| YouTube Channel

शोधनं (zodhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
शोधनं,
क्ली,
(शोधयतीति शुध + णिच् + ल्युः )कङ्कुष्ठम् इति राजनिर्घण्टः
(शुध + भावेल्युट् ।) शौचम् इति शुधधात्वर्थदर्शनात्
(प्रायश्चित्तम् यथा, मनुः ११ १६१ ।“अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता ।अज्ञानभुक्तन्तूत्तार्य्यं शोध्यं वाप्याशु शोधनैः
”)विष्ठा इति शब्दचन्द्रिका
कासीसम् इतिराजनिर्घण्टः
विहिताविहितमासादिविचा-रणम् यथा, --“सूर्य्यग्रहणकालेन समानो नास्ति कश्चन ।तत्र यद्यत् कृतं सर्व्वमनन्तफलदं भवेत् ।न मासतिथिवारादिशोधनं सूर्य्यपर्व्वणि
”इति मलमासतत्त्वम्
*
धातुनिर्द्दोषीकरणम् यथा, --“पत्तलीकृतपत्राणि हेम्नो वह्रौ प्रतापयेत् ।निषिञ्चेत्तप्ततप्तानि तैलचक्रे काञ्जिके
गोमूत्रे कुलत्थानां कषाये तु त्रिधा त्रिधा ।एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत्
*
व्रणादिपरिष्करणम् यथा, --“व्रणस्य त्वविशुद्धस्य क्वाथः शुद्धिकरः परः ।पटोलनिम्बपत्रस्य सर्व्वत्रैव प्रयुज्यते
वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे ।आरग्वधादेः कफजे कषायः शोधनं हितम्
”अपि ।“अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा ।अथवा क्वाथनेनैव सिद्धमुष्णोदकं वदेत् ।श्लेस्मामवातमेदोघ्नं वस्तिशोधनदीपनम्
”इति भावप्रकाशः
*
लिखितपत्रादेः प्रमाणीकरणम् यथा लेख्य-शोधनमाह कात्यायनः ।“स्वहस्तलेख्यसन्देहे जीवतो वा मृतस्य ।तत् स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः
*विरुद्धलिखितस्य शुद्धीकरणम् थथा तच्छो-धनमाह बृहस्पतिः ।“न्यूनाधिकं पूर्व्वपक्षं तावद्वादी विशोधयेत् ।न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ
”कात्यायनः ।“शोधयेत् पूर्व्वपक्षन्तु यावन्नोत्तरदर्शनम् ।उत्तरेणावरुद्धस्य निवृत्तं शोधनं भवेत्
”इति व्यवहारतत्त्वम्
*
अङ्खस्य हरणम् यथा, --“भाज्याद्धरः शुध्यति यद्गुणः स्या-दन्त्यात् फलं तत् खलु भागहारे ।समेन केनाप्यपवर्त्त्य हार-भाज्यौ भजेद्वा सति सम्भवे तु
इति लीलावती
अन्यत् शुद्धिशब्दे द्रष्टव्यम्