| YouTube Channel

शूल्यं (zUlyaM)

 
शब्दकल्पद्रुमः
Sanskrit
शूल्यं, त्रि (शूलेन संस्कृतम् शूल + “शूलोत्खात्यत् ।” १७ इति यत्) शूलाकृतम् ।इत्यमरः
कावाव् इति पारस्यभाषा तत्-पाकप्रकारो यथा, --“कालखण्डादिमांसानि ग्रथितानि शलाकया ।घृतं सलवणं दत्त्वा निर्धूमे दहने पचेत् ।तत्त शूल्यमिति प्रोक्तं पाककर्म्मविचक्षणैः
”अस्य गुणाः ।“शूल्यं बल्यं सुधातुल्यं रुच्यं वह्निकरं लघु ।कफवातहरं वृष्यं किञ्चित् पित्तहरं हि तत्
”इति भावप्रकाशः
अस्य पर्य्यायः शूलाकृतशब्दे द्रष्टव्यः