| YouTube Channel

शैलेयं (zaileyaM)

 
शब्दकल्पद्रुमः
Sanskrit
शैलेयं,
क्ली,
(शिलायां भवम् शिला + ढक् ।)शैलजाख्यगन्धद्रव्यम् शेलेयक इति रन्दूच इतिछरिला इति ख्यातम् तत्पर्य्यायो यथा, --“शेलेयं शैलजं वृद्धं शिलापुष्पं शिलोद्भवम् ।स्थविरं पलितं जीर्णं तथा कालानुसार्य्यकम्
शिलोत्थञ्च शिलादद्रुः शैलाजं गिरिपुष्पकम् ।शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम
”अस्य गुणाः ।“शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् ।दाहतृष्णावमिश्वासव्रणदोषविनाशनम्
”इति राजनिर्घण्टः
आंप ।“शैलेयन्तु शिलापुष्पं वृद्धं कालानुसार्य्यकम् ।शैलेयं शीतलं हृद्यं कफपित्तहरं लघु ।कण्डूकुष्ठाश्मरीदाहविषहृद्गुदरक्तहृत्
”इति भावप्रकाशः
*
तालपर्णी सैन्धवम् इति मेदिनी
शैलेयं, त्रि, (शैले भवम् शैल + ढक् ।) शैल-सम्भवम् इति हेमचन्द्रः
शिलातुल्यम् ।इति शब्दरत्नावली
(शिलेव शिला +“शिलाया ढः ।” १०२ इति योग-विभागेन ढञ्
)