| YouTube Channel

श्च्योतयिता-त्री (zcyotayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“श्च्युतिर् क्षरणे”@} 2 क्षरणम् = स्रवणम्।
‘द्रमिडाश्चुतिरित्यप्याहुः--चोतति
कौशिकस्तु श्चुति- मयोपधं मन्यते श्चोतति’ इति क्षीरस्वामी।
श्च्योतकः-तिका, श्च्योतकः-तिका, शुश्च्योतिषकः-शुश्च्युतिषकः-षिका, शोश्च्युतकः-तिका
श्च्योतिता-त्री, श्च्योतयिता-त्री, शुश्च्योतिषिता-शुश्च्युतिषिता-त्री, शोश्च्युतिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककोचतिवत् 3 ज्ञेयानि।
“सकारादिरयम्, श्चुत्वेन निर्देशः।
सकारादित्वे प्रयोजनं मधु श्च्योततीति 4 मधुश्च्युत्-क्विप्।
अस्मात् ‘तत्करोति तदाचष्टे’ 5 इति णिचि ‘णाविष्ठवत् प्रातिपदिकस्य’ 6 इतीष्ठनीव कार्यविधानात् टिलोपे मधुश्च्यायतेः क्विप्।
तस्य लोपे प्रत्ययलक्षणेन ‘णेरनिटि’ 7 इति णेश्च लोपे, यकारान्ताद् अस्मात् कृदन्तात् प्रातिपदिकात् सौ, तस्य हल्ङ्यादिलोपे प्रत्ययलक्षणेन सुबन्तत्वेन पदत्वे ‘संयोगान्तस्य--’ 8 इति यलोपे, श्चुत्वस्य पूर्वत्रासिद्धत्वात् ‘स्कोः--’ 9 इति सलोपे ‘चोः कुः’ 10 इति चकारस्य पदान्तस्य कुत्वे, तस्य जश्त्वे मधुगिति रूपसिद्धिरिति वृत्तिन्यासपदमञ्जरीसम्मताकारमैत्रेयादिभिरुक्तम्” इति माधवः।
भावे, आदिकर्मणि वा कर्तरि क्तप्रत्यये 11 प्रश्च्युतितः, क्विपि-अम्भश्श्च्युत् 12 इति।
प्रासङ्गिक्यः
01
=>
(१७५८)
02
=>
(१-भ्वादिः-४१। सक। सेट्। पर।)
03
=>
(२००)
04
=>
[पृष्ठम्१३१९+ २५]
05
=>
(ग। सू। चुरादौ)
06
=>
(वा। ६-४-१५५)
07
=>
(६-४-५१)
08
=>
(८-२-२३)
09
=>
(८-२-२९)
10
=>
(८-२-३०)
11
=>
[[आ। ‘अतेन्मुरारिर्मम चिन्मयोऽन्तिके च्योतन् दिशः प्रश्च्युतितैः स्मितामृतैः।।’ धा। का। १-६।]]
12
=>
[[B। ‘अम्भश्शच्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः।’ शि। व। ३-३९।]]