| YouTube Channel

श्मशानकाली (zmazAnakAlI)

 
Monier Williams Cologne
English
श्मशान—काली
f.
id., ib.
शब्दकल्पद्रुमः
Sanskrit
श्मशानकाली,
स्त्री,
(श्मशानस्य काली ।)कालिकाविशेषः अथ श्मशानकाली तदुक्तंकालीतन्त्रे ।“वाणीं मोयां ततो लक्ष्मीं कामबीजमतः परम्कालिके संपुटत्वेन चतुष्कं बीजमालिखेत्
एकादशार्णा देवेशि चतुवर्गप्रदायिनी
*
अस्या यन्त्रम् ।“पद्ममष्टदलं वृत्तं तद्बाह्ये धरणीतलम् ।चतुर्द्वारसमायुक्त मध्ये मूलं समालिखेत्
दलेष्वष्टसु विलेखेत् कवर्गाद्यष्टवर्गकम् ।धरण्यां विलिस्वेदाद्यं चतुष्कञ्च चतुष्कके ।पूर्व्वादि उत्तरान्तञ्च मध्ये देवीं प्रपूजयेत्
*
अस्याः पूजाक्रमः प्रातः कृत्यादिप्राणायामान्तंकर्म्म कृत्वा ऋष्यादिन्यासं कुर्य्यात् यथा ।शिरसि भृगुऋषये नमः हृदि श्मशानकाकि-कायै देवतायै नमः गुह्ये वाग्वीजाय नमः ।पादयोर्मायाशक्तये नमः सर्व्वाङ्गे कामबीज-कीलकाय नमः ततः कराङ्गन्यासौ ऐँ अङ्ग-ष्ठाभ्यां नमः ह्रीँ तर्ज्जनीभ्यां स्वाहा श्रीँमध्यमाभ्यां वषट क्लीँ आनामिकाभ्यां हुँ ।कालिके कनिष्ठाभ्यां वौषट् क्लीमादिवाग्-भवान्तं करतलपृष्ठाभ्यां फट् एवं हृदया-दिषु
*
ततो ध्यानम् ।“अञ्जनाद्रिनिभां देवीं श्मशानालयवासिनीम्रक्तनेत्रां मुक्तकेशीं शुष्कमांसातिभैरवाम्
पिङ्गाक्षीं वामहस्तेन मद्यपूर्णं समांसकम् ।सद्यःकृत्तशिरो दक्षहस्तेन दधतीं शिवाम् ।स्मितवक्त्रां सदा चाममांसचर्व्वणतत्पराम् ।नानालङ्कारभूषाङ्गीं नग्नां मत्तां सदासवैः
एवं ध्यात्वा जपेद्देवीं श्मशाने तु विशेषतः ।गृहे वापि गृहस्थोऽपि मत्स्यमांसैः सुभोजनैः ।नग्नो भूत्वा महापूजां कुर्य्याद्रात्रौ विशेषतः
*
पूजनन्तु ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनंकुर्य्यात् पुनर्ध्यात्वा यथोपचारैः संपूज्य पत्रेषुब्राह्यादिकं पूजयेत् तद्वहिरसिताङ्गादिकंपूजयेत् अस्याः पुरश्चरणं एकादशलक्षजपः ।तथा ।“वर्णलक्षं जपेन्मन्त्रं तद्दशांसेन होमयेत् ।”मन्त्रान्तरम् तत्रैव ।“कामबीजं समालिख्य कालिकायै समालिखेत्नमोऽन्तेन देवेशि सप्तार्णो मनुरुत्तमः ।सर्व्वाङ्गे कालिका देवी अन्यत् सर्व्वन्तु पूर्ववत्
”इति तन्त्रसारः
वाचस्पत्यम्
Sanskrit
श्मशानकाली स्त्री श्मशानस्था काली कालिकाभेदे