| YouTube Channel

शोधनः (zodhanaH)

 
शब्दकल्पद्रुमः
Sanskrit
शोधनः,
पुं,
(शोधयतीति शुध + णिच् + ल्युः ।)निम्बूकः इति राजनिर्घण्टः
शोधनः, त्रि, (शोधयतीति शुध + णिच् + ल्युः ।)शुद्धिकारकः यथा, --“महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः ।जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधनः
”इति प्रायश्चित्ततत्त्वधृतविश्वामित्रवचनम्
यथा ।“तैलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः ।त्रिवृद्घनयुतैः पिष्टैः प्रलेपो ब्रणशोधनः
इति भावप्रकाशः