| YouTube Channel

शैवं (zaivaM)

 
शब्दकल्पद्रुमः
Sanskrit
शैवं,
क्ली,
शैवालः इति शब्दचन्द्रिका
(शिवमधिकृत्य कृतो ग्रन्थः शिव + अण ।)शिवपुराणम् यथा --“अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते ।ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा
”इति मलमासतत्त्वे विष्णुपुराणम्
(शिवस्येदमिति शिव + अण् ।) शिवसम्ब-न्धिनि, त्रि (यथा कथासरित्सागरे ४० ८९ ।“प्रापदायतनं शैवं नद्यास्तस्यास्तटस्थितम्
”)शैवः,
पुं,
(शिव + अण् ।) वसुकः धुस्तूरः ।इति राजनिर्घण्टः
आचारविशेषः यथा, --“अष्टाङ्गयोगसंयुक्तो यजेद्देवीं विधानतः ।यावद्ध्यानं समाधिश्च तावत् शैवः प्रचक्षते
”इत्याचारभेदतन्त्रम्
*
शिवोपासकः तत्पर्य्यायः और्द्ध्वश्रोतसिकः २इति त्रिकाण्डशेषः एतद्भेदा यथा --“ततश्चकार भगवान् चातुर्व्वर्ण्यं हरार्च्चने ।शास्त्राणि चैषां मुख्यानि नानोक्तिविदितानिचआद्यं शैवं परिख्यातमन्यत् पाशुपतं मुने ! ।तृतीयं कालवदनं चतुर्थञ्च कपालिनम्
शैव आसीत् स्वयं शक्तिर्व्व शिष्टस्य प्रियः सुतः ।तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः
महापाशुपतस्त्वासीद्भारद्वाजस्तपोधनः ।तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः
कालास्यो भगवानासीदापस्तम्बस्तपोधनः ।तस्य शिष्यो वको वश्यो नाम्ना क्राथेश्वरो मुने
महाव्रती धनदस्तस्य शिष्यश्च वीर्य्यवान् ।कुल्लोदर इति ख्यातो जात्या शूद्रो महातपाः
एवं भगवान् ब्रह्मा पूजनाय शिवस्य ।कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः
”इति वामने अध्यायः
*
तस्य स्वरूपं यथा आयान्तं शैवमालोक्याह ।“श्रीमानसावेति जटालमौलि-र्व्याघ्रत्वगालम्बितमध्यभागः ।विभूतिसंभूषितभास्वदङ्गोरुद्राक्षमालाकलितोर्द्ध्वदेहः
”इति विद्वन्मोदतरङ्गिण्यां तरङ्गः