
त्वक्शुद्धिः
भवति।"
Synonyms
राधा,
राधिका,
वृषभानुजा,
श्यामा
(Noun)
वृषभानोः
पुत्री
या
कृष्णस्य
प्रेमिका
आसीत्।
"नैकैः
कविभिः
राधा
तथा
च
कृष्णस्य
प्रेम्णः
अद्भूतं
वर्णनं
कृतम्।"
Synonyms
तुलसी,
सुभगा,
तीव्रा,
पावनी,
विष्णुवल्लभा,
सुरेज्या,
सुरसा,
कायस्था,
सुरदुन्दुभिः,
सुरभिः,
बहुपत्री,
मञ्जरी,
हरिप्रिया,
अपेतराक्षसी,
श्यामा,
गौरी,
त्रिदशमञ्जरी,
भूतघ्नी,
भूतपत्री,
वैष्णवी,
पुण्या,
माधवी,
अमृता,
पत्रपुष्पा,
वृन्दा,
मरुवकः,
समीरणः,
प्रस्थपुष्पः,
फणिझकः,
पर्णासः,
जम्भीरः,
कठिञ्जरः,
कुठेरकः,
अर्ज्जकः,
कुलसौरभम्,
लक्ष्मी
(Noun)
वृक्षविशेषः
यः
पवित्रः
अस्ति
तथा
च
यस्य
पर्णानि
गन्धयुक्तानि
सन्ति।
"तुलस्याः
पर्णानि
ओषधिरूपेण
उपयुज्यन्ते।"
Synonyms
हरिद्रा,
हरित्,
सुवर्णा,
काञ्चनी,
पीता,
गौरी,
स्वर्णवर्णा,
कावेरी,
उमा,
शिवा,
दीर्घरागा,
हलद्दी,
पौञ्जा,
पीतवालुका,
हेमनाशा,
रञ्जनी,
भङ्गवासा,
घर्षिणी,
पीतिका,
रजनी,
मेहघ्नी,
बहुला,
वर्णिनी,
रात्रिनामिका,
निशाह्वा,
निशा,
शर्वरी,
वरवर्णिनी,
वर्णदाता,
मङ्गलप्रदा,
हेमरागिणी,
घर्षणी,
जनेष्टा,
कृमघ्नी,
लसा,
यामिनी,
वराङ्गी,
वरा,
वर्णदात्री,
पवित्रा,
हरिता,
विषघ्नी,
पिङ्गा,
मङ्गल्या,
मङ्गला,
लक्ष्मीः,
भद्रा,
शिफा,
शोभा,
शोभना,
सुभगाह्वया,
श्यामा,
जयन्तिका
(Noun)
ओषधिविशेषः
अस्य
पीतवर्णीयानि
मूलानि
पाकादिषु
व्यञ्जनत्वेन
उपयुज्यन्ते
रक्तशुद्धिकरत्वात्
ते
भेषजे
तथा
च
देहवर्णविधायित्वात्
च
प्रसाधकेषु
अपि
उपयुज्यन्ते।
"समये
अकृतेन
सिंचनेन
हरिद्रा
शुष्का
जाता।
/
हरिद्रा
कफ-पित्तास्त्रशोथ-कण्डुव्रणापहा।"
Synonyms
यमुना,
यमुनानदी,
कालिन्दी,
सूर्यतनया,
शमनस्वसा,
तपनतनूजा,
कलिन्दकन्या,
यमस्वसा,
श्यामा,
तापी,
कलिन्दलन्दिनी,
यमनी,
यमी,
कलिन्दशैलजा,
सूर्यसुता,
तपनतनया,
अरुणात्मजा,
दिनेशात्मजा,
भानुजा,
रविजा,
भानुसुता,
सूर्यसुता,
सूर्यजा,
यमानुजा,
अर्कतनया,
अर्कसुता,
अर्कजा
(Noun)
भारतीयनदीविशेषः
सा
तु
हिमालयदक्षिणदेशाद्
निर्गत्य
प्रयागे
गङ्गायां
मिश्रिता।
"सर्नाणि
हृदयास्थानि
मङ्गलानि
शुभानि
च।
ददाति
चेप्सितान्
लोके
तेन
सा
सर्वमङ्गला॥
सङ्गमाद्
गमनाद्
गङ्गा
लोके
देवी
विभाव्यते।
यमस्य
भगिनी
जाता
यमुना
तेन
सा
मता॥
"
Synonyms
छाया,
भावानुगा,
श्यामा,
अतेजः,
भीरुः,
अनातपः,
आभीतिः,
आतपाभावः,
भावालीनः
(Noun)
प्रकाशस्य
विरुद्धदिशि
दृश्यमानं
वस्तुनः
अग्रतः
पृष्ठतो
वा
आकृतिसदृशं
श्यामवर्णीयं
प्रतिबिम्बम्।
"बालकः
छायां
दृष्ट्वा
आनन्दितः।"
Synonyms
रात्रिः,
निशा,
रजनी,
क्षणदा,
क्षपा,
शर्वरी,
निश्,
निद्,
त्रियामा,
यानिनी,
यामवती,
नक्तम्,
निशीथिनी,
तमस्विनी,
विभावरी,
तमी,
तमा,
तमिः,
ज्योतष्मती,
निरातपा,
निशीथ्या,
निशीथः,
शमनी,
वासुरा,
वाशुरा,
श्यामा,
शताक्षी,
शत्वरी,
शर्या,
यामिः,
यामी,
यामिका,
यामीरा,
याम्या,
दोषा,
घोरा,
वासतेयी,
तुङ्गी,
कलापिनी,
वायुरोषा,
निषद्वरी,
शय्या,
शार्वरी,
चक्रभेदिनी,
वसतिः,
काली,
तारकिणी,
भूषा,
तारा,
निट्
(Noun)
दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।
"यदा
दिक्षु
च
अष्टासु
मेरोर्
भूगोलकोद्भवा।
छाया
भवेत्
तदा
रात्रिः
स्याच्च
तद्विरहाद्
दिनम्।"
Synonyms
हरित्,
हरितः,
हरिता,
हरितरिणि,
हरितम्,
हरितवर्णः,
हरिः,
पलाशः,
पलाशी,
पलाशम्,
पालाशः,
पालाशी,
पालाशम्,
श्यामः,
श्यामा,
श्यामम्,
भरितः,
भरिता,
भरितम्,
श्यामवर्णः,
श्यामवर्णा,
श्यामवर्णम्,
तालकाभः,
तालकाभा,
तालकाभम्
(Noun)
वर्णविशेषः,
शाद्वलवत्
वर्णः।
"चित्रकारः
शुकस्य
पक्षौ
हरितेन
वर्णेन
वर्णयति।"
Synonyms
श्यामा
(Noun)
एका
देवता
।
"श्यामा
त्रयोदशतमस्य
अर्हतः
माता
वर्तते"
Synonyms
श्यामा
(Noun)
एका
स्त्री
।
"श्यामायाः
उल्लेखः
महाभारते
वर्तते"
Synonyms
श्यामा
(Noun)
एका
राजकन्या
।
"श्यामायाः
उल्लेखः
वासवदत्तायां
वर्तते"
Synonyms
श्यामा
(Noun)
मेरोः
कन्या
।
"श्यामायाः
उल्लेखः
भागवतपुराणे
वर्तते"
Synonyms
श्यामा
(Noun)
एका
नदी
।
"श्यामायाः
उल्लेखः
मार्कण्डेयपुराणे
वर्तते"
Synonyms
श्यामा
(Noun)
क्षुपनामविशेषः
।
"नैकेषां
क्षुपाणां
नाम
श्यामा
इति
अस्ति"
ச்’யாமா
:
இரவு,
இருள்
சூழ்ந்த
இரவு,
யௌவன
ஸ்த்ரீ,
கறுப்பு
ஸ்த்ரீ,
நிழல்,
பசு,
துளசிச்செடி,
மஞ்சள்,
யமுனை
நதி.
Śyāmā
=
Draupadī:
V,
3215,
4661.
श्यामा
/
ŚYĀMĀ.
One
of
the
nine
daughters
of
Meru,
including
śyāmā.
They
are
called
Navakanyās.
They
were
married
by
the
sons
of
agnīdhra.
(
bhāgavata,
5th
skandha
).
श्यामा
स्त्री।
प्रियङ्गुवृक्षः
समानार्थकाः
श्यामा,
महिलाह्वय,
लता,
गोवन्दनी,
गुन्द्रा,
प्रियङ्गु,
फलिनी,
फली,
विष्वक्सेना,
गन्धफली,
कारम्भा,
प्रियक
2।4।55।1।3
कृष्णवृन्ता
कुबेराक्षी
श्यामा
तु
महिलाह्वया।
लता
गोवन्दनी
गुन्द्रा
प्रियङ्गुः
फलिनी
फली॥
पदार्थ-विभागः
,
द्रव्यम्,
पृथ्वी,
अचलसजीवः,
वृक्षः
श्यामा
स्त्री।
श्यामत्रिधारा
समानार्थकाः
श्यामा,
पालिन्दी,
सुषेणिका,
काला,
मसूरविदला,
अर्धचन्द्रा,
कालमेषिका
2।4।108।2।3
सर्वानुभूतिः
सरला
त्रिपुटा
त्रिवृता
त्रिवृत्.
