शूद्रकृत्य (zUdrakRtya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishApte Hindi
Hindiशूद्रकृत्यम्
शूद्रः-कृत्यम् -
शूद्र का कर्तव्य
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritशूद्रकृत्यं, (शूद्रस्य कृत्यम् ।) शूद्रकर्त्तव्य-कर्म्म यथा, --“प्रणम्य सच्चिदासन्दं शूद्राणां न्यायवर्त्तिनाम् ।श्राद्धाहःकृत्ययोस्तत्त्वं वक्ति श्रीरघुनन्दनः ॥
”तच्च मत्स्यपुराणम् ।“एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धञ्च सर्व्वदा ।नमस्कारेण मन्त्रेण कुर्य्यादामान्नवद्बृधः ॥
दानः प्रधानः शूद्रः स्यादित्याह भगवान् प्रभुः ।दानेन सर्व्व कामाप्तिरस्य संजायते यतः ॥
”ततो दानमेवापेक्षितंन तु भोजनमपि । सामान्यंसर्व्वजनकर्त्तव्यत्वेनप्रतिमासकृष्णपक्षादिविहितश्राद्धं आभ्यु दयिकश्राद्धञ्च एवं द्विजातिवत्शूद्रोऽपि कुर्य्यादित्यन्वयः । नमस्कारेण मन्त्रेणनतुस्वयं पठितमन्त्रेण आमान्नवदित्यनेनजलसेकसिद्धान्नव्यावृत्तिः । स्विन्नमन्नमुदाहृतम् । इतिवशिष्ठे न स्विन्नस्यैवान्नत्वाभिधानात् । कन्दुपक्वस्येभृष्टत्वं नतु सिन्नत्वम् । हारीतेन स्वेदनभर्ज्ज-नयोः पृथक्त्वमुक्तम् । यथा । आदीपनतापन-स्वेदनभर्ज्जनपचनादिभिः प्रञ्चमीति अस्यार्थः ।आदीपनं काष्ठानाम् तापनं तोयादेः । स्वेदनंधान्यादेः । भर्ज्जनं यवादेः । पचनं तण्डुलादेः ।इति पञ्चमी । सूना इति कल्पतरुः । अतएवस्विन्नधान्येन व्यवह्रियते ।“कन्दुपक्वानि तैलेन पायसं दधि शक्तवः ।द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि ॥
”इति कुर्म्मपुराणवचनेन शूद्रकर्त्तृककन्दुपक्वादेर्ब्राह्मणस्य भक्ष्यत्वेन श्राद्धे देयत्वं युक्तम् । कन्दुपक्वं जलोपसेकं विना केवलपात्रेण यद्वह्णिनापक्वम् । पायसं पाकेन काठिन्यविकारापन्नंदुग्धम् । परमान्नपरत्वे पुंलिङ्गनिर्द्देशापत्तेः ॥
तथा चामरः । परमान्नस्तु पायस इति ।“दिने त्रयोदशे प्राप्ते पाकेन भोजयेद्द्विजान् ।अयं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्ज्जितः ॥
”इति श्राद्धचिन्तामणिधृतवराहपुराणवचनमपिकन्दुपक्वपरम् । एवन्तु एतद्वचनं सच्छू द्रपरंमैथिलोक्तं हेयम् । एवं आममांसस्यापि श्राद्धेदेयत्वं सामगश्राद्धतत्त्वेऽनुसन्धेयम् । तत्र द्रव्य-देवताप्रकाशार्थं ब्राह्मणेन मन्त्राः । पाठ्याः ।“अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्ज्जितः ।अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥
”इति वराहपुराणात् ॥
अयं श्राद्धेतिकर्त्तव्यताको विधिः शूद्रकर्त्तृकमन्त्र-पाठरहितः । शूद्रस्य मन्त्रपाठानधिकारसिद्धौयदमन्त्रस्येति पुनर्वचनं तत् स्त्रिया ग्रहणार्थंपरिभाषार्थञ्च । ततश्च तत्कर्म्मसम्बन्धिमन्त्रेणविप्रस्तदीयकर्म्मकारयितृब्राह्मणो गृह्यतो तेनबाह्मणेन तत्र मन्त्रः पठनीय इति तात्पर्य्यम् ।तत्र यजुर्व्वेदिको मन्त्रः । तथा च स्मृतिः ।“आर्षक्रमेण सर्व्वत्र शद्रा वाजसनेयिनः ।तस्माच्छूद्रः स्वयं कर्म्म यजुर्व्वेदीव कारयेत् ॥
