| YouTube Channel

शौचं (zaucaM)

 
Apte 1890
English
शौचं [शुचेर्भावः अण्] 1 Purity, clearness
काके शौचं द्यूतकारे सत्यं Pt. 1. 147.
2 Purification from personal defilement caused by voiding excrement, but particularly by the death of a relative.
3 Cleansing, purifying.
4 Voiding of excrement.
5 Uprightness, honesty.
Comp.
आचारः,
कर्मन् n.
कल्पः a purificatory rite.
कूपः a privy.
शब्दकल्पद्रुमः
Sanskrit
शौचं,
क्ली,
(शुचेर्भावः शुचि + “इगन्ताच्च लघुपूर्व्वात् ।” १३१ इत्यण् ।) शुचिता ।शुचित्वम् शुद्धिः तस्य लक्षणादि यथा, --“अभक्ष्यपरिहारस्तु संसर्गश्चाप्यनिन्दितैः ।स्वधर्म्मे व्यवस्थानं शौचमेतत् प्रकीर्त्तितम्
”इत्येकादशीतत्त्वे बृहस्पतिवचनम्
अन्यच्च ।“सर्व्वेषामेव शौचानामर्थशौचं विशिष्यते ।योऽर्थार्थैरशुचिः शौचान्न मृदा वारिणाशुचिः
सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः ।सर्व्व भूतदयाशौचं जलशौचन्तु पञ्चमम्
यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो दुर्लभः
”इति गारुडे ११० अध्यायः
अपिच ।“यावता शुद्धिं मन्येत तावच्छौचं समाचरेत् ।प्रमाणं शौचसंख्याया शिष्टैरुपदिश्यते
शौचन्तु द्विविधं प्रोक्त बाह्यमाभ्यन्तरं तथा ।मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्त-रम्
”इति गारुडे २१५ अध्यायः
पादादिशौचगुणा यथा, --“मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम् ।पादयोर्मलसर्गाणां शौचाधानमभीक्ष्णशः
”इति राजवल्लभः
अपि ।“उद्धृताम्भोमृत्तिकाभ्यामित्थं नारद यत्नतः ।कृत्वोत्सर्गं ततः कुर्य्यात् शौचं मूत्रपुरीषयोः
”इति पाद्मोत्तरखण्डे १०९ अध्यायः
प्रसङ्गादशौचञ्चात्र लिख्यते ।व्यास उवाच ।“दशाहं प्राहुरशौचं सपिण्डेषु विपश्चितः ।मृतेषु चाथ जातेषु ब्राह्मणानां द्विजोत्तमाः
नित्यानि चैव कर्म्माणि काम्यानि विशेषतः ।न कुर्य्याद्विहितं किञ्चित् स्वाध्यायं मनसापि चशुचीननिधनांस्त्वन्यान् शालाग्नौ हावयेद्द्विजान्शुष्कांन्नेन फलैर्व्वापि वैतानाजुहुयात्ततः
*
स्पृशेयुरिमानन्ये तेभ्यः समाहरेत् ।चतुर्थे पञ्चमे वाह्नि संस्पर्शः कथितो बुधैः
सूतके तु सपिण्डानां संस्पर्शो प्रदुष्यति ।सूतकं सूतिकाञ्चैव वर्ज्जयित्वा नृणां पुनः
दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे ।एकद्वित्रिगुणैर्युक्तं चतुस्त्र्येकदिनैः शुचिः
दशाहात्तु परं सम्यगधीयीत जुहोति ।चतुर्थे तस्य संस्पर्शं मनुः प्राह प्रजापतिः
*
क्रियाहीनस्य मूर्खस्य महारोगिण एव ।यथेष्टाचरणस्याहुर्म्मरणान्तमशौचकम्
*
त्रिरात्रं दशरात्रं वा ब्राह्मणानान्तु शावकम् ।प्राक् संस्कारात् त्रिरात्रं स्यादस्मादूर्द्धं दशा-हकम्
ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते ।त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः
आदन्तजातमरणे पित्रोरेकाहमिष्यते ।जातदन्ते त्रिरात्रं स्याद्यदि स्यातान्तुनिर्गुणौ
आदन्तजननात् सद्य आचूडादेकरात्रकम् ।त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम्
जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः ।सद्यःशौचं सपिण्डानां कर्त्तव्यं सोदरस्य
ऊर्द्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ।अथोर्द्धं दन्तजननात् सपिण्डानामशौचकम्