त्रिभण्डी
रोचनी
श्यामापालिन्द्यौ
तु
सुषेणिका॥
पदार्थ-विभागः
,
द्रव्यम्,
पृथ्वी,
अचलसजीवः,
लता
श्यामा
स्त्री।
शारिवा
समानार्थकाः
गोपी,
श्यामा,
शारिवा,
अनन्ता,
उत्पलशारिवा
2।4।112।1।2
गोपी
श्यामा
शारिवा
स्यादनन्तोत्पलशारिवा।
योग्यमृद्धिः
सिद्धिलक्ष्म्यौ
वृद्धेरप्याह्वया
इमे॥
पदार्थ-विभागः
,
द्रव्यम्,
पृथ्वी,
अचलसजीवः,
लता
श्यामा
स्त्री।
रात्रिः
समानार्थकाः
शर्वरी,
निशा,
निशीथिनी,
रात्रि,
त्रियामा,
क्षणदा,
क्षपा,
विभावरी,
तमस्विनी,
रजनी,
यामिनी,
तमी,
वसति,
श्यामा,
दोषा,
दोषा,
नक्तम्
3।3।143।2।2
क्षितिक्षान्त्योः
क्षमायुक्ते
क्षमं
शक्ते
हिते
त्रिषु।
त्रिषु
श्यामौ
हरित्कृष्णौ
श्यामा
स्याच्छारिवा
निशा॥
अवयव
==>
रात्रिप्रारम्भः,
रात्रिमध्यः,
प्रहरः
==>
अत्यन्धकाररात्रिः,
चन्द्रिकायुक्तरात्रिः,
दिनद्वयमध्यगता_रात्रिः
पदार्थ-विभागः
,
द्रव्यम्,
कालः
श्यामा,
स्त्रीलिङ्गम्
(
श्यामो
वर्णोऽस्त्यस्या
इति
।
अच्
।टाप्
।
)
शारिवौषधी
।
अप्रसूताङ्गना
।प्रियङ्गुः
।
वागुजिः
।
यमुना
।
रात्रिः
।
कृष्ण-त्रिवृतिका
।
नीलिका
।
इति
मेदिनी
॥
गुग्-गुलुः
।
सोमलता
।
गुन्द्रा
।
कृष्णा
।
अम्बिका
।इति
विश्वः
॥
गुडूची
।
कस्तूरी
।
वटपत्री
।वन्दा
।
नीलपुनर्नवा
।
पिप्पली
।
हरिद्रा
।नीलदूर्व्वा
।
तुलसी
।
पद्मवीजम्
।
गौः
।स्त्री
।
छाया
।
कृष्णसारिवा
।
शिंशपा
।
इतिराजनिर्घण्टः
॥
(
नारीविशेषः
।
यथा,
भट्टिः
।५
।
१८
।“योषिद्वृन्दारिका
तस्य
दयिता
हंसनादिनी
।दूर्व्वाकाण्डमिव
श्यामा
न्यग्रोधपरिमण्डला
॥
”तल्लक्षणं
यथा,
तट्टीकायाम्
।“शीते
सुखोष्णसर्व्वाङ्गी
ग्रीष्मे
च
सुख-शीतला
।तप्तकाञ्चनवर्णाभा
सा
स्त्री
श्यामेति
कथ्यते
॥
”
)पक्षिविशेषः
।
शामा
इति
भाषा
।
तत्पर्य्यायः
।वराही
२
शकुनी
३
कुमारी
४
दुर्गा
५
देवी
६चटका
७
कृष्णा
८
पोतकी
९
पाण्डविका
१०वामा
११
कालिका
१२
शितिसिम्बिनी
१३
।इति
राजनिर्घण्टः
॥
*
॥
श्यामाया
उत्पत्तिर्यथा,
“ततः
सा
कालिका
देवी
योगनिद्रा
जगन्मयी
।पूर्व्वत्यक्तसतीरूपा
जन्मार्थं
मेनकां
ययौ
॥
समयस्यानुरूपेण
मेनका
जठरे
शिवा
।सम्भूय
च
समुत्पन्ना
सा
लक्ष्मीरिव
सागरात्
॥
वसन्तसमये
देवी
नवम्यां
मृगयोगतः
।अर्द्धरात्रौ
समुत्पन्ना
गङ्गेव
शशिमण्डनात्
॥
ततस्तस्यान्तु
जातायां
प्रसन्नाश्चाभवन्
दिशः
।सानुकूलो
ववौ
वायुर्गम्भीरो
गन्धिलः
शुभः
॥
बभूव
पुष्पवृष्टिश्च
तोयवृष्टिः
परा
तथा
।जज्वलुश्चाग्नयः
शान्ता
जगर्ज्जुश्च
घना
घनम्
॥
तस्यान्तु
जायमानायां
सर्व्वं
स्वास्थ्यमपद्यत
।तान्तु
दृष्ट्वा
यथाजातां
नीलोत्पलदलानुगाम्
॥
श्यामां
सा
मेनका
देवी
मुदमापाति
हर्षिता
।देवाश्च
हर्षमतुलं
प्रापुस्तत्र
मुहुर्मुहुः
॥
तुष्टुवुस्तामन्तरीक्षे
गन्धर्व्वाश्चाप्सरोगणाः
।तान्तु
नीलोत्पलदलश्यामां
हिमवतः
सुताम्
॥
कालीति
नाम्ना
हिमवानाजुहाव
कृते
दिने
।बान्धावास्तु
स्वसन्तानां
नाम्ना
तां
पार्व्वतीतिच
।कालीति
च
तथा
नाम्ना
कीर्त्तिता
गिरि-नन्दिनी
॥
”इति
कालिकापुराणे
४०
अध्यायः
॥
*
॥
अथ
श्यामामन्त्राः
।
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँह्रीँ
दक्षिणे
कालिके
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रोँह्रीँ
स्वाहा
।
यथा,
कालीतन्त्रे
।“कामत्रयं
वह्निसंस्थं
रतिबिन्दुसमन्वितम्
।कूर्च्चयुग्मं
तथा
लज्जायुगलं
तदन्तरम्
॥
दक्षिणे
कालिके
चेति
पूर्व्वबीजानि
चोच्चरेत्
।अन्ते
वह्निबधूं
दद्यात्
विद्या
राज्ञी
प्रकी-र्त्तिता
॥
”मन्वर्थमाह
यामले
।“ककाराज्जलरूपत्वात्
केवलं
मोक्षदायिनी
।ज्वलनार्णसमायोगात्
सर्व्व
तेजोमयी
शुभा
।मायात्रयेण
देवेशि
सृष्टिस्थित्यन्तकारिणी
॥
बिन्दूनां
निष्फलत्वाच्च
कैवल्यफलदायिनी
।वीजत्रया
शाम्भवी
सा
केवलं
ज्ञानचित्कला
॥
शब्दबीजद्वयेनैव
शब्दराशिप्रबोधिनी
।लज्जाबीजद्वयेनैव
सृष्टिस्थित्यन्तकारिणी
॥
सम्बोधनपदेनैव
सदा
सन्निधिकारिणी
।स्वाहया
जगतां
माता
सर्व्वपापप्रणाशिनी
॥
”अस्याः
पूजाप्रयोगः
।
प्रातःकृत्यादिकं
कृत्वाँमन्त्राचमनं
कुर्य्यात्
।
यथा,
--“कालिकाभिः
स्त्रिभिः
पीत्वा
काल्यादिभि-रुपस्पृशेत्
।द्वाभ्यामोष्ठौ
द्विरुन्मृज्य
चकेन
क्षालयेत्
करम्
॥
मुखघ्राणेक्षणश्रोत्रनाभ्युरस्कं
भुजौ
क्रमात्
।आचम्यैवं
भवेत्
काली
वत्सरात्तां
प्रपश्यति
॥
”कं
शिरः
।
तद्यथा
।
क्रीमिति
त्रिराचामेत्
।ओँ
काल्यै
नमः
कपालिन्यै
नमः
इति
ओष्ठौद्विरुन्मृजेत्
।
ओँ
कुल्लायै
नमः
इति
करं
क्षाल-येत्
।
ओँ
कुरुकुल्लायै
नमः
इति
मुखे
।
ओँविरोधिन्यै
नमः
इति
दक्षिणनासायाम्
।
ओँविप्रचित्तायै
नमः
इति
वामनासायाम्
।
ओँउग्रायै
नमः
ओँ
उग्रप्रभायै
नमः
इति
नेत्रयोः
।ओँ
दीप्तायै
नमः
ओँ
नीलायै
नमः
इतिश्रोत्रयोः
।
ओँ
घनायै
नमः
इति
नाभौ
।
ओँवलाकायै
नमः
इति
वक्षसि
।
ओँ
मात्रायै
नमःइति
शिरसि
।
ओँ
मुद्रायै
नमः
ओँ
मितायैनमः
इत्यंसयोः
।
इति
मन्त्राचमनम्
।
*
।
ततोभूतशुद्ध्यन्तं
विधाय
मायाबीजेन
यथाविधिप्राणायामत्रयं
कुर्य्यात्
॥
*
॥
ऋष्यादिन्यासः
।यथा
।
अस्य
मन्त्रस्य
भैरव
ऋषिरुष्णिक्
छन्दोदक्षिणकालिका
देवता
ह्रीँ
बीजं
हूँ
शक्तिःक्रीँ
कीलकं
पुरुषार्थचतुष्टयसिद्ध्यर्थे
विनि-योगः
।
तथा
च
कालीक्रमे
।“कीलकं
चाद्यबीजं
स्यात्
चतुर्व्वर्गफलप्रदम्
।”शिरसि
वैरवाय
ऋषये
नमः
।
मुखे
उष्णिक-छन्दसे
नमः
।
हृदि
दक्षिणकालिकायै
देवतायैनमः
।
गुह्ये
ह्रीँ
बीजाय
नमः
।
पादयोः
हूँशक्तये
नमः
।
सर्व्वाङ्गे
क्रीँ
कीलकाय
नमः
॥
ततः
कराङ्गन्यासौ
।
तदुक्तं
कालीतन्त्रे
।“अङ्गन्यासकरन्यासौ
यथावदभिधीयते
।भैरवोऽस्य
ऋषिः
प्रोक्तः
उष्णिक्
छन्द
उदा-हृतम्
।देवता
कालिका
प्रोक्ता
लज्जाबीजन्तु
बीजकम्
॥
कीलकं
चाद्यबीजं
स्याच्चतुर्व्वर्गफलप्रदम्
॥
शक्तिश्च
कूर्च्चबीजं
स्यादनिरुद्धा
सरस्वती
।कवित्वार्थे
नियोगः
स्यादित्यादि
तेन
मायया
॥
”षडङ्गन्यासः
।“षड्दीर्घभाजा
बीजेन
प्रणवाद्येन
कल्पयेत्
।”वीरतन्त्रेऽपि
।“दीर्घषट्कयुताद्येन
प्रणवाद्येन
कल्पयेत्
।”इति
वा
।
तट्यथा
।
ओँ
