| YouTube Channel

शूली (zUlI)

 
Monier Williams Cologne
English
शू॑ली a (ई),
f.
a kind of grass,
L.
शूली b See under शूल,
p.
1086, col. 3.
Monier Williams 1872
English
शूली, f. a kind of grass (= मधु-लता).
Wordnet
Sanskrit
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
अभिधानरत्नमाला
Sanskrit
ईशान
ईशान, शशिशेखर, पशुपति, शूली, शिव, शङ्कर, शर्व, शम्भु, उमापति, गिरिश, श्रीकण्ठ, उग्र, हर, सर्वज्ञ, त्रिपुरान्तक, त्रिनयन, रुद्र, कपर्दिन्, भव, भूतेश, परमेश्वर, अन्धकरिपु, दक्षाध्वरध्वंसकृत्, स्थाणु, स्रष्टृ, धूर्जटि, वामदेव, कामध्वंसिन्, व्योमकेश, कपालिन्, नीलग्रीव, वह्निरेतस्, पिनाकिन्, भीम, भर्ग, कृत्तिवासस्, वृषाङ्क, अहिर्बुध्न, विरूपाक्ष, शिपिविष्ट, गणाधिप, गङ्गाधर, महादेव, मृड, नीललोहित
ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,
शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः
सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,
भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ११
स्थाणुः स्रष्टा धूर्जटिर्वामदेवः,
कामध्वंसी व्योमकेशः कपाली
नीलग्रीवो वह्निरेताः पिनाकी,
भीमो भर्गः कृत्तिवासा वृषाङ्कः १२
अहिर्बुध्नो विरूपाक्षः शिपिविष्टो गणाधिपः
गङ्गाधरो महादेवो मृडः स्यान्नीललोहितः १३
verse 1.1.1.11
page 0003
शब्दकल्पद्रुमः
Sanskrit
शूली, [न्]
पुं,
शूलमस्यास्तीति शूल + इनिः ।शिवः इत्यमरः
(यथा, महाभारते ।८४ ८४ ।“ततो गृध्रवटं गच्छेत् स्वानं देवस्य शूलिनः
”शशः इति भावप्रकाशः
शूलास्त्रधारकेशूलरोगयुक्तेच त्रि यथा, --“बर्जयेद्विदलं शूली कुष्ठी मांसं क्षयी स्त्रियम् ।इति वैद्यकम्
तस्य कारणं प्रायश्चित्तञ्च यथा, --“शूली परोपतापेन जायते तत्प्रमार्ज्जकः ।सोऽन्नदानं प्रकुर्व्वीत तथा रुद्रं जपेन्नरः
”इति शातातपीयकर्म्मविपाकः
शूली,
स्त्री,
तृणभेदः तत्पर्य्यायः शूलपत्री २अशाखा धुम्रमूलिका जलाश्रया मधु-लता पिच्छिला महिषीप्रिया अस्यागुणाः पिच्छिलत्वम् कोष्णत्वम् गुरुत्वम् ।गौल्यत्वम् बलप्रदत्वम् पित्तदाहहरत्वम् ।रुच्यत्वम् दुग्धवृद्धिकारित्वञ्च इति राज-निर्घण्टः
वाचस्पत्यम्
Sanskrit
शूली स्त्री शूलं पत्त्राकारे अस्त्यस्य अच् गौरा० ङीष् ।शूलाकारपत्त्रयुते स्वनामख्याते तृणभेदे राजनि०