| YouTube Channel

शॄञ् (zRRJ)

 
क्षीरतरङ्गिणी
Sanskrit
शॄञ् हिंसायाम्
- शृणाति, शृणीत शीर्यते शीर्णः शीर्णिः शॄदॄप्रां ह्रस्वो वा (7412)-विशशरुः विशश्रुः लषपतपद (32154) इत्युकञ्-विशारुकः शॄवन्द्योरारुः (32173)-शरारुर्हिस्रः उणादौ शरारिराटिः किंजरयोः श्रिणः (उ014)-किंशारुर्धान्यशूकम् शॄस्वृस्निहि (उ0 110) इत्युः-शरुर्हिंस्रः आङ्परयोः खनिशॄभ्यां डिच्च (उ0 133)-परशुः शृणातेर्ह्रस्वश्च (उ0 1126) गश्च नुट् च-शृङ्गम् शृङ्गारः, (द्र0 उ0 3136)शिशिरम् (द्र0 उ0 153) शरोऽचि (द्र0 31134) शरणम् गण् शकुनौ (उ0 1127)-शार्ङ्गः शॄदॄभसोऽदिः (उ0 1130)-शरद् कॄगॄशॄदॄभ्यो वः-(उ0 1115)-शर्वः कॄगॄशॄवृञ्चतिभ्यः ष्वरच् (दश0 उ0 847)-शर्वरी सृशॄभ्याम् (तु0 दश0 उ0 76)-शूर्पः शिरः करन् (दश0 उ0 870)-शर्करा शॄपॄभ्यां किद् (द0 उ0 910)-इतीषन्-शिरीषम् मनिन् (दश0 उ0 673)-शर्म शॄपॄवृञां द्वे रुक् चाभ्यासस्य (उ0 419)-शर्शरीका कॄशॄपॄकटि (उ0 430) इतीरन्-शरीरम् असुन् कित् (द्र0 उ0 4194) शिरः कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च-(उ0 4143) इतीन् कित्-शिरिः शिरः शकुनौ (तु0 दश0 156 कपाठः) इण् शारिः, शारिका ॠदोरप् (3357)-शरः शॄ वायुवर्णनिवृतेषु (3321 वा0)घञ्-शारो वर्णो वायुश्च नीशारो हिमानिलापहं वस्त्रम्-गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः 16