क्राँ
अङ्गष्ठाभ्यां
नमः
।ओँ
क्रीँ
तर्ज्जनीभ्यां
स्वाहा
।
ओँ
क्रूँ
मध्यमाभ्यांवषट्
।
ओँ
क्रैँ
अनामिकाभ्यां
हुँ
।
ओँ
क्रौँकनिष्ठाभ्यां
वौषट्
।
ओँ
क्रः
करतलपृष्ठाभ्यांफट्
।
एवं
हृदयादिषु
।
ओँ
क्राँ
हृदयाय
नमःइत्यादि
।
एवं
ओँ
ह्राँ
अङ्गुष्ठाभ्यां
नमः
इत्यादिवा
॥
*
॥
ततो
वर्णन्यासः
।
अं
आं
इं
ईं
उंऊं
ऋं
ॠं
ऌं
ॡं
नमः
इति
हृदये
।
एं
ऐंओँ
औँ
अं
अः
कं
खं
गं
घं
नमः
इति
दक्षिण-बाहौ
।
ङं
चं
छं
जं
झं
ञं
टं
ठं
डं
ढं
नमः
।इति
वामबाहौ
।
णं
तं
थं
दं
धं
नं
पं
फं
बं
भंनमः
इति
दक्षिणपादे
।
मं
यं
रं
लं
वं
शं
षं
संहं
व्वं
क्षं
नमः
इति
वामपादे
।
विरूपाक्षमतेसबिन्दुरयं
न्यासः
।
यथा
वीरतन्त्रे
।
अं
आंइं
ईं
उं
ऊं
ऋं
ॠं
ऌं
ॡं
वै
हृदयेन्यसेदित्यादि
।
पुनर्निर्बिन्दुर्यथा
।
अ
आ
इ
ईउ
ऊ
ऋ
ॠ
ऌ
ॡ
वै
हृदयं
स्पृशेदित्यादि
।किन्तु
सबिन्दून्
वा
न्यसेदेतान्
निर्बिन्दून्
वाथवर्णकान्
इत्याचार्य्यपरिगृहितभैरवीयवाक्यात्उभयमेव
युक्तम्
॥
*
॥
अथ
षोढान्यासः
।तदुक्तं
वीरतन्त्रे
।“केवलां
मातृकां
कृत्वा
मातृकां
तारसंपुटाम्
।मातृकापुटितं
तारं
न्यसेत्
साधकसत्तमः
॥
श्रीबीजपुटितां
तान्तु
मातृकापुटितन्तु
तत्
।कामेन
पुटितां
देवीं
तत्पुटं
काममेव
च
॥
शक्त्या
च
पुटितां
देवीं
शक्तिञ्च
तत्पुटां
न्यसेत्
।कों
द्वन्द्वञ्च
पुनर्न्यस्त्वा
ऋ-ॠ-ऌ-ॡ-ञ्च
पूर्ववत्“मूलेन
पुटितां
देवीं
तत्पुटं
मन्त्रमेव
च
॥
अनुलोमविलोमेन
न्यस्त्वा
मन्त्रं
यथाविधि
।मूलेनाष्टशतं
कुर्व्याद्व्यापकं
तदनन्तरम्
॥
”यथा
ओँ
अं
ओँ
एवं
मातृकापुटिततारम्
।
एवंश्रीबीजपुटितां
ताम्
।
तत्पुटितं
श्रीबीजम्
।एवं
कामेन
पुटितां
मातृकाम्
।
मातृकापुटितंकामम्
।
एवं
शक्त्या
पुटितां
मातृकां
मातृका-पुटितां
शक्तिं
न्यसेत्
।
तथा
क्रीं
द्वन्द्वञ्च
ऋ-ॠ-ऌ-ॡ-ञ्च
पूर्व्ववत्
।
तत्पुटितां
मातृकां
न्यसेत्मातृकापुटितञ्च
तत्
।
मन्त्रपुटितां
मातृकांतत्पुटितं
मनुम्
।
पुनरनुलोमविलोमेन
केवलंमातृकास्थाने
न्यस्य
मूलेनाष्टशतेन
व्यापकंकुर्य्यात्
अयं
न्यासस्ताराया
अपि
कार्य्यः
।“इति
गुप्ते
न
दुर्गाया
अङ्गषोढाः
प्रकीर्त्तिताः
।तारायाः
कालिकायाश्च
उन्मुखाश्च
तथापरे
॥
एतस्मिन्
न्यामवर्य्ये
च
सर्व्वं
पापं
प्रणश्यति
॥
”ततस्तत्त्वन्यासः
।
यथामूलं
त्रिखण्डं
विधायप्रथमखण्डान्ते
ओँ
आत्मतत्त्वाय
स्वाहेति
पादा-दिनाभिपर्य्यन्तम्
।
द्वितीयखण्डान्ते
ओँ
विद्या-तत्त्वाय
स्वाहा
इति
नाभ्यादिहृदयान्तम्
।तृतीयखण्डान्ते
ओँ
शिवतत्त्वाय
स्वाहा
इतिहृदयादिशिरःपर्य्यन्तं
न्यसेत्
।
तदुक्तं
स्वतन्त्रे
।“मूलविद्यात्रिखण्डान्ते
प्रणवाद्यैर्यथाविधि
।आत्मविद्या
शिवैस्तत्त्वैस्तत्त्वन्यासं
समाचरेत्
॥
”अथ
वीजन्यासः
।
तदुक्तं
कुमारीकल्पे
।“ब्रह्मरन्धे
भ्रुवोर्म्मध्ये
ललाटे
नाभिदेशके
।गुह्ये
वक्त्रे
च
सर्व्वाङ्गे
सप्तबीजं
क्रमान्न्यसेत्
॥
”यथा
आद्यबीजं
ब्रह्मरन्ध्रे
द्वितीयबीजं
भ्रूमध्येतृतीयबीजं
ललाटे
चतुर्थबीजं
नाभौ
पञ्चमबीजंगुह्ये
षष्ठबीजं
वक्त्रे
सप्तमबीजं
सर्व्वाङ्गे
।
एत-त्त्रयं
काम्यम्
॥
*
॥
ततो
मूलेन
सप्तधा
व्यापक-न्यासं
कृत्वा
यथाविधि
मुद्रां
प्रदर्श्य
ध्यायेत्
।यथा
कालीतन्त्रे
।“करालवदनां
घोरां
मुक्तकेशीं
चतुर्भुजाम्
।कालिकां
दक्षिणां
दिव्यां
मुण्डमालाविभूषिताम्सद्यश्छिन्नशिरःखङ्गवामाधोर्द्धकराम्बुजाम्
।अभयं
वरदञ्चैव
दक्षिणोर्द्ध्वाधःपाणिकाम्
॥
महामेघप्रभां
श्यामां
तथा
चैव
दिगम्बरीम्
।कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चिताम्
॥
कर्णावतंसतानीतशवयुग्मभयानकाम्
।घोरदंष्ट्रां
करालास्यां
पीनोन्नतपयोधराम्
॥
शवानां
करसंघातैः
कृतकाञ्चीं
हसन्मुखीम्
।सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम्
॥
घोररावां
महारौद्रीं
श्मशानालयवासिनीम्
।बालार्कमण्डलाकारलोचनत्रितयान्विताम्
॥
दन्तुरां
दक्षिणव्यापिमुक्तालम्बिकचोच्चयाम्
।शवरूपमहादेवहृदयोपरिसंस्थिताम्
॥
शिवाभिर्घोररावाभिश्चतुर्द्दिक्षु
समन्विताम्
।महाकालेन
च
समं
विपरीतरतातुराम्
॥
सुखप्रसन्नवदनां
स्मेराननसरोरुहाम्
।एवं
सञ्चिन्तयेत्
कालीं
सव्वकामार्थसिद्धि-दाम्
॥
”
*
॥
शवयुरमेति
घोरबाणावतंसेति
प्रेतकर्णावतंसेतिच
।
शकुन्तपक्षसंयुक्तबाणकर्णविभूषितामितिविगतासुकिशोराभ्यां
कृतकर्णावतंमिनीमितिचदर्शनादुभयमेव
पाठः
॥
*
॥
ध्यानान्तरं
स्वतन्त्रे“अञ्जनाद्रिनिभां
देवीं
करालवदनां
शिवाम्
।मुण्डमालावलीकीर्णां
मुक्तकेशीं
स्मिताननाम्
॥
महाकालहृदम्भोजस्थितां
पीनपयोधराम्
।विपरीतरतासक्तां
घोरदंष्ट्रां
शिवैः
सह
॥
नागयज्ञोपवीताढ्यां
चन्द्रार्द्धकृतशेखराम्
।सर्व्वालङ्कारयुक्ताञ्च
मुण्डमालाविभूषिताम्
॥
मृतहस्तसहस्रैस्तु
बद्धकाञ्चीं
दिगंशुकाम्
।शिवाकोटिसहस्रेस्तु
योगिनीभिर्विराजिताम्
॥
रक्तपूर्णमुखाम्भोजां
मद्यपानप्रमत्तिकाम्
।वह्न्यर्कशशिनेत्राञ्च
रक्तविस्फुरिताननाम्
॥
विगतासुकिशोराभ्यां
कृतकर्णावतंसिनीम्
।कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चिताम्
॥
श्मशानवह्निमध्यस्थां
ब्रह्मकेशववन्दिताम्
।सद्यःकृत्तशिरःखङ्गवराभीतिकराम्बुजाम्
॥
”ध्यानान्तरं
रहस्ये
।
यथा,
--“शवारूढां
महाभीमां
घोरदंष्ट्रां
हसन्मुखीम
।चतुर्भुजां
खङ्गमुण्डवराभयकरा
पराम्
॥
मुण्डमालाधरां
देवीं
ललज्जिह्वां
दिगम्बरीम्
।एवं
सञ्चिन्तयेत्
कालीं
श्मशानालयवासिनीम्
॥
”एवं
ध्यात्वा
मानसैः
सम्पूज्य
शङ्खस्थापनं
कुर्य्यात्यथा
।
स्ववामे
भूमौ
हूङ्कारगर्भं
त्रिकोणं
वि-लिख्य
अर्घ्यपात्रं
संस्थाप्य
मूलेन
शुद्धजलादिना
।शङ्खादिपात्रमापूर्य्य
गन्धादिकं
दत्त्वा
ओँ
गङ्गेचेत्यादिना
तीर्थमावाह्य
मं
वह्निमण्डलाय
दशकलात्मने
नमः
इत्याधारम्
।
अं
सूर्य्यमण्डलायद्वादशकलात्मने
नमः
इति
शङ्खम्
।
उं
सोम-मण्डलाय
षोडषकलात्मने
नमः
इति
जलंसम्पूज्य
।
ओँ
ह्रां
हृदयाय
नमः
।
ओँ
ह्रीं
शिरसेस्वाहा
।
ओँ
ह्रूँ
शिखायै
वषट्
।
ओँ
ह्रैँ
कव-चाय
हूँ
इत्यग्नीशासुरवायुषु
।
अग्रे
ओँ
ह्रौँनेत्रत्रयाय
वौषट्
।
चतुर्दिक्षु
ओँ