”आर्षक्रमेणमुन्यु क्तक्रमेण यजुर्वेदिसम्बन्धिगृह्या-दिना ।“चतुर्णामपि वर्णानां यानि प्रोक्तानि वेधसा ।धर्म्मशास्त्राणि राजेन्द्र शृणु तानि नृपोत्तम ॥
विशेषतस्तु शूद्राणां पावनानि मनीषिभिः ।अष्टादश पुराणानि चरितं राघवस्य च ॥
रामस्य कुरुशार्दुल धर्म्मकामार्थसिद्धये ।तथोक्तं भारतं वीर पाराशर्य्येण धीमता ।वेदार्थं सकलं योज्यं धर्म्मशास्त्राणि च प्रभो ॥
”इति भविष्यपुराणवचनात्तेषां पौराणिकादि-विधिर्योज्यो योजयित्रा । अत्र च श्राद्धे वेद-मन्त्रवर्ज्जं शूद्रस्येतिवचने वेदेत्युपादानात् श्राद्धेपुराणमन्त्रः शूद्रेण पठनीय इति मैथिलोक्तम्तन्न वराहपुराणे शूद्राणां मन्त्रवर्ज्जित इत्यनेनमन्त्रमात्रनिषेधात् मत्स्यपुराणेन नमस्कारेणमन्त्रेण इत्युपादानाच्च । पौराणिकस्यापि श्राद्धेनिषेधः प्रतीयते । एवं स्नानेऽपि ।“ब्रह्मक्षत्त्रविशामेव मन्त्रवत् स्नानमिष्यते ।तूष्णीमेव हि शूद्रस्य सनमस्कारकं मतम् ॥
”इत्यनेन नमस्कारविधानात् पञ्चयज्ञेऽपि ।“शूद्रस्य द्बिजशूश्रूषा तथा जीवनवान् भवेत् ।शिल्पैर्वा विविधैजीवेत् द्विजातिहितमा-चरन् ॥
भार्य्यारतिः शुचिर्भृत्यभर्त्ता श्राद्धक्रियारतः ।नमस्कारेण मन्तेण पञ्चयज्ञान्न हापयेत् ॥
”इति नमस्कारमात्रविधानात् श्राद्धादिषु पौरा-णिकमन्त्रनिषेधः ततश्च स्नानश्राद्धपञ्चयज्ञे तरत्रशूद्रस्य पौराणिकमन्त्रपाठः प्रतीयते । अत्र ।“षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले ॥
”इति मनुवचनात् । चूडा कार्य्या यथाकुलं इतियाज्ञवल्क्यवचनाच्च संस्कारमात्रे कुलघर्म्मानु-रोधेन कालान्तरस्य नामविशेषोच्चारणस्याभिधानाच्च शूद्रादीनां नामकरणे वसुघोषादिक-पद्धतियुक्तनामकरणस्यच प्रतीतेर्व्वैदिककर्म्मणिशूद्रानां पद्धतियुक्तनामाभिधानं क्रियते इति ॥
शूद्रस्त्वाचमने दैवतीर्थेन ओष्ठे जलं सकृत्क्षिपेत् न पिबेत् । तथा च याज्ञवल्क्यः ।“हृत्कण्ठतालुगाद्भिस्तु यथासंख्यं द्विजातयः ।शुद्धेरन् स्त्री च शूद्रश्च सकृत् स्पृष्टाभिरन्ततः ॥
”अन्ततो हृदयादिसमीपेन ओष्ठेन उत्तरोत्तर-मपकर्षात् । अतएव स्पृष्टाभिरित्युक्तं न तुभक्षिताभिरिति ।“स्त्री शूद्रः शुध्यते नित्यं क्षालनाच्च करोष्ठयोः ॥
”इति ब्रह्मपुराणवचनञ्च । याज्ञवल्क्यः ।“प्राग्वा ब्राह्म्येण तीर्थेन द्विजो नित्यमुप-स्पृशेत् ।”अत्र द्विजस्यैव आचमने ब्राह्म्यतीर्थोपादानात्स्त्रीशूद्रयोर्ण तेनाचमनम् । एवमेव मिता-क्षरायां व्यक्तमुक्तं मरीचिना ।“स्त्रियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव च ।सकृदाचमनाच्छुद्विरेतयोरेव चोभयोः ॥
” इति ।एतदनन्तरं इन्द्रियादिस्पर्शनन्तु ब्राह्मणवदेव ।प्रमाणान्तरन्तु वाजसनेयिसामगश्राद्धाह्निक-तत्त्वयोरनुसन्धेयम् । इति वन्द्यघटीयश्रीहरिहरभट्टाचार्य्यात्मज-श्रीरघुनन्दनभदृआचार्य्यविरचितंशूद्राह्निकाचारतत्त्वं समाप्तम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
