| YouTube Channel

शौद्रः (zaudraH)

 
Apte Hindi
Hindi
शौद्रः
पुं*
- -
शूद्रा स्त्री का पुत्र जिसका पिता (तीन वर्णो में से ) किसी भी वर्ण का हो
शब्दकल्पद्रुमः
Sanskrit
शौद्रः,
पुं,
(शूद्रायां भवः शूद्रा + अण् ।) द्वादश-विधपुत्त्रान्तर्गतपुत्त्रविशेषः तु ब्राह्मण-क्षत्त्रियवैश्यान्यतमात् शूद्रायां जातः यथा, --“औरसः क्षेत्रजो दत्तो मूढोत्पन्नश्च कृत्रिमः ।क्रीतापविद्धकानीनशौद्रपौनर्भवा अपि
स्वयं दत्तः सहोढोऽपि द्वावुरस्यौरसौ समौ
”इति जटाधरः
(यथा, मनुः १६० ।“कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।स्वय दत्तश्च शौद्रश्च षडदायादबान्धवाः
*
शूद्रस्येदमिति अण् ।) शूद्रसम्बन्धिनी, स्त्रि,
(यथा, महाभारते १२ ६२ ।“क्षात्त्राणि वैश्यानि सेवमानःशौद्राणि कर्म्माणि ब्राह्मणः सन् ।अस्मिंल्लोके निन्दितो मन्दचेताःपरे लोके निरयं प्रयाति
”)