| YouTube Channel

श्यामसुन्दरः (zyAmasundaraH)

 
Apte Hindi
Hindi
श्यामसुन्दरः
पुं*
श्याम्-सुन्दरः -
कृष्ण का विशेषण
शब्दकल्पद्रुमः
Sanskrit
श्यामसुन्दरः,
पुं,
(श्यामः सुन्दरश्च ।) श्रीकृष्णः ।यथा, --“यावन्ति शरीराणि भोगार्हाणि महामुने ।प्राकृतानि सर्व्वाणि श्रीकृष्णविग्रहं विना
ध्यायन्ते योगिनस्तञ्च शुद्धं ज्योतिः स्वरूपिणम्हस्तपादादिरहितं निर्गुणं प्रकृतेः परम्
वैष्णवास्तं मन्यन्ते तद्भक्ता सूक्ष्मदर्शिनः ।कुतो बभूव तज्ज्योतिरहो तेजस्विनं विना ।ज्योतिरभ्यन्तरे नित्यं शरीरं श्यामसुन्दरम्
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४१ अध्यायः
*
अन्यच्च ।श्यामसुन्दर ते दास्यः करवाम तवोदितम् ।देहि वासांसि धर्म्मज्ञ नो चेद्राज्ञे ब्रुवामहे
”इति श्रीमागवते दशमस्कन्धे २२ अध्यायः
*
अपि ।“ददर्श श्रीहरिं ब्रह्मा शङ्करश्च सुरैः सहवसन्तं तन्मध्यदेशे यथेन्द्रं तारकावृतम्
अमूल्यरत्ननिर्म्माणसर्व्वभूषणभूषितम् ।किरीटिनं कुण्डलिनं वनमालाविभूषितम्
शङ्खचक्रगदापद्मधारिणञ्च चतुर्भुजम् ।नवीननीरदश्यामसुन्दरं सुमनोहरम्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १४ अध्यायः