शूद्राधिकरण (zUdrAdhikaraNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritशूद्राधिकरण शूद्रस्य विद्यायामधिकारोऽस्ति नवेति स-न्देहे नाधिकार इति निर्णायके शारीरकसूत्रोक्ते अधि-करणभेदे तच्चाधिकरण तत्र दर्शितं यथा“शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि” सू०“यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्या-स्वधिकार उक्तस्तथैव द्विजात्यधिकारनियमापवादेनशूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्त्तयितुम् इद-मधिकरणमारभ्यते । तत्र शूद्रस्याप्यधिकारः स्यादितितावत् प्राप्तम्, अर्थित्वसामर्थ्ययाः सम्भवात्, “तस्माच्छुद्रोयज्ञेऽनवकॢप्तः” इतिवत् शूद्रो विद्यायामनवकॣप्त इतिनिषेधाश्रवणात् । यच्च कर्मस्वनधिकारकारणं शूद्रस्या-नग्नित्वं न तद्विद्यास्वधिकारस्यापवादकम् । न ह्या-हवनीयादिरहितेन विद्या बेदितुं न शक्यते । भवति चलिङ्गं शूद्राधिकारस्योपोद्बोलकं, संवर्गविद्यायां हिजानश्रुतिं पौव्रायणं शुश्रूषुं शूद्रशब्देन परामृशति“अह हारे त्वा शूद्र! तवैव सह गोभिरस्तु” इति ।विदूरप्रभृबयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानस-म्पन्नाः स्मर्य्यन्ते । तस्मादधिक्रियते शूद्रो विद्यास्वित्येवंप्राप्ते ब्रूमः । न शूद्रस्याधिकारो वेदाध्ययनाभावात् ।अधीतवेदा हि विदितवेदार्थो बेदार्थेष्वधिक्रियते, न चशूद्रस्य वेदाध्ययनमस्ति, उपनयनपूर्वकत्वाद्वेदाध्ययनस्यउपनयनस्य च वर्णत्रयविषयत्वात् । यत्त्वर्थित्वं न तदसतिसामर्थ्येऽधिकारकारणं भवति । सामर्थ्यमपि न लौ-किकं केवलमधिकारकारणं भवति शास्त्रीयेऽर्थे शास्त्री-यस्य सामर्थ्यस्यापेक्षितत्वात् शास्त्रीयस्य च सामर्थ्य-खाध्ययननिराकरणेन निराकृतत्वात् । यच्चेदं शूद्रोयज्ञेऽनवकॢप्त इति तत् न्यायपूर्वकत्वाद्विद्यायामप्यनव-कॢप्तत्वं द्योतयति न्यायस्य साधारणत्वात् । यत् पुनःसंवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे न तल्लि-ङ्गम्, न्यायाभावात् । न्यायोक्ते हि लिङ्गदर्शनं द्योतर्कभवति, न चात्र न्यायोऽस्ति कामञ्चायं शूत्रशब्दः संवर्ग-विद्यायामेषैकस्यां शूद्रमधिकुर्य्यात् तद्विषयत्वात् न स-र्वासु विद्यासु, अर्थवादस्थत्वात् न तु क्वचिदप्ययं शूद्र-मधिकर्तुमुत्सहते । शक्यते चायं शूद्रशब्दोऽधिकृतविषयेयोजयितुम् । कथमित्युच्यते । “कं वर एवमेतत् सन्तंसयुग्वानमिव रैक्कमात्थेति अस्मार्द्धसवाक्यादात्मनोऽनादरश्रुतवतो जानश्रुतेः पौत्रायणस्य शुगुत्पेदे तामृषी रैक्कशूद्रशब्देनानेन सूचयाम्बभूवात्मनः परोक्षज्ञानस्य ख्या-पनायेति गम्यते, जातिशूद्रस्यानधिकारात् । कथं पुनःशूद्रशब्देन शुगुत्पन्ना सूच्यते इति, उच्यते, तदाद्रवणाच्छुचमभिदुद्राव शुचा वाभिदुद्रुवे शुचा वा रैक्क-मभिदुद्रावेति शूद्रावयवार्थसम्भवात् रूढार्थस्य चासम्भ-वात् । दृश्यते चायमर्थोऽस्यामाख्यायिकायाम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
