श्मशानं (zmazAnaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishश्मशानं [श्मानः शवाः शेरतेऽत्र शी-आनच् डिच्च Tv.] A cemetery, a burial or burning ground
राजद्वारे श्मशाने च यस्तिष्ठति स बांधवः Subhāṣ.
Comp.
अग्निः the fire of a burning ground.
आलयः a cemetery.
गोचर a. frequenting burning grounds
Ms. 10. 39.
निवासिन्,
वर्तिन्,
वासिन् m. a ghost.
भाज्,
वासिन् m. epithets of Śiva.
वाटः an enclosure of the cemetery
Māl. 5.
वेश्मन् m. {1} an epithet of Śiva. {2} a spirit, ghost.
वैराग्यं temporary despondency, momentary renunciation of the world as at the sight of a cemetery.
शूलः
लं an impaling stake in a cemetery
Ku. 5. 73.
साधनं performance of magical rites in a cemetery to acquire control over ghosts.
शब्दकल्पद्रुमः
Sanskritश्मशानं, (श्मनां शवानां शानं शयनं यत्र ।यद्वा, शवानां शयनमिति । “पृषोदरादीनियथोपदिष्टानि ।” ६ । ३ । १०९ । इति शव-शब्दस्य श्मादेशः शयनशब्दस्यापि शानशब्दआदेशः ।) शवदाहस्थानम् । तत्पपर्य्यायः ।पितृवनम् २ । इत्यमरः ॥
शतानकम् ३ रुद्राक्रीडः ४ दाहसरः ५ इति त्रिकाण्डशेषः ॥
अन्तशय्या ६ पितृकाननम् ९ । इति जटा-धरः ॥
* ॥
तस्य व्युत्पत्तिर्यथा, --“श्मशब्देन शवः प्रोक्तः शानं शयनमुच्यते ।निर्व्वचन्ति श्मशानार्थं मुने शब्दार्थकोविदाः ॥
महान्त्यपि च भूतानि प्रलये समुपस्थिते ।शेरतेऽत्र शवा भूत्वा श्मशानन्तु ततो भवेत् ॥
”महाश्मशानं यथा, --“वाराणसीति विख्याता रुद्रावास इति द्विजाः ।महाश्मशानमित्येवं प्रोक्तमानन्दकाननम् ॥
”इति श्रीस्कान्दे काशीखण्डे ३० अध्यायः ॥
* ॥
“उत्सवे व्यसने चैव दुर्भिक्षे शत्रु विग्रहे ।राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥
”इति चाणक्यम् । १७ ॥
* ॥
श्मशाने गत्वा विष्णुस्पर्शे दोषो यथा, --वराह उवाच ।“श्मशानं यो नरो गत्वा अस्नात्वैव तु मां-स्पृशेत् ।मम दोषापराधस्य शृणु तत्त्वेन यत् फलम् ॥
जम्बुको जायते भूमे वर्षाणां नव पञ्च च ।गृध्रस्तु सप्तवर्षाणि जायते खचरेश्वरः ॥
चरन्तौ मानुषं मांसं उभौ तौ गृध्रजम्बु कौ ।पिशाचो जायते तत्र वर्षाणि नव पञ्च च ॥
ततस्तु कुणपोच्छिष्टं त्रिं शद्धर्षाणि खादति ।ततो नारायणाच्छ्रु त्वा धरणी वाक्यमब्रवीत् ॥
एतन्मे परमं गुह्यं लोकनाथ जनार्द्दन ।परं कौतूहलं देव निखिलं वक्तुमर्हसि ॥
श्मशानं पुण्डरीकाक्ष ईश्वरेण प्रशंसितम् ।तत्र किं विगुणं देव पावित्रे शिवभाषिते ॥
स तत्र रमते नित्यं भगवांस्तु महाद्युतिः ।कपालं गृह्य देवोऽत्र दीप्तिमन्तं महौजसम् ॥
