| YouTube Channel

शूकधान्यं (zUkadhAnyaM)

 
शब्दकल्पद्रुमः
Sanskrit
शूकधान्यं,
क्ली,
(शूकविशिष्टं धान्यम् ।) शुङ्गा-युक्तशस्यमात्रम् तु धान्ययवादिः यथा, --“व्रीह्यादिकं यदिह शूकसमन्वितं स्यात्तत् शूकधान्यमथ मुद्गमकुष्ठकादि ।शिम्बीनिगूढमिति तत् प्रवदन्ति शिम्बी-धान्यं तृणोद्भवमथो तृणधान्यमन्यत्
”अस्य गुणाः ।“तत्र त्रिदोषशमनं लघु शूकधान्यंतेजोबलातिशयवीर्य्यविवृद्धिदायि ।देशे देशे शूकधान्येषु संख्याज्ञातुं शक्या नैव तैर्दैवतेर्व्वा
”इति राजनिर्घण्टः
अपि ।“शूकधान्यं शमीधान्यं समातीतं प्रशस्यते ।परतो वातकृद्रूक्षं प्रायेणाभिनवं गुरु
”इति राजवल्लभः
अन्यच्च ।“यवस्तुसितशूकः स्यात् निःशूकोऽतियवः स्मृतःतोक्मस्तद्वत् हरितस्ततः स्वल्पश्च कीर्त्तितः
यवः कषायो मधुरः शीतलो लेखनो मृदुः ।व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निवर्द्धनः
कटुपाकोऽनभिष्यन्दी सर्य्यो बलहरो गुरुः ।बहुवातमलो वर्णस्थैर्य्यकारी पिच्छिलः ।कण्ठत्वगामयश्ले ष्मपित्तमेदप्रणाशनः
पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् ।अस्मादतियवो न्यू नस्तोक्मो न्यूनतरस्ततः
”इति भावप्रकाशः