| YouTube Channel

श्च्युतिँर् (zcyuti~r)

 
धातुप्रदीपः
Sanskrit
श्च्युतिर् क्षरणे
- श्च्योतति अश्च्युतत् अश्च्योतीत् दन्त्यादिरयमुपदेश इष्यते मधुश्च्योततीति मधुश्च्युत् तमाचक्षाणो (16) मधुगिति यथा स्यादिति श्चुतिरित्यप्येके पठन्ति चुतिर हासन (17) इति चोतति अचुतत् अचोतीत् ।। 40 ।।
क्षीरतरङ्गिणी
Sanskrit
श्च्युतिर् क्षरणे
(अर्थविवरणम्) क्षरणं स्रवणम्
शस्तालव्योऽत्र, दन्त्यादित्वे हि - षट्श्चयोतन्तीति श्चुत्वस्यासिद्धत्वाङ् डः सि धुट् (8329) इति धुडागमः स्यात् द्रमिडाश्चुतिरित्यप्याहुः - चोतति, अचुतत्, अचोतीत कौशिकस्तु श्चुतिमयोपधं मन्यते - श्चोतति 40
धातुवृत्तिः
Sanskrit
श्च्युतिर् (अर्थः) क्षरणे
(अर्थविवरणम्) क्षरणं सूतिः
( श्चयोयति चुश्चयोतेत्यादि ) च्युतिवत् अभ्यासे खयः शेषः सकारादिरयं, निर्देशः श्चुत्वेन सकारादित्वे प्रयोजनं मधु श्च्योततीति ( मधुश्च्युत् ) क्किप् अस्मात् "त्तत्करोति तदाचष्टे'' इति णिचि [ णाविष्टवत्प्रातिपदिकस्य ] इष्ठनीव कार्यविधानाट्टिलोपे मधुशच्यायतेः क्प् तस्य लोपे प्रत्ययलक्षणेन "णेरनिट्'' इति णेश्च लोपे यकारान्ताद् अस्मात् कृदन्तात् प्रातिपदिकात्सौ तस्य इल्ङ्यादिलोपे प्रत्ययलक्षणेन सुबन्तत्वेन पदत्वे "संयोगान्तस्य'' इति यलोपे श्चुत्वस्य पूर्वत्रासिद्धात्वात् "स्कोः'' इति सलोपे "चोः कुः'' इति चकारस्य पदान्तसय कुत्वे तस्य जश्त्वे मधुगिति रूपसिद्धिरिति वृत्तिन्यासपदमञ्जरीसंमताकारमैत्रेयादिभिरुक्तत् यद्येवमटतीत्यट्, अट् श्च्_योततोत्यत्रापिव श्चुत्वस्यासिद्धत्वात्सकारपत्वरात् "डः सि धुट्'' इति धुट् प्राप्नोति, नैतत् [ श्चुत्वं धुट्तृवे सिद्धं वकृतव्यम् ] इत्युक्तत्वात् अत एन वृत्ति कारादिविरोधात् तालव्योष्मादिवादिनौ स्वामिकाश्यापावुपेक्ष्यो यद्यपि तयोरट् शश्चोतीतित्यत्र धुडभावः सिद्धः, मधुगितृयत्र "सयोगान्तस्य'' इति यकारवकारयोर्लोपे ( सूत्रम्) व्रश्चभ्रस्जमृजयजराजभ्राजच्दशां षः (इति सूत्रम्) इति व्रश्चादीनां छकारशकारान्तानां ज्ञलि पदान्तेच षत्वविधानाच् शकारस्य षकार "झलांजश्'' इति जश्त्वे मधुडिति स्यात् अत्र श्चुति रित्ययकारमपि पठन्ति तथा मधुश्चुतं घृतमिव सुपूतं श्चोतन्ति ते इत्यादौ भट्टभास्करः अत्र मैत्रेयोपि श्चुतिरित्यप्येके पठन्ति, चुतिर् हसन इति 41