| YouTube Channel

शोधितो (zodhito)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ञि ष्वप शये”@} 2 3 ‘ञि ष्वप शये’ ‘हलन्त्यम्’ 4 इतीत्त्वप्रसङ्गात् ‘ञि ष्वप् शये’ इत्यपपाठः--इति धातुकाव्यव्याख्यानम् 5।
युज्यते चैतत्।
यतः सर्वेष्वपि धातुपाठेषु “ञि ष्वप् शये।
उदात्तेत्, अनुदात्तः।” इति पठ्यते।
‘उदात्तेत्’ इत्यस्य उदात्तोपदेशोऽकार इत्संज्ञकोऽत्र धातौ--इति खल्वर्थः।
अतश्च प्रामादिकः सार्वत्रिकः ‘ष्वप्’ इति हलन्तपाठ इत्येव न्याय्यम्।
अत एवापपाठः शोधितो धातुकाव्यव्याख्यातृमहाशयेन।]] स्वापकः-पिका, स्वापकः-पिका, 6 सुषुप्सकः-प्सिका, 7 सोषुपकः-पिका
स्वप्ता-स्वप्त्री, स्वापयिता-त्री, सुषुप्सिता-त्री, सोषुपिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकवपतिवत् 8 बोध्यानि।
9 सुप्तः, सुप्त्वा-सुप्तिः, 10 स्वप्नः, 11 स्वप्नक्, 12 सुषुप्तः-विषुप्तः-निषुप्तः-दुःषुप्तः, सुषुप्सुः- 13 सुष्वापयिषुः, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१८९२)
02
=>
(२-अदादिः-१०६८। अक। अनि। पर।)
03
=>
[[[अ]
04
=>
(१-३-३)
05
=>
(२-५१)
06
=>
[[१। ‘रुदविदमुषग्रहिस्वपिप्रच्छः संश्च’ (१-२-८) इति सनः कित्त्वम्। तेन ‘वचि- स्वपियजादीनां किति’ (६-१-१५) इति सम्प्रसारणम्। पूर्वरूपादिकम्। ततो द्विर्वचनम्। उत्तरखण्डे ‘आदेशप्रत्यययोः’ (८-३-५९) इति षत्वम्।]]
07
=>
[[२। ‘स्वपिस्यमिव्येञां यङि’ (६-१-१९) इति यङन्ते सम्प्रसारणम्। पूर्ववत् अभ्यासकार्याणि।]]
08
=>
(१५५६)
09
=>
[[३। ‘ञीतः क्तः’ (३-२-१८७) इति कर्तरि भावे वर्तमाने क्तप्रत्ययः। निष्ठायाः कित्त्वात् सम्प्रसारणम्। एवं क्त्वाक्तिन्यक्प्रभृतिष्वपि बोध्यम्।]]
10
=>
[[४। ‘स्वपो नन्’ (३-३-९१) इति भावे नन्प्रत्ययः।]]
11
=>
[[५। ‘स्वपितृषोर्नजिङ्’ (३-२-१७२) इति ताच्छीलिको नजिङ्प्रत्ययः। नजिङि ‘नज्’ इत्येवाबशिष्यते। जकारस्य पदान्त्त्वप्रयुक्तः ककारः।]]
12
=>
[[६। ‘सुविनिर्दुर्भ्यः सुपिसूतिसमाः’ (८-३-८८) इति षत्वम्। सूत्रे ‘सुपि’ इति कृतसम्प्रसारणनिर्देशः। तेन सम्प्रसारणयोग्यस्थलेषु यत्र ‘सुप्’ इति श्रवणं तत्र सर्वत्रापि षत्वं भवतीति बोध्यम्।]]
13
=>
[[७। ण्यन्तात् सनि उप्रत्यये रूपमेवम्। अभ्यासस्य ‘द्युतिस्वाप्योः--’ (७-४-६७) इति सम्प्रसारणम्। ‘स्तौतिण्योरेव षणि--’ (८-३-६१) इत्युत्तरखण्डे षत्वम्।]]