ह्रः
अस्त्रायफट्
।
इत्यभ्यर्च्च्य
तदुपरि
मत्स्यमुद्रयाच्छाद्यमूलं
दशधा
जप्त्वा
धेनुमुद्रया
अमृतीकृत्य
अस्त्रेणसंरक्ष्य
भूतिनीयोनिमुद्रे
प्रदर्श्य
तज्जलं
किञ्चित्प्रोक्षणीपात्रे
निःक्षिप्य
मूलेन
तेनोदकेनात्मानंपूजोपकरणञ्चाभ्युक्ष्य
पीठपूजामारभेत्
॥
*
॥
अस्याः
पूजायन्त्रम्
।
आदौ
बिन्दुं
स्वबीजंभुवनेशीञ्च
विलिख्य
ततस्त्रिकोणं
तद्वाह्येत्रिकोणचतुष्टयं
वृत्तमष्टदलं
पद्मं
पुनर्वृत्तं
चतु-र्द्वारात्मकं
भूगृहं
लिखेत्
।
तदुक्तं
कालीतन्त्रे
।“आदौ
त्रिकोणमालिख्य
त्रिकोणं
तद्वहिर्लिखेत्ततो
वै
विलिखेन्मन्त्री
त्रिकोणत्रयमुत्तमम्
॥
ततो
वृत्तं
समालिख्य
लिखेदष्टदलं
ततः
।वृत्तं
विलिख्य
विधिवल्लिखेद्भूपुरमेककम्
॥
”कुमारीकल्पे
।“मध्ये
तु
बैन्दवं
चक्रं
बीजमायाविभूषितम्
॥
इति
॥
*
॥
अत्र
विशेषाधारो
मुण्डमालायाम्
।“ताम्रपात्रे
कपाले
वा
श्मशानकाष्ठनिर्म्मिते
।शनिभीमदिने
वापि
शरीरे
मृतसम्भवे
॥
स्वर्णे
रौप्ये
ऽथ
लौहे
वा
चकं
कार्य्यं
विधानतः
॥
”यन्त्रान्तरमाह
तन्त्रे
।“शक्त्यग्निभ्याञ्च
षट्कोणं
शक्तिभिश्च
नवात्मकम्पद्मे
वसुदले
भूमिपुश्चतुर्द्वारसंयुतेति
॥
*
॥
पीठपूजां
ततः
कुर्य्यादाधारशक्तिपूर्व्वकम्
।प्रकृतिं
कमठञ्चैव
शेषं
पृथ्वीं
तथैव
च
॥
सुधाम्बधिं
मणिद्वीपं
चिन्तामणिगृहं
तथा
।श्मशानं
पारिजातञ्च
तन्मूले
रत्नवेदिकाम्
॥
तस्योपरि
मणेः
पीठं
न्यसेत्
साधकसत्तमः
।चतुर्दिक्षु
मुनीन्
देवान्
शिवाश्च
शवमुण्ड-कान्
॥
”धर्म्माद्यधर्म्मादींश्चे
त्यादि
ह्रीँ
ज्ञानात्मने
नमःइत्युन्तं
संपूज्य
केशरेषु
पूर्व्वादिक्रमेण
पूजयेत्
।“इच्छा
ज्ञाना
क्रिया
चैव
कामिनी
काम-दायिनी
॥
रती
रतिप्रिया
नन्दा
मध्ये
चैव
मनोन्मनी
॥
”सर्व्वत्र
प्रणवादिनमोऽन्तेन
पूजयेत्
।
तदुपरिहसौः
सदाशिवमहाप्रेतपद्मासनाय
नमः
॥
*
॥
ततः
पुनर्ध्यात्वा
पुष्पाञ्जलावानीय
मूलमन्त्र-कल्पितमूर्त्तावावाहयेत्
।“ओँदेवेशि
भक्तिसुलभे
परिवारसमन्विते
।यावत्त्वां
पूजयिष्यामि
तावत्
त्वं
सुस्थिरा
भव
॥
”ततो
मूलमुच्चार्य्य
अमुकीदेवि
इहावह
इहतिष्ठ
इह
सन्निधेहि
इह
सन्निरुध्यस्व
इह
सन्नि-हिता
भव
।
ततः
हूमित्यवगुण्ठ्य
अङ्गमन्त्रैःसकलीकृत्य
धेनुमुद्रया
अमृतीकृत्य
परमी-करणमुद्रया
परमीकृत्य
भूतिन्याकर्षिणीयोनि-मुद्राः
प्रदर्श्य
प्राणप्रतिष्ठां
विधाय
मूलेन
पाद्या-दिभिः
पूजयेत्
।
ततो
मूलमुच्चार्य्य
एतत्
पाद्यममुकदेवतायै
नमः
।
एवमर्ध्यं
स्वाहा
।
आच-मनीयं
स्वधा
।
स्नानीयं
निवेदयामि
।
पुनरा-चमनीयं
स्वधा
।
एष
गन्धो
नमः
।
एतानिपुष्पाणि
वौषट्
।
ततो
मूलेन
पञ्च
पुष्पाञ्जलीन्दत्त्वा
धूपदीपौ
दद्यात्
।
वनस्पतीत्यादि
पठन्मूलमुच्चार्य्य
एष
धूपो
नमः
।
दीपमन्त्रस्तु
।“सुप्रकाशो
महादीपः
सर्व्वतस्तिमिरापहः
।सबाह्याभ्यन्तरं
ज्योतिर्दीपोऽयं
प्रतिगृह्यताम्
॥
”मूलमुच्चार्य्य
एष
दीपो
नमः
।
ततः
ओँ
जय-ध्वनिमन्त्रमातः
स्वाहा
इति
घण्टां
संपूज्यवामहस्तेन
तां
वादयन्
नीचैर्धूपं
दत्त्वा
दृष्टिपर्य्यन्तंदीपं
दद्यात्
।
ततो
मूलेन
पुष्पाञ्जलित्रयं
दत्त्वायथोपपन्नं
नैवेद्यं
दत्त्वा
आवरणपूजां
कुर्य्यात्
॥
श्रीअमुकीदेवि
आवरणं
ते
पूजयामि
इत्याज्ञांगृहीत्वा
केशरेष्वग्न्यादिकोणेषु
ओँ
ह्राँ
ह्वद-यायनमः
।
ओँ
ह्रीँ
शिरसे
स्वाहा
।
ओँ
हूँशिखायै
वषट्
।
ओँह्रैँ
कवचाय
हूँ
।
ओँह्रौँनेत्रत्रयाय
व्रौषट्
।
चतुर्दिक्षु
ओँ
ह्रः
अस्त्रायफट्
।
बहिःषट्कोणे
ओँ
काल्यै
नमः
।
सर्व्वत्रप्रणवादिनमोऽन्तेन
कपालिन्यै
कुल्लायै
कुरु-कुल्लायै
विरोधिन्यै
विप्रचित्तायै
उग्रायै
उग्र-प्रभायै
दीप्तायै
इत्यन्तस्त्र्यस्ने
।
ओँनीलायै
नमःएवं
धनायै
वलाकायै
इति
द्वितीयत्र्यस्रे
।
एवंमात्रायै
मुद्रायै
मितायै
इति
तृतीयत्र्यस्रे
।“सर्व्वाः
श्यामा
असिकरा
मुण्डमालाविभूषिताःतर्ज्जनीं
वामहस्तेन
धारयन्त्यः
शुचिस्मिताः
॥
दिगम्बर्य्यो
हसन्मुख्यः
स्वस्ववाहनभूषिताः
॥
”एवं
ध्यात्वार्च्चयेत्
॥
*
॥
ततोऽष्टपत्रेषु
पूर्व्वादि-क्रमेण
ओँ
ब्राह्म्यै
नमः
।
एवं
नारायण्यै
माहे-श्वर्य्यै
चामुण्डायै
कौमार्य्यै
अपराजितायै
वाराह्यैनारसिंह्यै
एता
गन्धादिभिः
पूजयेत्
।
पत्राग्रेअसिताङ्गादिभैरवान्
पूजयेत्
।
ततो
मूलेनपुष्पाञ्जलित्रयं
दत्त्वा
पाद्यादिना
महाकालंपूजयेत्
॥
*
॥
तस्य
ध्यानम्
।“महाकालं
यजेद्देव्या
दक्षिणे
धूम्रवर्णकम्
।बिभ्रतं
दण्डखदृआङ्गौ
दंष्ट्राभीममुखं
शिशुम्
॥
व्याघ्रचर्म्मावृतकटिं
तुन्दिलं
रक्तवाससम्
।त्रिनेत्रं
मुक्तकेशञ्च
मुण्डमालाविभूषितम्
॥
जटाभारलसच्चन्द्रखण्डमुग्रं
ज्वलन्निभम्
॥
”तथा
च
कुमारीकल्पे
।“देव्यास्तु
दक्षिणे
भागे
महाकालं
प्रपूजयेत्
।”हूँ
क्ष्रौँ
यां
रां
लां
वां
आं
क्रों
महाकाल-भैरव
सर्व्वविघ्नान्नाशय
नाशय
ह्रीँ
श्रीँ
फट्स्वाहा
इत्यनेन
पाद्यादिभिराराध्यत्रिस्तर्पयित्वामूलेन
देवीं
पञ्चोपचारैः
पूजयेत्
।
तथा
चकालीतन्त्रे
।“महाकालं
यजेद्यत्नात्
पश्चाद्देवीं
प्रपूजयेत्
।”कालीकल्पे
।“कवचं
क्ष्रौं
समुद्वृत्य
यां
रां
लां
वां
आं
चक्रोन्ततः
।महाकालभैरवेति
सर्व्वविघ्नान्नाशयेति
च
॥
नाशयेति
पुनः
प्रोच्य
मायां
लक्ष्मीं
समुद्धरेत्
।फट्
स्वाहया
समायुक्तो
मन्त्रः
सर्व्वार्थसाधकः
॥
”ततो
देवीं
ध्यात्वा
यथाशक्ति
जप्त्वा
गुह्ये
त्यादिनावामहस्ते
जपं
समर्प्य
आत्मसमर्पणं
कुर्य्यात्
।ततः
स्तुत्वा
प्रदक्षिणीकृत्य
अष्टाङ्गप्रणामं
कृत्वाश्रीजगन्मङ्गलं
नाम
कवचं
पठेत्
॥
*
॥
ततआवरणदेवता
देव्यङ्गे
विलोप्य
संहारमुद्रयाअमुकीदेवी
क्षमस्वेति
विसृज्य
तत्तेजःपुष्पेणसमं
स्वहृद्यारोपयेत्
।“उत्तरे
शिखरे
देवि
भूम्यां
पर्व्व
तवासिनि
।ब्रह्मयोनिसमुत्पन्ने
गच्छ
देवि
ममान्तरम्
॥
”इति
मन्त्रेण
॥
*
॥
ततस्तननैवेद्यं
किञ्चिदुच्छिष्टचाण्डालिन्यै
नमःइत्यैशान्यां
दिशि
दत्त्वा
शेषमिष्टेभ्यो
दत्त्वाकिञ्चित्
स्वीकृत्य
पादोदकं
पीत्वा
निर्म्माल्यंशिरसि
विधृत्य
यथेच्छं
विहरेत्
॥
*
॥
ततोयन्त्रलेपं
वामहस्ते
कृत्वा
सव्यहस्तकनिष्ठयामायाबीजं
विलिख्य
तया
तिलकं
कुर्य्यात्
।तथा
