| YouTube Channel

शृङ्गं (zRGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
शृङ्गं,
क्ली,
(शॄहिंसे + “शृणातेर्ह्रस्वश्च ।” उणा०१ १२५ इति गन् धातोर्ह्रस्वत्वँ कित्त्वंनुट् प्रत्ययस्य ।) पर्व्वतोपरिभागः तत्प-र्य्यायः कूटम् कूटः शिखरम् इत्य-मरः
दन्तः प्राग्भारः इति जटाधरः
शैलाग्रम् इति त्रिकाण्डशेषः
(यथा, रघुः १३ २६ ।एतद्गिरेर्माल्यवतः पुरस्ता-दाविर्भवत्यम्बरलेखि शृङ्गम्
”)सानुः इति नानार्थे अमरः
प्रभुत्वम् ।चिह्नम् क्रीडाजलयन्त्रम् (यथा रघुः १६ ७० ।“वर्णोदकैः काञ्चनशृङ्गमुक्तै-स्तमायताक्ष्यः प्रणयादसिञ्चन्
”)विषाणम् (यथा, रघुः १६ १२ ।“वन्यैरिदानीं महिषैस्तदम्भःशृङ्गाहतं क्रोशति दीर्घिकाणाम्
”)उत्कर्षः इति मेदिनी
(यथा, रघुः ६२ ।“शृङ्गं दृप्तविनयाधिकृतः परेषामत्युच्छ्रितं ममृषे तु दीर्घमायुः
”ऊर्द्ध्वम् (यथा, कुमारे ४० ।“विमानशृङ्गाण्यवगाहमानःशशंस देवावसरं सुरेभ्यः
”)तीक्ष्णम् पङ्कजम् इति शब्दरत्नावली
(कोटिः यथा, कुमारे ६४ ।“अथ सललितयोषिद् भ्रूलताचारुशृङ्गंरतिवलयपदाङ्के चापमासज्य कण्ठे
”स्तनम् यथा, भागवते ११ ।“किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्तेमध्ये कृशो वहसि तत्र दृशिः श्रिता मे
”“स्तनावालक्ष्याह शृङ्गयोः स्तनयोः किंसम्भृतं किं पूर्णमस्ति मनोहरं किञ्चिदस्ति इत्येतावत् जानामि ।” इति तट्टीकायां स्वामी
*
)महिषादिशृङ्गनिर्म्मितवाद्यविशेषः शिङ्गइति भाषा यथा, --“क्वचिद्वनाशाय मनो दधद्व्रजात्प्रातः समुत्थाय वयस्यवत्सपान् ।प्रबोधयन् शृङ्गरवेण चारुणाविनिर्गतो वत्सपुरःसरो हरिः
”इति श्रीभागवते १० स्कन्धे १२ अध्यायः
कामोद्रेकः यथा, साहित्यदर्पणे २१० ।“शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः ।उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते
*
गोशृङ्गभङ्गप्रायश्चित्तं यथा भवदेवभट्टधृतंयमवचनम् ।“अस्थिभङ्गं गवां कृत्वा लाङ्गुलच्छेदनं तथा ।पाटने कर्णशृङ्गाणां मासार्द्धन्तु यवान् पिबेत्
”अङ्गिराः ।“शृङ्गभङ्गेऽस्थिभङ्गे चर्म्मनिर्म्मोचनेऽपि वा ।दशरात्रं चरेद्वज्रं सुस्था सा यदि गौर्भवेत्
”भवदेवभट्टहरिनाथोपाध्यायधृतं संवर्त्तवचनम् ।“शृङ्गभङ्गेऽस्थिभङ्गे कटिभङ्गे तथैव ।यदि जीवति षण्मासान् प्रायश्चित्तं विद्यते
”अत्र षण्मासोत्तरमरणे तद्दोषशमनाय प्राय-श्चित्तं नास्ति तदभ्यन्तरमरणे वधप्रायश्चित्तंभवति एवञ्च शृङ्गभङ्गादिनिमित्तकपापे पृथक्प्रायश्चित्तं कर्त्तव्यम् वधप्रायश्चित्तेनैवगुरुणा प्रसङ्गात्तदपगमसिद्धेः षण्मासोत्तरन्तुशृङ्गभङ्गादिनिमित्तकपूर्व्वोक्तमासार्द्धयावकपानंप्राजापत्यं वा कर्त्तव्यम् इति प्रायश्चित्ततत्त्वम्