एकाहं निर्गुणानान्तु चूडादूर्द्धं त्रिरात्रकम् ।अदन्तजातमरणं सम्भवेद्यदि सत्तमाः
एकरात्रं सपिण्डानां यदि तेऽत्यन्तनिर्गुणाः ।व्रतादेशात् सपिण्डानामर्व्वाक् स्नानं विधीयते ।सर्व्वेषामेव गुणिनामूर्द्ध्वन्तु विषमं पुनः
*
अर्व्वाक् षण्मासतः स्त्रीणां यदि स्याद्गर्भसंस्रवः ।तदा माससमैस्तासामशौचं दिवसैः स्मृतम्
अतऊर्द्ध्वन्तु पतने स्त्रीणां स्याद्दशरात्रकम् ।सद्यःशौचं सपिण्डानां गर्भस्रावाच्च वा ततः
गर्भच्युतावहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे ।यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः
*
यदि स्यात् सूतके सूतिर्म्मरणे वा मृतिर्भवेत् ।शेषेणैव भवेच्छुद्धिरहःशेषे त्रिरात्रकम् ।मरणोत्पत्तियोगे तु मरणाच्छुद्धिरिष्यते
अघवृद्धिमदाशौचमूर्द्धञ्चेत्तेन शुध्यति ।अथ चेत् पञ्चमीं रात्रिमतीत्य परतो भवेत् ।अघवृद्धिमदाशौचं तदा पूर्व्वेण शुध्यति
*
देशान्तरगतं श्रुत्वा सूतकं शावमेव तु ।तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते
*
अतीते मृतके प्रोक्तं सपिण्डानां त्रिरात्रकम् ।तथैव मरणे स्नानमूर्द्ध्वं संवत्सराद्यदि
वेदार्थविदधीयानो योऽग्निमान् वृत्तिकर्षितः ।सद्यःशौचं भवेत्तस्य सर्व्वावस्थासु सर्व्वदा
स्त्रीणामसंस्कृतानान्तु प्रदानात् परतः सदा ।सपिण्डानां त्रिरात्रं स्यात् संस्काराद्भर्त्तुरेव
अतस्तद्दत्तकन्यानामशीचं मरणे स्मृतम् ।ऊनद्विवर्षान्मरणे सद्यःशौचमुदाहृतम्
आदन्तात् सोदरे सद्य आचौडादेकरात्रकम् ।आप्रदानात् त्रिरात्रं स्याद्दशरात्रमतः परम्
मातामहानां मरणे त्रिरात्रं स्यादशौचक म् ।एकोदकानां मरणे सूतके चैतदेव हि ।पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव
एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणाम् ।प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितिः
गृहे मृतासु दत्तासु कन्यकासु त्र्यहं पितुः ।परपूर्व्वासु भार्य्यासु पुत्त्रेषु कृतकेषु
त्रिरात्रं स्यात्तथाचार्य्ये स्वभार्य्यास्वन्यगासु
आचार्य्यपुत्त्रे पत्न्याश्च अहोरात्रमुदाहृतम्
एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेऽपि ।त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु
एकाहं वा श्वशुर्य्ये स्यादेकरात्रञ्च शिष्यके ।त्रिरात्रं श्वश्रूमरणे श्वशुरे चैतदेव हि
सद्यःशौचः समुद्दिष्टं सगोत्रे संस्थिते सति
*
शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति
*
क्षत्त्रविट्शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः ।तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते
राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु ।स्वमेव शौचं कुर्य्यातां विशुद्ध्यर्थं संशयः
सर्व्वेतूत्तमवर्णानां शौचं कुर्य्युरतन्द्रिताः ।उद्वर्णविधिदृष्टेन स्वन्तु शौचं स्वयोनिषु
षड्रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण तु ।वैश्यक्षत्त्रियविप्राणां शूद्रे ष्वाशौचमेव तु
अर्द्धमासोऽथ षड्रात्रं त्रिरात्रं द्विजपुङ्गवाः ।शूद्रक्षत्त्रियविप्राणां वैश्येष्वाशौचमिष्यते
षड् रात्रं द्वादशाहञ्च विप्राणां वैश्यशूद्रयोः ।अशौचं क्षत्त्रिये प्रोक्तं क्रमेण द्विजपुङ्गव
शूद्रविट्क्षत्त्रियाणान्तु ब्राह्मणे संस्थिते सति ।दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः
