| YouTube Channel

शृङ्गीकनकं (zRGgIkanakaM)

 
शब्दकल्पद्रुमः
Sanskrit
शृङ्गीकनकं, क्ली (शृङ्गी मण्डनस्वर्णम् तदेवकनकम् ।) अलङ्कारसुवर्णम् इत्यमरः
अलङ्कारस्य कुण्डलादेर्यत् सुवर्णं तत् शृङ्गी-कनकमुच्यते शृङ्गी अलङ्खारः तदर्थं कनकं-शृङ्गीकनकं अलङ्कारसुवर्णस्य शृङ्गीति नाम ।स्त्री शृङ्गी मण्डनस्वर्णे इति रत्नकोषः
शृङ्गीह्रस्वान्ता शृङ्गति कर्णादीन् शृङ्गिः श्रगिश्लगि व्रजे नाम्नीति इः निपातनात् जिः पाच्छो-णादीति ईपि शृङ्गी इति भरतः