त्र
।“वामे
कृत्वा
यन्त्रलेपं
मायां
सव्यकनिष्ठया
।विलिख्य
तिलकं
कुर्य्यात्
मन्त्रेणानेन
साधकः
॥
ओँ
यं
यं
स्पृशामि
पादेन
यो
मां
पश्यतिचक्षुषा
।स
एव
दासतां
यातु
राजानो
दुष्टदस्यवः
॥
”जपकाले
तु
कर्पूरयुक्ता
जिह्वा
कार्य्या
।“कर्पूराढ्या
सदा
जिह्ला
कर्त्तव्या
जपकर्म्मणि
।”इति
विश्वसारवाक्यात्
इयं
काम्यजप
इतितत्त्वम्
।
ततोमूलेनाष्टोत्तरशताभिमन्त्रितं
पुष्पंचन्दनञ्च
धृत्वा
त्रैलोक्यं
वशमानयेत्
।“सर्व्वसिद्धियुतो
भूत्वा
भैरवो
वत्सराद्भवेत्
।”अस्य
पुरश्चरणं
लक्षद्वयजपः
।
तथा
च
काली-तन्त्रे
।“लक्षमेकं
जपेन्मन्त्रं
हविष्याशी
दिवा
शुचिः
।रात्रौ
ताम्बूलपूरास्यः
शय्यायां
लक्षमानतः
॥
”व्यवस्थामाह
स्वतन्त्रे
।“दिवा
लक्षं
शुचिर्भूत्वा
हविष्याशी
जपेन्नरः
॥
”ततस्तु
तद्दशांशेन
होमयेत्
हविषा
प्रिये
॥
”अत्राङ्गस्य
कालान्तरमाह
नीलसारस्वते
।“लक्षमेकं
जपेन्मन्त्रं
हविष्याशी
दिवा
शुचिः
।अशुचिश्च
तथा
रात्रौ
लक्षमेकं
तथैव
च
॥
”“दशांशं
होमयेन्मन्त्री
तपयेदभिषेचयेत्
।”
इतिसाम्प्रदायिकाः
।
वस्तुतस्तु
।
कुमारीकरपे
।“लक्षमेकं
जपेद्विद्यां
हविष्याशी
दिवा
शुचिः
।रात्रौ
ताम्बूलपूरास्यः
शय्यायां
लक्षमानतः
॥
रात्रिजपे
तु
कालो
मुण्डमालायाम्
।“गते
तु
प्रथमे
यामे
तृतीयप्रहरावधि
।निशायास्तु
प्रजप्तव्यं
रात्रिशेषे
जपेन्न
तु
॥
एवं
लक्षद्वयं
जप्त्वा
तद्दशांशेन
मन्त्रवित्
।अयुतं
होमयेद्देवि
दिवारात्रिविभेदतः
॥
”तेन
दिवा
लक्षं
जप्त्वा
तद्दाशांशं
होमं
कुर्य्यात्
।रात्रौ
लक्षं
जप्त्वा
तद्दशांशं
होमं
कुर्य्या
दितिरहस्यार्थः
।“द्विजातीनाञ्च
सर्वेषां
दिवा
विधिरिहोच्यते
।शूद्राणाञ्च
तथा
प्रोक्तं
रात्राविष्टं
महाफलम्
॥
”अन्यत्र
च
।“दिवैव
प्रजपेन्मन्त्रं
न
तु
रात्रौ
कदाचन
॥
”
*
॥
अथ
मन्त्रभेदाः
।क्रीँ
।
१
।
क्रीँ
क्रीँ
क्रीँ
।
३
।
अनयोः
पूजा-प्रयोगः
सर्वं
पूर्व्ववत्
।
ध्यानं
सिद्धेश्वरतन्त्रे
।“शवारूढां
महाभीमां
घोरदंष्ट्रां
वरप्रदाम्
॥
हास्ययुक्तां
त्रिनेत्राञ्च
कपालकर्त्तृकाकराम्
॥
मुक्तकेशीं
ललज्जिह्वां
पिबन्तीं
रुधिरं
मुहुः
।चतुर्ब्बाहुयुतां
देवीं
वराभयकरां
स्मरेत्
॥
”अनयोः
पुरश्चरणं
लक्षजपः
॥
*
॥
ओँ
ह्रीँ
ह्रीँहूँ
हूँ
क्रीँ
क्रीँ
क्रीँ
दक्षिणे
कालिके
क्रीँ
क्रीँक्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँ
।
२१
।
अस्याः
पूजादिकंदक्षिणावत्
कार्य्यम्
।
पुरश्चरणं
लक्षजपः
॥
*
॥
ओँ
ह्रीँ
ह्रीँ
हूँ
हूँ
क्रीँ
क्रीँ
क्रीँ
दक्षिणेकालिके
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँस्वाहा
।
२३
॥
*
॥
ह्रीँ
ह्रीँ
हूँ
हूँ
क्रीँ
क्रीँक्रीँ
दक्षिणे
कालिके
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँह्रीँ
स्वाहा
।
२२
॥
*
॥
ह्रीँ
ह्रीँ
हूँ
हूँ
क्रीँक्रीँ
क्रीँ
दक्षिणे
कालिके
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँह्रीँ
ह्राँ
२०
।
ध्यानपूजादिकं
दक्षिणावत्
॥
*
॥
क्रीँ
क्रीँ
क्रूँ
।
३
॥
*
॥
ओँ
ह्रीं
क्रीँ
मे
स्वाहा
।
६अस्याः
पूजाप्रयोगः
।
अस्य
भैरव
ऋषिर्विराट्च्छन्दः
सिद्धकाली
ब्रह्मरूपा
भुवनेश्वरी
देवतानिजबीजं
बीजं
लज्वाबीजं
शक्तिः
।
वर्ण-न्यासादि
दक्षिणावत्
।
ध्यानन्तु
।“खङ्गाद्भिन्नेन्दुखण्डस्रवदमृतरसाप्लाविताङ्गीत्रिनेत्रा
।सव्ये
पाणौ
कपालोद्गलदसृजमथो
मुक्तकेशीपिबन्ती
।दिग्वस्त्राबद्धकाञ्चीमणिमयमुकुटाद्यैर्युतां
दीप्त-जिह्वापायान्नीलोत्पलाभा
रविशशिविसत्कुण्डला-लीढपादा
॥
”एवं
ध्यात्वा
दक्षिणावत्
सर्व्वं
कार्य्यम्
।
पुश्चर-णन्तु
एकविंशतिसहस्रजपः
॥
*
॥
क्रीँ
ह्रीँ
ह्रीँ३
॥
*
॥
क्रीँ
क्रीँ
क्रीँ
स्वाहा
।
५
॥
*
॥
क्रीँक्रीँ
क्रीँ
फट
स्वाहा
।
६
॥
*
॥
क्रीँ
क्रीँ
क्रीँक्रीँ
क्रीँ
क्रीँ
स्वाहा
।
८
॥
*
॥
ऐँ
नमः
।
क्रीँऐँ
नमः
।
क्रीँ
कालिकायै
स्वाहा
।
१४
॥
*
॥
एतस्याः
पूजाप्रयोगः
।
अस्य
दक्षिणा
मूर्त्ति-ऋषिः
पंक्तिच्छन्द्रः
कालिका
देवता
।
ध्यानन्तु“चतुर्भुजा
कृष्णवर्णा
मुण्डमालाविभूषिता
।खङ्गञ्च
दक्षिणे
पाणौ
बिभ्रतीन्दीवरद्वयम्
॥
कर्त्तृञ्च
खर्परञ्चैव
क्रमाद्वामेन
बिभ्रती
।द्यां
लिखन्तीं
जटामेकां
बिभ्रती
शिरसाद्वयी
॥
मुण्डमालाधरा
शीर्षे
ग्रीवायामथ
चापराम्
।वक्षसा
नागहारञ्च
बिभ्रती
रक्तलोचना
॥
कृष्णवस्त्रधरा
कठ्यां
व्याघ्राजिनसमन्निता
।बामपादं
शवहृदि
संस्थाप्य
दक्षिणं
पदम्
॥
विलाप्य
सिंहपृष्ठे
तु
लेलिहाना
शवं
स्वयम्
।साट्टहासा
महाघोररावयुक्ता
सुभीषणा
॥
”ध्यानमेवं
अन्यत्
सर्व्वं
दक्षिणावत्
।
पुरश्चरणंलक्षद्वयजपः
।
अन्यासां
मन्त्रवर्णसंख्यलक्ष-जपः
॥
*
॥
क्रीँ
ह्रीँ
ह्रीँ
दक्षिणे
कालिकेस्वाहा
॥
११
॥
क्रीँ
हूँ
ह्रीँ
दक्षिणे
कालिकेफट्
।
१०
॥
*
॥
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँ
दक्षिणेकालिके
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँ
स्वाहा
।
२०एतासां
दक्षिणा
मूर्त्तिऋषिः
पंक्तिच्छन्दो
दक्षिणकालिका
देवता
।
अन्यत्
सर्व्वं
दक्षिणावत्
॥
*
॥
क्रीँ
स्वाहा
३
।
भैरवोऽस्य
ऋषिः
॥
*
॥
क्रीँक्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँ
स्वाहा
।
८
॥
*
॥
क्रीँहूँ
ह्रीँ
स्वाहा
।
५
।
अस्य
पञ्चवक्त्र
ऋषिः
॥
*
॥
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँ
स्वाहा
।
९
॥
*क्रीँ
दक्षिणे
कालिके
स्वाहा
।
९
॥
*
॥
क्रीँ
॥
हूँ
ह्रीँ
क्रीँ
हूँ
ह्रीँ
स्वाहा
।
८
॥
*
॥
क्रीँ
॥
क्रीँ
क्रीँ
ह्रीँ
ह्रीँ
हूँ
हूँ
क्रीँ
क्रीँ
क्रीँ
ह्रीँह्रीँ
हूँ
हूँ
स्वाहा
।
१६
॥
*
॥
नमः
ऐँ
क्रीँक्रीँ
कालिकायै
स्वाहा
।
११
॥
*
॥
नमः
आँआं
क्रोँ
क्रोँ
फट्
स्वाहा
कालि
कालिहूँ
।
१४
॥
*
॥
एतासां
ऋष्यादिकं
पूजादिकञ्चदक्षिणावत्
।
पुरश्चरणं
लक्षजपः
॥
*
॥
अथगुह्यकालिकामन्त्राः
।
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँह्रीँ
ह्रीँ
गुह्ये
कालिके
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँह्रीँ
ह्रीँ
स्वाहा
।
२१
॥
*
॥
क्रीँ
हूँ
ह्रीँगुह्ये