प्रशंसितञ्च रुद्रेण भवता किं विनिन्दितम् ।श्मशाणं पद्मपत्राक्ष रुद्रस्य च निशि प्रियम् ॥
वराह उवाच ।शृणु तत्त्वे न मे देवि इदमाख्यानमुत्तमम् ।अद्यापि ते न जानन्ति अनघे शंसितव्रताः ॥
कृत्वा सुदुष्करं कर्म्म सर्व्वभूतपतिर्हरः ।हत्वा च बालवृद्धानि त्रिपुरे रूपिणीः स्त्रियः ॥
तेन पापेन सम्बद्धो न शक्नोति विचेष्टितुम् ।तत ईशो मया चोक्तो वाक्यमेव सुखावहम् ॥
किमिदं तिष्ठसे रुद्र कश्मलेन समावृतः ।तव चैव प्रियार्थाय येनाहमिदमागतः ॥
ततो मम वचः श्रुत्वा लब्धसंज्ञो महेश्वरः ।उवाच मधुरं वाक्यं पापसन्तप्तलोचनः ॥
तव विष्णो प्रसादेन मया तत्त्रिपुरं हतम् ।निहता दानवास्तत्र गर्भिण्यश्च निपातिताः ॥
बालवृद्धा हतास्तत्र विष्फुरन्तो दिशो दश ।तस्य पापस्य दोषेण न शक्नोमि विचेष्टितुम् ॥
प्रनष्टयोगमायश्च नष्टेश्वर्य्यश्च माधव ।किं मया विप्रकर्त्तव्यमेनोऽवस्थेन माधव ॥
विष्णो तत्त्वेन मे ब्रूहि शोधनं पापनाशनम् ।येन वै कृतमात्रेण शीघ्नं मुच्येत किल्विषात ॥
एवं चिन्तात्मनस्तत्र मया रुद्रस्य भाषितम् ।कपालमालां संगृह्य समलं गच्छ शङ्कर ॥
ममैवं वचनं श्रुत्वा भगवान् परमेश्वरः ।उवाच मां पुनर्व्यक्तं मां बोधय जगत्पते ॥
कीदृशः समलो विष्णो यत्र गच्छामहे वयम् ॥
ततस्तस्य वचः श्रुत्वा शङ्करस्य यशस्विनि ।तत्पापशोधनार्थाय मयावासं प्रभाषितम् ॥
श्मशानं समलो रुद्र पूतिको व्रणगन्धिकः ।स्वयं तिष्ठति वै तत्र मनुजा विगतस्पृहाः ॥
तत्र गृह्य कपालानि रम तत्रैव शङ्कर ।तत्र वर्षसहस्राणि दिव्यान्येव दृढव्रतः ॥
ततो भक्षय मांसानि पापक्षयचिकीर्षुकः ।हिंस्यमानानि भोज्यानि ये च भोज्यास्तवप्रियाःएवं सर्व्वैर्गणैः सार्द्धं रम तत्र सुनिश्चितः ।पूर्णे वर्षसहस्रे तु स्थित्वा त्वं समले पुनः ॥
एष्यसि स्वाश्रमं पुण्यं गौतमस्य महामुनेः ।तत्र ज्ञास्यसि चात्मानं आश्रमे विधिसंस्थिते ॥
प्रसादात् गोतमस्याथ भविता गतकिल्विषः ।एवं तस्य वरं दत्त्वा तत्रै वान्तरधीयत ॥
रुद्रोऽपि भ्रमते तत्र श्मशाने पापसंवृते ।एवं न रोचते भूमे श्मशानं मे कदाचन ॥
यत्र रुद्रकृतं पापं स्थितं किल भयावहम् ।एतत्ते कथितं भद्रे श्मशानं मे जुगुप्सितम् ॥
विष्ट्वापि कृतसंस्कारो मम कर्म्मपरायणः ।प्रायश्चित्तं प्रवक्ष्यामि येन शुध्यति किल्विषात्कृत्वा चतुर्थभक्षन्तु दिनानि दश पञ्च च ।आकाशशयनं कुर्य्यात् एकभक्तः कुशास्तरे ॥
प्रभाते पञ्चगव्यन्तु पातव्यं कर्म्मशोधनम् ।प्रमुक्तः सर्व्वपापेभ्यो मम लोकाय गच्छति ॥
”इति वाराहे श्मशानप्रवेशापराधप्रायश्रित्त-नामाध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