*
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।अशित्वा सहोषित्वा दशरात्रेण शुध्यति
यद्यन्नमत्ति तेषान्तु त्रिरात्रेण ततः शुचिः ।अनदन्नन्नमह्नै तस्मिन् गृहे वसन्
सोदरेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु ।दशाहेन शवस्पर्शे सपिण्डश्चैव शुध्यति
षड्रात्रेणाथवा सर्व्वे त्रिरात्रेणाथवा पुनः ।अनाथञ्चैव निर्हृत्य ब्राह्मणं धनवर्ज्जितम्
स्नात्वा संप्राश्य तु घृतं शुध्यन्ति व्राह्मणादयः ।अवरश्चेद्वरं वर्णमवरं वा वरो यदि
अशौचे संस्पृशेत् स्नेहात्तदाशौचेन शुध्यति
*
प्रेतीभूतं द्विजं विप्रो योऽनुगच्छति कामतः ।स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति
एकाहात् क्षत्त्रिये शुद्धिर्वैश्यानां स्यात् द्व्यहेनतु ।शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः
*
अनस्थिसञ्चिते शूद्रे रौति चेद्ब्राह्मणः स्वकः ।त्रिरात्रं स्यादथाशौचमेकाहं त्वन्यथा स्मृतम्
अस्थिसञ्चयनादर्व्वागेकाहं वेश्यशूद्रयोः ।अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु
अनस्थिसञ्चिते विप्रे ब्राह्मणो रौति चेत्तदा ।स्नानेनैतद्भवेच्छुद्धिः सचेलेन संशयः
*
यस्तैः सहाशनं कुर्य्याच्छयनादीनि चैव हि ।बान्धवो वा परो वापि दशाहेन शुध्यति
*
यस्तेषामन्नमश्नाति सकृदेवापि कामतः ।तदाशौचे निवृत्तेऽसौ स्नानं कृत्वा विशुध्यति
यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः ।तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत्
दाहाद्यशौचं कर्त्तव्यं द्बिजानामग्निहोत्रिणाम् ।सपिण्डानान्तु मरणे मरणादितरेषु
*
सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।समानोदकभावम्तु जन्मनाम्नोरवेदने
पिता पितामहाश्चै तथैव प्रपितामहः ।लेपभाजश्चतुर्थाद्याः सापिण्ड्यं साप्तपौरुषम्
अनूढानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम्जायानां भर्त्तृसापिण्ड्यं प्राह देवः पितामहः
ये चैकजाता बहवो भिन्नयोनय एव ।भिन्नवर्णास्तु सापिण्ड्यं भवेत्तेषां त्रिपौरुषम्
*कारवः शिल्पिनो वैद्या दासी दासस्तथैव ।दातारो नियमी चैव ब्रह्मविद्ब्रह्मचारिणौ
सत्रिणो व्रतिनस्तावत् सद्यःशौचा उदाहृताः ।राजा चैवाभिषिक्तश्च विप्राः सत्रिण एव
यज्ञे विवाहकाले देवयागे तथैव ।सद्यःशौचं समाख्यातं दुर्भिक्षे वाप्यवद्रवे
डिम्बाहवहतानाञ्च विद्युता पार्थिवैर्द्विजैः ।सद्यःशौचं समाख्यातमज्ञातिमरणे तथा
अग्नौ मरुप्रपतने वीराध्वन्यप्यनाशके ।ब्राह्मणार्थे संन्यस्ते सद्यःशौचं विधीयते
*
नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।नाशौचं कीर्त्त्यते सद्भिः पतिते तथा मृते
पतितानां दाहः स्यान्नान्त्येष्टिर्नास्तिसञ्चयः ।न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकंक्वचित्
व्यापादयेदथात्मानं स्वयं योऽग्निं विषादिभिः ।विहितंतस्य नाशौचं नाग्निर्नाप्युदकादिकम्
*अथ कश्चित् प्रमादेन मृइयतेऽग्निविषादिभिः ।तस्याशौचं विधातव्यं कार्य्यञ्चैवोदकादिकम् * ।जाते कुमारे तदहः कामं कुर्य्यात् प्रतिग्रहम् ।हिरण्यधान्यगोवासस्तिलान्नगुडसर्षपान्
फलानि पुष्पं शाकञ्च लवणं काष्ठमेव ।तोयं दधि घृतं क्षीरमौषधं तैलमेव ।अशौचिनां गृहाद्ग्राह्यं शुष्कान्नमेवनित्यशः
”इति कौर्म्मे उपविभागे २२ अध्यायः
अन्यत् पाद्मोत्तरखण्डे १०९ अध्याये द्रष्टव्यम्