| YouTube Channel

शूलकः-लिका (zUlakaH-likA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शूल रुजायां संघाते च”@} 2 ‘--रुजायाम्’ इति क्षीरस्वामि-चन्द्र-जैन-काशकृत्स्न-कातन्त्र-हेमचन्द्रादयः।
शूलकः-लिका, शूलकः-लिका, शुशूलिषकः-षिका, शोशूलकः-लिका
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककूलतिवत् 3 ज्ञेयानि।
शूलम् = शस्त्रविशेषः, शूली = शिवः, ‘शिवः शूली महेश्वरः’ इत्यमरः।
शूलः = उदररोगविशेषः, 4 शूल्यम्, 5 शूलाकरोति, 6 शूलीकृत्य, इमानि रूपाण्य- धिकान्यत्रेति विशेषः।
7
प्रासङ्गिक्यः
01
=>
(१७४७)
02
=>
(१-भ्वादिः-५२६। सक। सेट्। पर।)
03
=>
(२४४)
04
=>
[[४। शूलेषु संस्कृतमित्यर्थे ‘शूलोखाद्यत्’ (४-२-१७) इति सप्तम्यन्तात् संस्कृत- मित्यर्थे यत्प्रत्ययस्तद्धितः।]]
05
=>
[[५। ‘शूलात् पाके’ (५-४-६५) इति पाकविषये डाच्प्रत्ययः। ‘ऊर्यादिच्त्रिडाचश्च’ (१-४-६१) इति गतिसंज्ञायाम्, कृञोऽनुप्रयोगे ‘कुगतिप्रादयः’ (२-२-१८) इति समासः। शूलाकरोति मांसम्--शूले पचतीत्यर्थः।]]
06
=>
[[६। ‘शूली’ इति ऊर्यादिषु (१-४-६१) पाठ इत्यभ्युपगन्तॄणां मते गतिसंज्ञायां समासे ल्यपि रूपमेवम्। शूलीकृत्य = रुजां सम्पाद्य इत्यर्थः।]]
07
=>
[पृष्ठम्१३१३+ २७]