| YouTube Channel

शृङ्गाटकं (zRGgATakaM)

 
शब्दकल्पद्रुमः
Sanskrit
शृङ्गाटकं,
क्ली,
(शृङ्गाटमेव स्वार्थे कन् ।)चतुष्पथम् इत्यमरः
(यथा, रामायणे ।२ ७१ ४५ ।“तां शून्यशृङ्गाटकवेश्मरथ्यांरजोऽरुणद्वारकपाटयन्त्राम्
”)जलज-लताफलविशेषः पानिफल इति शिङ्गाडाइति भाषा तत्पर्य्यायः जलसूचिः २संघाटिका वारिकण्टकः इति जटा-घरः
शृङ्गाटः वारिकुब्जकः इतित्रिकाण्डशेषः
क्षीरशुक्लः जलकण्टकः ८इति शब्दमाला
शृङ्गाटकः शृङ्गरुहः १०जलवल्ली ११ जलाशयः १२ शृङ्गकन्दः १३शृङ्गमूलः १४ विषाणी १५ अस्य गुणाः ।शोणितपित्तहरत्वम् लघुत्वम् सरत्वम् ।वृष्यतमत्वम् विशेषात् त्रिदोषवातभ्रमशोफ-नाशित्वम् रुचिप्रदत्वम् मेहनदार्ढ्यहेतुत्वञ्च ।इति राजनिर्घण्टः
अपि गुरुत्वम् ।विष्टम्भित्वम् शीतलत्वञ्च इति राजवल्लभः
खाद्यविशेषः समूसा इति हिन्दी भाषा
यथा, भावप्रकाशे ।“शुद्धमांसं तनूकृत्य कर्त्तितं स्वेदितं जले ।लवङ्गं हिङ्गुसहितं लवणार्द्रकसंयुतम्
एलाजीरकधन्याकनिम्बूरससमन्वितम्
घृते सगन्धे तद्भृष्टं पूरणं प्रोच्यते बुधैः
शृङ्गाटकं समितया कृतं पूरणपूरितम् ।पुनः सर्पिषि संभृष्टं मांसं शृङ्गाटकं वदेत्
मांसं शृङ्गाटकं रुच्यं बृहणं बलकृत् गुरु ।वातपित्तहरं वृष्यं कफघ्नं वीर्य्यवर्द्धनम्