| YouTube Channel

शोणयिता-त्री (zoNayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शोणृ वर्णगत्योः”@} 2 ‘-- वर्णे’ इति चन्द्रः।
‘गते वर्णे’ इति वोपदेवः।
‘--वर्णगत्योः रागे गतौ च’ इति काशकृत्स्नः।
3 शोणकः-णिका, शोणकः-णिका, शुशोणिषकः-षिका, शोशोणकः-णिका
शोणिता-त्री, शोणयिता-त्री, शुशोणिषिता-त्री, शोशोणिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकखोरतिवत् 4 ज्ञेयानि।
शोणो = लोहितः, शोणितम् = रुधिरम्, शोणः-नदः, शोणा- 5 शोणी = नदी, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
6 शोणः-पचाद्यचि एवं रूपम्।
प्रासङ्गिक्यः
01
=>
(१७५६)
02
=>
(१-भ्वादिः-४५५। सक। सेट्। पर।)
03
=>
[पृष्ठम्१३१८+ २५]
04
=>
(३६३)
05
=>
[[१। ‘शोणात्प्राचाम्’ (४-१-४३) इति स्त्रियां प्राचामाचार्याणां मते विकल्पेन ङीष् भवति। शोणी-शोणा = बडबा इति काशिकायाम्।]]
06
=>
[[आ। ‘… शोणान् पृथुश्रोणिजनो दुदोह च।’ धा। का। १-५९।]]