| YouTube Channel

शैवालं (zaivAlaM)

 
शब्दकल्पद्रुमः
Sanskrit
शैवालं,
क्ली,
(शी + बाहुलकात् वालञ् ।)जलजद्रव्यविशेषः शेयाला इति भाषा ।(यथा, महाभारते ६० १७ ।“प्रावर्त्तयन्नदीं घोरां शोनितोदां तरङ्गिणीम् ।केशशैवालसंवाधां युगान्ते कालनिर्म्मिताम्
”)तत्पर्य्यायः जलनीली शैवलः इत्यमरः
शेपालम् शेवलम् शीवलम् शेपालः ७जलनीलिका इति वाचस्पतिः
जल-नीलः इति मुकुटादयः इति भरतः
सैवालम् १० शेबालम् ११ वारिचामरः १२शैवलम् १३ सलिलकुन्तलम् १४ हटपर्णी १५अम्बुतालम् १६ इति शब्दरत्नावली
अरकः १७ जलकेशः १८ कावारम् १९ इतिहारावली
जलजम् २० अस्य गुणाः ।शीतलत्वम् स्निग्धत्वम् सन्तापव्रणनाशि-त्वञ्च इति राजनिर्घण्टः