कालिके
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँस्वाहा
।
१६
॥
*
॥
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँह्रीँ
गुह्ये
कालिके
स्वाहा
।
१४
॥
*
॥
क्रीँहूँ
ह्रीँ
गुह्ये
कालिके
हूँ
हूँ
ह्रीँ
ह्रीँस्वाहा
।
१४
॥
*
॥
क्रीँ
हूँ
ह्रीँ
दक्षिणेकालिके
हूँ
हूँ
ह्रीँ
ह्रीँ
स्वाहा
।
१५
॥
*
॥
हूँ
ह्रीँ
गुह्ये
कालिके
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँह्रीँ
स्वाहा
१५
॥
*
॥
क्रीँ
गुह्ये
कालिकेक्रीँ
स्वाहा
।
९
॥
*
॥
क्रीँ
दक्षिणे
कालिकेक्रीँ
स्वाहा
।
१०
॥
*
॥
एतासां
सर्वं
पूर्ववत्
।बलिमन्त्रस्तु
।
एह्ये
हि
जगन्मातर्ज्जगतां
जननिगृह्ण
गृह्ण
मम
बलिं
सिद्धिं
देहि
देहि
शत्रुक्षयंकुरु
कुरु
क्रूँ
क्रूँ
ह्रीँ
ह्रीँ
फट्
फट्
ओँकालिकायै
नमः
फट्
स्वाहा
॥
*
॥
यद्वा
गुह्यकाल्याअयं
मन्त्रः
।
एह्येहि
गुह्यकालि
मम
बलिं
गृह्णगृह्ण
मम
शत्रन्
नाशय
नाशय
खादय
खादयस्फु
र
स्फु
र
छिन्धि
छिन्धि
सिद्धिं
देहि
देहिक्रूँ
फट्
स्वाहा
॥
*
॥
अथ
भद्रकाल्यादिमन्त्राःक्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँ
भद्रकाल्यैक्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रँ
ह्रँ
स्वाहा
।
२०
।
*
॥
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँ
श्मशानकालिक्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँ
स्वाहा
।
२१
॥
*
॥
क्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँ
महाकालिक्रीँ
क्रीँ
क्रीँ
हूँ
हूँ
ह्रीँ
ह्रीँ
स्वाहा
।
२०
॥
*
॥
एतासां
पूजादिकं
दक्षिणावत्
।
ध्यानन्तु
।“महामेघप्रभां
देवीं
कृष्णवस्त्रपिधायिनीम्
।ललज्जिह्वां
घोरदंष्ट्रां
कोटराक्षीं
हसन्मुखीम्
॥
नागहारलतोपेतां
चन्द्रार्द्धकृतशेखराम्
।द्यां
लिखन्तीं
जटामेकां
लेलिहानां
शवं
स्वयम्
॥
नागयज्ञोपवीताङ्गीं
नागशय्यानिषेदुषीम्
।पञ्चाशन्मुण्डसंयुक्तवनमालां
महोदरीम्
॥
सहस्रफणसंयुक्तमनन्तं
शिरसोपरि
।चतुर्दिक्षु
नागफणावेष्टितां
गुह्यकालिकाम्
॥
तक्षकसर्पराजेन
वामकङ्कणभूषिताम्
।अनन्तनागराजेन
कृतदक्षिणकङ्कणाम्
॥
नागेन
रसनाहारकल्पितां
रत्ननूपुराम्
।वामे
शिवस्बरूपन्तं
कल्पितं
वत्सरूपकम्
॥
द्विभुजां
चिन्तयेद्देवीं
नागयज्ञोपवीतिनीम्
।नरदेहसमाबद्धकुण्डलश्रुतिमण्डिताम्
॥
प्रसन्नवदनां
सौम्यां
नवरत्नविभूषिताम्
।नारदाद्यैर्म्मुनिगणैः
सेवितां
शिवमोहिनीम्
।साट्टहासां
महाभीमां
साधकाभीष्टदायिनीम्
॥
”गुह्यकाली
इत्युपलक्षणम्
॥
*
॥
भद्रकालीमन्त्रा-न्तरम्
।“प्रसादबीजमुद्धृत्य
कालीति
पदमुद्धरेत्
।महाकालीपदं
चोक्त्वा
किलियुग्मं
ततः
परम्
॥
अस्त्रमग्निप्रियान्तोऽयं
भद्रकाल्या
महामनुः
॥
”ओँ
कालि
महाकालि
किलि
किलि
फट्स्वाहा
॥
*
॥
ध्यानं
यथा,
--“क्षुत्क्षामा
कोटराक्षी
मसिमलिनमुखीमुक्तकेशी
रुदन्तीनाहं
तृप्ता
वदन्ती
जगदखिलमिदं
ग्रासमेकंकरोमि
।हस्ताभ्यां
धारयन्ती
ज्वलदनलशिखासन्निभंपाशयुगमंदन्तैर्ज्जम्बूफलाभैः
परिहरतु
भयं
पातु
मांभद्रकाली
॥
”अस्याः
पुरश्चरणादिकं
दक्षिणकालीतन्त्रवत्
।इति
केचित्
॥
वस्तुतस्तु
पुरश्चरणमष्टोत्तर-सहस्रजपः
।
इति
कृष्णानन्दकृततन्त्रसारः
॥
*
॥
श्मशानकालीमन्त्रादिकं
तच्छब्दे
द्रष्टव्यम्
॥
*
॥
अथ
दीपन्विताश्यामापूजा
।
यामले
।“कार्त्तिके
मासि
कृष्णायां
पञ्चदश्यां
महानिशिपूजयेत्
योऽतियत्नेन
काली
विद्या
प्रसीदति
॥
मृण्मयीं
प्रतिमां
कृत्वा
महाकालीं
प्रपूजयेत्
॥
”व्योमकेशसंहितायाम्
।“तुलार्के
यस्त्वमावास्यां
निशार्द्धे
घोरदक्षिणाम्पूजयेद्विधिवद्भक्त्या
सर्व्वसिद्धीश्वरो
भवेत्
॥
”
इति
॥
एवञ्च
अर्द्धरात्रं
पूजाया
मुख्यकालः
।
स
चकालो
यद्यु
भयदिने
तदा
पूर्व्वदिने
पूजा
।
यथतत्रैव
।“तत्रोभयदिने
शस्तकाले
भूतयुता
यदि
।उमा
माहेश्वरी
सा
च
तिथिः
सिद्धिप्रदासताम्
॥
वलिदानं
वलितिथावात्मनाशकरं
परम्
।ततस्तत्र
न
कर्त्तर्व्ये
बलिदानविसर्ज्जने
॥
मन्त्रसिद्धिकरं
तत्र
परेऽह्नि
जपसाधनम्
।रात्रौ
पूजा
प्रकर्त्तव्या
रात्रावेव
विसर्ज्जनम्
।प्रकाशे
सिद्धिहानिः
स्याद्गोपने
सिद्धिरुत्तमा
॥
”तथा
कालीकल्पे
।“तुलार्के
बहुले
पक्षे
पञ्चदश्यां
महेश्वरीम्
।यथोपचारैः
संपूज्य
महानिशि
नृपो
भवेत्
।शनिभौमदिने
चेत्
स्यात्ततः
शतगुणं
फलम्
॥
तत्रोभयदिने
भूतयुक्तकुह्वां
महानिशि
॥
इमां
यात्रां
कारयित्वा
चक्रवर्त्ती
भवेन्नृपः
॥
”इति
॥
महेश्वरीं
दक्षिणकालीं
तत्प्रकरणोक्तत्वात्
॥
*
।कार्त्तिकामावास्यायां
कालीपूजाहेतुमाह
विश्व-सारे
।“कार्त्तिके
कृष्णपक्षेतु
पञ्चदश्यां
महानिशि
।आविर्भूता
महाकाली
योगिनीकोटिभिःसह
॥
अतोऽत्र
पूजनीया
सा
तस्मिन्नहनि
मानवैः
।बलिपूजादिकं
सर्व्वं
निशायां
क्रियते
तु
यत्
।तत्तदक्षयतां
याति
काली
विद्या
प्रसीदति
॥
”महानिशि
अर्द्धरात्रे
।
तथा
च
उत्तरकामाख्या-तन्त्रे
।“शरत्काले
च
देवेशि
दीपयात्रादिनेऽपि
च
।अमावास्यां
समासाद्य
मध्यरात्रौ
विचक्षणः
॥
मृण्मयीं
पुत्तलीं
कृत्वा
दीपादिभिरलङ्कृताम्
।बलिं
नानाविधं
दद्यात्
वाद्यभाण्डसमन्वितम्
॥
नृत्यगीतं
कौतुकञ्च
यावत्
सूर्य्योदयं
भवेत्
।प्रातःकाले
शुद्धतोये
स्थापयेदरिनाशिनीम्
॥
”इति
॥
एतेनास्या
दीपयात्राप्यर्द्धरात्रे
बोध्या
।
आवि-र्भुतेत्यनेनार्द्धरात्रे
जन्मश्रवणात्
तत्रैव
पूजामुख्येति
।
तथा
बृहद्धर्म्मपुराणे
।“रात्रौ
निशीथव्याप्तायाममावास्यामिहैव
तु
।पृथ्वीतलं
ममायाता
काली
दिग्वसनाम्बिका
॥
अतस्तामत्र
वै
भक्त्या
देवदेवीं
द्विजातयः
।पूजयेदात्मनो
भक्त्या
पशुपुष्पार्घ्यसम्पदा
॥
”
इतितथा
गुप्तसाधनतन्त्रे
।“निशा
तु
परमेशानि
सूर्य्ये
चास्तमुपागते
।प्रहरे
च
गते
रात्रौ
घटिके
द्वे
परे
च
ये
॥
महानिशा
समाख्याता
ततश्चातिमहानिशा
।अर्द्धरात्रे
गते
देवि
पशुभावो
न
पूजयेत्
॥
”अर्द्धरात्रे
गते
अर्द्धरात्रात्
परम्
।
तथा
।“दशदण्डे
तु
या
पूजा
तत्
सर्व्वमक्षयं
भवेत्
।षष्ठक्रोशे
महेशानि
तत्
सर्व्वममृतोपमम्
॥
सप्तमक्रोशके
देवि
सर्व्वं
क्षीरोपमं
भवेत्
।अष्टमक्रोशके
देवि
!
