| YouTube Channel

श्याता-त्री (zyAtA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“श्यैङ् गतौ”@} 2 श्यायकः-यिका, श्यापकः-पिका, शिश्यासकः-सिका, शाश्यायकः-यिका
श्याता-त्री, श्यापयिता-त्री, शिश्यासिता-त्री, शाश्यायिता-त्री
इत्यादिकानि रूपाणि सर्वाणि वृद्ध्यर्थकभौवादिक ‘प्यैङ्’ धातुवत् 3 ज्ञेयानि।
4 प्रतिश्यायः- 5 अवश्यायः, शीतो वायुः, 6 शीनं घृतम्, 7 श्यानम्-नः, 8 प्रतिशीनः, 9 अभिशीनः, अभिश्यानः, अवशीनः, अवश्यानः, अभिसंशीनः, अवसंशीनः, 10 श्यामः-श्यामा, श्यामाकः, शिवः, 11 श्येनः, 12 श्येतः, शितिः, इमानि रूपाणि अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१७६०)
02
=>
(१-भ्वादिः-९६३। सक। अनि। आत्म।)
03
=>
(१०६५)
04
=>
[[१। ‘श्याद्व्यध--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्ययः। आकारान्त त्वादेव णप्रत्यये सिद्धे सूत्रे पृथक् धातोः ग्रहणं सोपसर्गार्थम्--इति माधवीयादिषु स्पष्टम्।]]
05
=>
[पृष्ठम्१३२०+ ३०]
06
=>
[[१। ‘द्रवमूर्तिस्पर्शयोः श्यः’ (६-१-२४) इति द्रवस्य मूतौं काठिन्ये वर्तमानस्य श्यायतेः निष्ठायां परतः सम्प्रसारणम्। ‘हलः’ (६-४-२) इति दीर्घः। ‘श्योऽ- स्पर्शे’ (८-२-४७) इति निष्ठानत्वम्। ‘शीतो वायुः’ इत्यत्र तु स्पर्शार्थकत्वात् निष्ठानत्वम्।]]
07
=>
[[२। ‘श्यानो वृश्चिकः’ इत्यत्र द्रवमूर्तिस्पर्शाभ्यामन्यत्र सम्प्रसारणाभावात् ‘संयोगादे- रातो धातोर्यण्वतः’ (८-२-४३) इति निष्ठानत्वमिति बोध्यम्।]]
08
=>
[[३। ‘प्रतेश्च’ (६-१-२५) इति प्रतेः परस्य श्यैङो निष्ठायां सम्प्रसारणम्। ‘श्यो ऽस्पर्शे’ (८-२-४७) इति निष्ठानत्वम्।]]
09
=>
[[४। ‘विभाषाऽभ्यवपूर्वस्य’ (६-१-२६) इति अभि, अव इत्युपसर्गात् परस्य श्यैङः सम्प्रसारणविकल्पः। सम्प्रसारणपक्षे ‘श्योऽस्पर्शे’ (८-२-४७) इति निष्ठानत्वम्। सम्प्रसारणाभावपक्षे ‘संयोगादेरातो धातोः--’ (८-२-४३) इति निष्ठानत्वमिति विशेषः। “-- ‘अभ्यवाभ्याम्’ इति वक्तव्ये सति(सूत्रे)पूर्वग्रहणं व्यवहितेऽपि यथा स्यात्-इति
\n\n तेन अभिसंशीनः, अवसंशीनः इत्याद्यपि सिद्ध्यति” इति माधवीयधातुवृत्तिः।]]
10
=>
[[५। ‘इषुयुधि--’ (द। उ। ८-२६) इति मक्प्रत्ययः।]]
11
=>
[[६। ‘श्यास्त्या--’ (द। उ। ५-१२) इत्यादिना इनन्प्रत्ययः। श्येनः = गृध्रः।]]
12
=>
[[७। ‘श्याभ्याम्--’ (द। उ। ६-१२) इतीतन्प्रत्यये श्येतः।]]