| YouTube Channel

शौकरवं (zaukaravaM)

 
शब्दकल्पद्रुमः
Sanskrit
शौकरवं,
क्ली,
(शूकरस्येदमिति शूकर +अण् ।) तीर्थविशेषः यथा, --वराह उवाच ।“शृणु मे परमं गुह्यं यत्त्वया परिपृच्छितम् ।मम क्षेत्रं परञ्चैव शुद्धं भागवतप्रियम्
परं कोकामुखं स्थानं तथा कुब्जाम्रकं परम् ।परं शौकरवं स्थानं सर्वसंसादमोक्षणम्
यत्र संस्था मे देदि ह्युद्धृतासि रसातलात् ।यत्र भागीरथी गङ्गा मम शौकरवे स्थिता
धरण्युवाच ।केषु लोकेषु यान्तीश शौकरे ये मृताः प्रभो ! ।किं वा पुण्यं भवेत्तत्र स्नातस्य पिबतस्तथा
कति तीर्था विशालाक्ष क्षेत्रे शौकरवे तव ।धर्म्मसंस्थापनार्थाय तद्विष्णो ! वक्तुमर्हसि
वराह उवाच ।शृणु तत्त्वे मे देवि ! यत्त्वं मां परिपृच्छसि ।कां गतिं ते प्रपद्यन्ते नरा शौकरवे मृताः
तेषां स्नानस्य वै पुण्यं गतस्यैव मृतस्य वा ।तत्र यानि तीर्थानि मम संस्थानसंस्थिताः
शृणु पुण्यं महाभागे मम क्षेत्रेषु सुन्दरि ।प्राप्नु वन्ति महाभागे गत्वा शौकरवं प्रति
दश पूर्व्वापरांश्चापि अपरान् सप्त पञ्च ।स्वर्गं गच्छन्ति ते तत्र ये मृतास्तेषु जन्तवः
गमनादेव सुश्रोणि ! मुखस्य मम दर्शनात् ।सप्तजन्मान्तरे भद्रे जायते विपुले कुले
धनधान्यसमृद्धेषु रूपवान् गुणवान् शुचिः ।मद्भक्तश्चैव जायेते मम कर्म्मपरायणः
एवं वै मानुषो भूत्वा अपराधविवर्ज्जितः ।गमनं तस्य क्षेत्रस्य मरणं तत्र कारणम्
ये मृतास्तत्र सुश्रोणि क्षेत्रे शौकरवे मम ।शङ्खचक्रगदापद्मचतुर्हस्ताश्चतुर्भुजाः ।त्यक्त्वा कलेवरं तूर्णं मम लोकाय गच्छति
”इति वाराहे शौकरतीर्थमाहात्म्ये आदित्यवर-प्रदानगृध्रजम्बुकोपाख्याननामाध्यायः