द्रव्यतुल्यं
न
संशयः
॥
अतः
परं
महेशानि
विषतुल्यं
न
संशयः
।एतत्
सर्वं
महेशानि
पशुभावे
मयोदितम्
॥
”अर्द्धरात्रस्य
गौणत्वश्रवणात्
पशूनां
यत्र
पूर्व्व-दिने
अर्द्धरात्रव्यापिन्यमावास्या
न
तु
तत्पूर्व्वंप्राप्तिः
परदिने
च
रात्रेः
पञ्चममुहूर्त्तव्यापिनीतदा
परेद्युः
पूजेति
चेन्न
गुप्तसाधनतन्त्रोक्तव
चनञ्च
नित्यपूजादिपरम्
।
कार्त्तिकामावास्याया-मर्द्धरात्रे
जन्मनिमित्तकपूजाया
विशेषेणाभि-धानात्
।
पशुभिरपि
एवंभूतस्थले
पूर्व्वदिने-अर्द्धरात्र
एव
पूजा
कार्य्या
।
यथा
श्रीकृष्ण-पूजायाः
सामान्यतो
निशायामकर्त्तव्यत्वेऽपिजन्माष्टम्यामर्द्धरात्रकर्त्तव्यता
मुख्यतमेति
परन्तुयत्र
पूर्व्वदिने
अर्द्धरात्रात्
परममावास्या
पर-दिने
अर्द्धरात्रात्
पूर्वमेव
तत्र
पशुभाविनः
परदिने
वीरदिव्ययोश्च
पूर्व्वदिने
पूजा
कार्य्या
इतिप्रमाणं
गोप्यगोपनलीलागमीयषष्ठपटले
।
एवंयत्र
पूर्व्वदिने
अर्द्धरात्रव्यापिन्यमावास्या
पर-दिने
तथा
भूतापि
कुजवारादियुक्ता
तत्रापिपूर्व्वदिने
पूजा
गुणफलकुजवारादिकमपेक्ष्य
चतु-र्द्दशीयोगस्य
मुख्यत्वात्
।
तथोक्तं
व्योमकेश-तन्त्रे“कुजवारे
लक्षगुणं
पूर्व्वविद्धा
ततोऽधिकेति
।”कुजवार
इति
शनिवारोपलक्षणम्
।“शनिभौमदिने
चेत्
स्यात्ततः
शतगुणं
फलम्
।इति
श्रवणात्
॥
कार्त्तिकामावास्यायां
कालीपूजाया
नित्यता-माह
मायातन्त्रे
।“वर्षे
वर्षे
च
कर्त्तव्यं
कालिकाया
महोत्सवम्
।कार्त्तिके
तु
विशेषेण
अमावास्यां
निशार्द्धके
॥
”इति
॥
देव्यागमे
च
।प्रतिसंवत्सरं
कुर्य्यात्
कालिकाया
महोत्सवम्कार्त्तिके
तु
विशेषेण
अमावास्यां
निशार्द्धके
।त्र
संपूजयेद्देवीं
भोगमोक्षप्रदायिनीम्
॥
”इति
।एवञ्चात्र
कार्त्तिकपदं
गौणचान्द्रकार्त्तिकपरंजन्मतिथिकृत्यत्वात्
।
न
तु
नानावचने
तुलार्कश्रवणात्
सौरकार्त्तिकपरम्
।
तथा
सति
यस्मिन्वर्षे
तुलार्के
रात्रौ
नामावास्याप्राप्तिस्तद्वर्षेकृत्यलोपः
स्यात्
।
एवं
यत्र
वर्षे
तुलार्के
दर्शद्वयंतत्रानध्यवसायापत्तेः
।
स्पष्टमुक्तं
विद्योत्पत्तितन्त्रे“कार्त्तिकस्याप्यमाबास्या
गौणचान्द्रप्रमाणतः
।निशीथव्यापि
नी
या
तु
तस्यां
पूजां
समाचरेत्
॥
”निशीथमर्द्धरात्रम्
।
एव
यत्र
पूर्वदिने
निशीथ-व्यापिन्यमावास्या
कन्यार्के
परदिने
च
तुलार्के-ऽर्द्धरात्रात्
परं
मुहूर्त्तादिव्यापिनी
तत्रापि-पूर्वदिने
निशीथस्य
मुख्यकालत्वानुरोधात्
भूत-तिथियोगानुरोधाच्च
तुलार्कस्य
दिनभेदनिया-मकत्वेन
श्रुतत्वात्
।
परन्तु
तुलार्कपदं
नाना-वचने
यद्यस्ति
तत्प्रायिकाभिप्रायेणगुणफलाभि-प्रायेण
वा
बोध्यम्
।
अतएव
तिथितत्त्वधृत-मादिपुराणम्
।“ऋक्षराशिविशेषेण
यत्
कर्म्म
विहितं
नरैः
।दैवं
वाप्यथवा
पैत्र्यं
तदन्यत्रापि
दृश्यते
॥
”इति
।अगस्त्यसंहितायाम्
।“मेषं
पूषणि
संप्राप्ते
लग्ने
कर्क्कटकाह्वये
।आविरासीत्
सकलया
कौशल्यायांपरःपुमान्
॥
”इति
॥
अत्र
मेषार्के
जन्मश्रवणं
मीनार्केऽपि
कदाचित्उपवासः
।
यत्तु
तन्त्रीयमिति
कृत्वा
पठन्ति
।“तुलार्के
त्वर्द्धरात्रे
या
दीपयात्रा
तिथिर्भवेत्
।तत्र
संपूजयेत्
कालीं
सर्वकामार्थसिद्धये
॥
निशार्द्धे
सा
तिथिर्नास्ति
तदधःकालसंयुता
।तत्रापि
पूजयेत्
कालीं
तुलार्कं
नैव
लङ्घयेत्
॥
”इति
तदमूलम्
।
समूलकत्वेऽपि
तुलार्के
इत्यत्रतुशब्दः
कन्यार्कग्राहकः
।
तेन
तुलार्के
कन्यार्केवा
इत्यर्थः
।
तुलार्कमात्रपरत्वे
प्रतिसंवत्सरइत्यस्य
वाधापत्ते
रुक्तत्वात्
।
तुलार्क
नैव
लङ्घ-येदित्यस्य
तुलार्कविहितपूजां
न
त्यजेत्
इत्यर्थःतुलार्कविहितपूजायागौणकार्त्तिकत्वेनकर्त्तव्य-तायां
विधेस्तात्पर्य्यस्योक्तत्वात्
।
यद्वा
सर्वत्रतुलार्कघटितवचनेषु
तुलार्कस्यामावास्यायामुप-लक्षणतयान्वयः
।
न
तु
विशेषणतया
।
न
वापूजायामपि
तदन्वयः
।
तेन
तुलार्कोपलक्षिता-मावास्यायां
निशीथे
कालीं
पूजयेत्
इतिविधि-स्तेनगौणचान्द्रकार्त्तिकामावास्यालाभः
।
तस्या-मेव
तुलार्कसम्बन्धनियमात्
।
अन्यथा
तुलास्थ-रव्यारब्धत्वाभावेन
कदाचित्
तत्परप्रतिपदादि-दर्शान्तस्य
मुख्यकार्त्ति
कत्वानुपपत्तिः
।
मुख्य-कार्त्ति
कामावास्यायाः
कदाचित्वृश्चिके
सत्त्वात्न
तु
तुलार्के
नियमः
।
तथा
च
तुलार्कनियता-मावास्यायां
निशीथे
कालीं
पूजयेदिति
पर्य्यव-सितम्
।
तुलार्कं
नैव
लङ्घयेदित्यत्र
तुलार्कपदञ्चतुलार्कोपलक्षितामावास्यापूजापरम्
।
संकल्प-वाक्ये
तु
कार्त्तिके
मासीत्युल्लेख्यं
न
तु
राश्युल्ले-खोऽपि
गौणचान्द्रेण
विधानात्
।
केचित्तु
उपल-क्षणतया
अमावास्यायां
अन्वयतात्पर्य्येणतुलाराशिस्थे
भास्करे
इत्युल्लेख्यं
इति
भास्करपदोत्तरसप्तम्या
उपलक्षणतया
तत्कालसम्बन्ध-बोधनसामर्थ्यात्
इति
वदन्ति
॥
*
॥
तन्त्रान्तरे
।“तुलाराशिं
गते
भानौ
दीपयात्रानिशासु
च
।पूजयेत्
कालिकां
देवीं
धर्म्मकामार्थसिद्धये
॥
”तन्त्रे
।“अर्द्धरात्रात्
पुरस्तात्तु
यावद्वै
घटिकाद्वयम्
।सा
महारात्रिरुद्दिष्टा
यद्दत्तमक्षयं
भवेत्
॥
महानिशात्र
विज्ञे
या
अर्द्धरात्रात्
परं
शिवे
।नाडीचतुष्टयं
शस्तं
तत्र
पूजा
महाफला
॥
”विद्योत्पत्तितन्त्रे
।“दीपोत्सवचतुर्द्दश्याममाया
योग
एव
च
।कालरात्रिर्म्महेशानि
काली
तारा
प्रियङ्करी
॥
”ज्ञानार्णवे
।“महारात्रावमावास्यां
दक्षिणायाः
प्रपूजनम्
।कार्त्तिके
मासि
सुश्रोणि
कालीप्रीतिकरं
परम्
॥
तत्रापि
च
निशीथे
तन्माहासिद्धिप्रदं
नृणाम्
।निशीथात्
परतो
देवि
यत्तु
नाडीचतुष्टयम्
॥
सा
महारात्रिरुत्कृष्टा
तत्र
पूजा
महाफला
।तारतम्येन
देवेशि
पूजायाः
फलकल्पनम्
॥
”कुलार्णवेऽपि
।“भूतयुक्ता
महेशानि
महारात्रौ
तु
या
कुहूः
।सा
कालरात्रिरुद्दिष्टा
कालीतारा
प्रियङ्करी
॥
तत्र
पूजा
तयोः
कार्य्या
नानापशुविहिंसनम्
।बलिदानं
बलिताथावात्मनाशकरं
शिवे
!
