| YouTube Channel

शून्यः (zUnyaH)

 
Wordnet
Sanskrit
Synonyms:
शून्यः, शून्या, शून्यम्, वशिकः, तुच्छः, रिक्तकः
noun
अभावविशिष्टः अतिशयेन ऊनः वा
"अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।"
वैजयन्तीकोषः
Sanskrit
Word: शून्यः
Root: शून्य
Gender: पुं
Number: all
अर्थः मोहवाक्
Meaning(s):
Void of sense (of speech)
Shloka(s):
2|4|20|2 विरहे खण्डिता मोहे शून्या लोभे तु जाङ्गली॥ (अन्तरिक्षकाण्डः/शब्दाध्यायः)
Synonym(s):
2|4|20|2 शून्यः (शून्य) (पुं) Void of sense (of speech) मोहवाक्
2|4|20|2 शून्या (शून्य) (स्त्री) Void of sense (of speech) मोहवाक्
2|4|20|2 शून्यम् (शून्य) (नपुं) Void of sense (of speech) मोहवाक्
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
शून्यः, त्रि, अतिशयेन ऊनः अभावविशिष्टः ।असम्पूर्णः खालि इति पारस्यभाषा तत्-पर्य्यायः वशिकः तुच्छः रिक्तकः ।इत्यमरः
शुन्यम् इति तट्टीकायां भरतः
“अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा ।पुत्त्रहीनं गृहं शून्यं सर्व्वशून्या दरिद्रता
”इति चाणक्यम्
(शून्यायै प्राणिहिंसायै हितः रहस्यस्थानत्वात्शूना + यत् यद्वा, शूने हितम् श्वन् + “शुनः ।सम्प्रसारणं वा दीर्घत्वम् इत्यस्यवार्त्तिकोक्त्या यत् सम्प्रसारणं दीर्घत्वञ्च ।)निर्ज्जनः इति मेदिनी
(यथा, भट्टिः १८ २९“केन संविद्रते नान्यस्त्वतो वान्धववत्सलः ।विरौमि शून्यं प्रोर्णौमि कथं मन्युसमुद्भवम्
”)