॥
”कुलचूडामणौ
।“तिथिभ्यः
शतगुणं
पर्व्व
दर्शः
कोटिगुणोत्तरः
।फलोपचारबहुलैज्यैष्ठे
सूर्य्येन्दुसङ्गमे
।पूजयित्वा
महाकालीं
नरो
निर्व्वाणमृच्छति
॥
चतुर्वर्गप्रदं
दर्शे
कार्त्तिके
कालिकार्च्चनम्
।अनन्तफलदं
तत्र
पर्व्वयुक्ते
च
पर्व्वणि
॥
निशार्द्धे
पूजयद्देवीं
नृमुण्डां
मुण्डमालिनीम्
।पश्चाज्झिल्लीरवे
घोरे
सर्व्वप्राणिभयङ्करे
॥
”कालीकुलसद्भावे
।“दीपोत्सर्गचतुर्द्दश्या
संमिश्रा
या
भवेत्
कुहूः
।तस्यां
या
तामसी
रात्रिः
सोच्यते
काल-रात्रिका
॥
तस्यां
पूजा
प्रकर्त्तव्या
काली
तारा
प्रियङ्करी
॥
तुलामकरमेषेषु
कन्यायां
मिथुने
तथा
।भूतविद्धाप्यमावास्या
पूज्या
भवति
यत्रतः
॥
”इति
जीमूतवाहनकृतधर्म्मरत्ने
कालविवेकधृतहारीतवचनम्
॥
*
॥
शिवरात्रिप्रकरणे
देव-लोक्तमहानिशा
यथाः,
--“महानिशे
द्वे
घटिके
रात्रेर्म्मध्यमयामयोः
॥
”इति
गङ्गामाहात्म्यप्रकरणे
गृहस्थरत्नाकर-धृता
तु
।“महानिशा
तु
विज्ञेया
मध्यमं
प्रहरद्वयम्
।तत्र
स्नानं
न
कुर्व्वीत
नित्यनैमित्तिकादृते
॥
”ब्रह्मवैवर्त्ते
श्रीकृष्णजन्मखण्डे
।“षण्मुहूर्त्ते
व्यतीते
तु
रात्रावेव
महानिशा
।”कृत्यतत्त्वार्णवे
बौधायनः
।“महानिशा
तु
विज्ञेया
मध्यं
मध्यमयामयोः
।”दव्यागमे
।“अमावास्यामर्द्धरात्रे
दक्षिणां
पूजयेत्पराम्
।कुलऋक्षे
च
यः
कुर्य्यात्
स
गच्छेच्छिवसन्नि-धिम्
॥
तुलायां
भौमवारे
च
अमावास्या
यदा
भवेत्
।तिथिः
सापि
महापुण्या
शिवेन
परिकीर्त्तिता
॥
वर्षेश्चतुर्भिर्यत्
पुण्यं
विधिवत्
पूज्य
चण्डिकाम्तत्फलं
लभते
वीर
अमावास्यां
निशार्द्धके
॥
”कालीकुलतन्त्रे
।“निशार्द्धे
पूजयेद्देवीं
श्मशानालयवासिनीम्
॥
”इति
॥
मालिनीतन्त्रे
।“एतत्सन्ध्यात्रयेणैव
अर्द्धरात्रौ
तु
वन्दना
।महारात्रावपि
तथा
कार्य्या
देशिकसत्तमैः
॥
”
*स्वापकालो
यथा,
--श्रीदेव्युवाच
।“देवदेव
महादेव
संसारार्णवतारक
।देवतायाः
स्वापकालं
कथयस्व
दयानिधे
॥
श्रीशिव
उवाच
।चतुर्द्दण्डात्
परं
देवि
रात्रेः
प्रथमयामकः
।स्वापकालस्तु
कथितः
पूजानर्थफलप्रदा
।पूजा
होमस्तोत्रनती
जाग्रत्काले
प्रशस्यते
॥
”इति
कालीकुलामृततन्त्रे
॥
*
॥
“समुद्रमथने
देवि
देवासुरगणाः
पुरा
।नाराध्य
त्वां
प्रमथ्नीयुरतस्त्वं
विषरूपिणी
॥
आविर्भूता
महाकाली
ब्रह्माण्डनाशनाशिनी
।तद्दृष्ट्वा
देवा
दैत्याश्च
भीता
मां
शरणं
गताः
॥
तेषामपि
भयं
दृष्ट्वा
भीतोऽहं
विषसन्निधौ
।गत्वा
ध्यानपरो
भूत्वा
विषं
पातुं
समारभे
॥
पूर्व्वोक्ता
या
महाविद्या
आविर्भूता
च
मेहृदि
।तुलां
कुह्वां
निशार्द्धे
च
देवदानवनिद्रिते
॥
मनुष्यपशुपक्ष्यादौ
निद्रिते
चान्यजन्तुषु
।तस्मिन्
काले
मया
पूज्या
इन्द्रेणाप्यसुरेण
तु
॥
देव्युवाच
।कुत्र
काले
त्वया
पूज्या
इन्द्रेणाप्यसुरेण
च
॥
महादेव
उवाच
।अर्द्धरात्रान्मुर्त्ते
च
मया
चेन्द्रेण
पूजिता
।ततो
मुहूर्त्ते
संपूज्या
वीरेणाप्यसुरेण
च
॥
अत
आद्यः
पाशवः
स्यात्
वैरः
शेषः
प्रकी-र्त्तितः
।म्वायम्भुवेन
मनुना
मर्त्त्ये
तेन
प्रपूजिता
॥
”इति
गोप्यगोपनलीलागमे
६
पटलः
॥
*
॥
कालीकुलसर्व्वस्वे
।“निशार्द्धे
सा
तिथिर्नास्ति
तदूर्द्ध्वे
भूतसंयुता
।तत्रापि
पूजयेद्देवों
भूतयुक्तां
न
लङ्घयेदिति
॥
”अथ
रक्षाकालीपूजाप्रमाणम्
।
उत्तरकामाख्या-तन्त्रे
।“मारीभये
समायाते
दुर्भिक्षभयपीडिते
।पूजयेत्
परया
भक्त्या
कालीं
कालविनाशिनीम्
॥
रक्षणात्
सर्व्वभूतानां
रक्षाकालीतिं
सास्मृता
॥
”ज्ञानार्णवे
।“सर्व्वविघ्नोपशान्त्यर्थं
रक्षाकालीं
प्रपूजयेत्
।शनिमङ्गलवारे
च
प्रदोषे
पूजयेत्
शिवाम्
॥
चतुर्द्दश्याममायां
वा
नवम्यामष्टमीतिथौ
।पूजनात्
वरदा
काली
यथेप्सितफलप्रदा
॥
”कालीकूलसर्व्वस्वे
।“निशामुखे
महेशानी
काली
रक्षार्थमादरात्पूजनीया
नृभिः
सर्व्वैरुपचारसमन्वितैः
।वित्तशाठ्यं
न
कर्त्तव्यं
यथाविभवविस्तरैः
॥
”निरुत्तरतन्त्रे
।“बलिदानन्तु
विधिवत्
मधुभिः
पायसे
न
च
।पूपैर्म्मोदकसंघैश्च
पृथुकैः
श्रीफलैरपि
॥
नानाफलैः
शाकसूपैः
पञ्चतत्त्वै
र्म्महेश्वरीम्
।पूजयेद्विघ्नशान्त्यर्थं
कालीं
रक्षाविधायिनीम्
॥
प्रदोषसमये
पूजा
कर्त्तव्या
भूतिमिच्छता
।रात्रौ
विसर्ज्जनं
कार्य्यं
क्रीडाकौतुकमङ्गलैः
॥
भैरवतन्त्रे
।“अथ
वक्ष्ये
महेशानि
घोरे
मारीभये
तथा
।औत्पातिके
च
दुर्भिक्षे
युद्धे
राष्ट्रभयागते
।पूजां
कुर्य्यात्
महाकाल्या
रक्षार्थं
पञ्चपर्व्वसु
॥
प्रदोषकाले
संपूज्य
निशायान्तु
विसर्ज्जयेत्
।मुहूर्त्तद्वितयं
कालः
प्रदोषोऽस्तमयात्ततः
॥
”तन्त्रान्तरे
।“निशामुखे
महाकालीं
महामारीभये
शिवाम्कालीं
त्रैलोक्यरक्षार्थं
पूजयेत्
रक्षणात्मि-काम्
॥
”
*
॥
अथ
फलहारीपूजाप्रमाणम्
।“मधुमासे
सिताष्टम्यां
वैशाखत्रितयेऽहनि
।पौर्णमास्यां
तथा
ज्यैष्ठे
अमायाञ्च
महेश्वरि
॥
”इत्यादि
।“आमायां
कार्त्तिके
चैवनवम्यां
शुक्लपक्षके
।”इति
कात्यायनीतन्त्रे
७८
पटलः
॥
“ज्यैष्ठे
मासि
तथामायां
सफलं
कालिकार्च्चनम्
।”इत्युत्तरकामाख्यातन्त्रे
११
पटलः
॥
“ज्यैष्ठे
मासि
अमायां
वै
मध्यरात्रे
महेश्वरि
।पूजयेत्
कालिकां
देवीं
नानाद्रव्योपहारकैः
॥
तत्रैव
सितपक्षे
तु
पञ्चदश्यां
निशार्द्धके
।पूजयेच्च
फलैर्लक्षैः
शक्तितो
वापि
कालिकाम्
॥
”इति
मायातन्त्रे
२७
पटलः
॥
अथ
रटन्तीपूजाप्रमाणम्
।“माघे
मास्यसिते
पक्षे
रटन्त्याख्या
चतुर्द्दशी
।तस्यां
निशार्द्ध
समये
पूजयेन्मुण्डमालिनीम्
॥
”इति
मायातन्त्रे
१७
पटलः
॥
“मकरस्थे
रवौ
कृष्णचतुर्द्दश्यां
निशार्द्धके
।पूजयेद्दक्षिणां
कालीं
धर्म्मकामार्थसिद्धये
॥
”इत्युतरकामाख्यातन्त्रे
९
पटलः
॥
श्यामा
स्त्री
श्यै--मन्
।
१
शारिवौषधौ
२
अप्रसूताङ्गनायां३
प्रियङ्गौ
४
यमुनायां
५
वागुजौ
६
रात्रौ
७
कृष्णत्रिवृति८
नील्यां
मेदि०
९
गुग्गुलौ
१०
सोमलतायां
११
गुन्द्रायां१२
कृष्णायाम्
१३
अम्बिकायां
विश्वः
।
१४
गुडूच्यां
१५
क-स्तूर्य्यां
१६
षटपत्त्र्यां
१७
वन्दायां
१८
नीलपुनर्नवायां१९
पिप्पात्यां
२०
हरिद्रायां
२१
नीलदूर्वायां
२२
तुलस्यां२३
पद्मवीजे
२४
गवि
२५
छायायां
२६
कृष्णशारिकायां२७
शिशपायां
२८
पक्षिभेदे
(
शामा
)
राजनि०
।“शीतकाले
भवेदुष्णा
ग्रीष्मे
च
सुखशीतला
।
तप्तका-ञ्चनवर्णाभा
सा
स्त्री
श्यामेति
कीर्त्तिता”
इत्युक्तलक्षणे२९
स्त्रीविशेषे
च
।
३०
हिमालयसुतायां
काल्यां
च“ततः
सा
कालिका
देवी
योगनिद्रा
जगन्मयी
।
पूर्वत्यक्तसतीरूपा
जन्मार्थं
मेनकां
ययौ
।
समयस्यानुरूपेणमेनका
जठरे
शिवा
।
सम्भूय
च
समुत्पन्ना
सा
लक्ष्मीरिव
सागरात्
।
वसन्तसमये
देवी
नवम्यां
मृगयोगतः
।अर्द्धरात्रौ
समुत्पन्ना
गङ्गेव
शशिमण्डलात्
।
तान्तु
दृष्ट्वायथा
जातां
नीलोत्पलदलानुमाम्
।
श्यामां
सा
मेनकादेवी
मुदमापातिहर्षिता”
कालिकापु०
४०
अ०
।
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.