शुश्रूषकः-षिका (zuzrUSakaH-SikA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“श्रु श्रवणे”@} 2 श्रावकः-विका, श्रावकः-विका, शुश्रूषकः-षिका, शोश्रूयकः-यिका
3 श्रोता-त्री, श्रावयिता-त्री, शुश्रूषिता-त्री, शोश्रूयिता-त्री
इत्यादीनि रूपाणि भौवादिकद्रवतिवत् 4 बोध्यानि।
5 शृण्वन्-ती, 6 संशृण्वानः, 7 शुश्रूषमाणः, 8 प्रतिशुश्रूषन्-आशुश्रूषन्, 9 देवदत्तं प्रतिशुश्रूषमाणः-भाष्यात् आशुश्रूषमाणः, 10 शुश्रुवान्, 11 देवदत्ताय गां प्रतिशृण्वन्- आशृण्वन् वा, 12 निश्रावी, 13 विश्रावः, 14 श्रवणम्, 15 प्रतिश्रुत्, 16 श्रुतिः, 17 सुश्रुतः, 18 शिश्रावयिषुः-शुश्रावयिषुः, 19 20 श्रवणः, 21 श्रोत्रम्, 22 श्रवः-विश्रवः-वैश्रवणः-रावणः, 23 श्रोणिः इतीमानि धातोरस्य विशेषरूपाणि।
01 (१७७९)
02 (१-भ्वादिः-९४२। सक। अनि। पर।)
03 [पृष्ठम्१३२६+ ३२]
04 (८८३)
05 [[१। शतरि, ‘श्रुवः शृ च’ (३-१-७४) इति श्नुप्रत्ययः, तत्सन्नियोगेन ‘शृ’ इति प्रकृतेरादेशश्च। ‘सार्वधातुकमपित्’ (१-२-४) इति श्नुप्रत्ययस्य ङिद्वद्भावात् ‘क्ङिति च’ (१-१-५) इति गुणनिषेधः। अत्र वदन्ति--भ्वादिषु पठितत्वादस्य धातोः, श्रवति इत्यनेकत्र ऋग्वेदादिषु प्रयोगश्रवणात् च पूर्वं श्रुधातुः श्रवति इत्याद्याकारेण भौवादिकरूपेणापि युक्त इत्यूह्यते, इति। विद्वांसः प्रमाणमत्र।]]
06 [[२। ‘अर्तिश्रुदृशिभ्यश्च’ (वा। १-३-२९) इत्यनेन समुपसृष्टादस्मात् आत्मनेपदम्।]]
07 [[३। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति सन्नन्तात् नित्यमात्मनेपदम्।]]
08 [[४। ‘प्रत्याङ्भ्यां श्रुवः--’ (१-३-५९) इति आत्मनेपदनिषेधात् यथासम्भवं परस्मैपदमत्रेति बोध्यम्।]]
09 [[५। ‘प्रत्याङ्भ्यां--’ (१-३-५९) इत्यत्र उपसर्गयोरेव ग्रहणम्
\n\n प्रकरणात्। अतश्च कर्मप्रवचनीययोः प्रत्याङोर्ग्रहणे तु आत्मनेपदमपि भवति।]]
10 [[६। ‘भाषायां सदवसश्रुवः’ (३-२-१०८) इति लिटः क्वसुः। द्विर्वचनादिकम्।]]
11 [[७। ‘प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता’ (१-३-५९) इति प्रत्याङ्भ्यामुपसृष्टस्य शृणोतेः प्रयोगे देवदत्तस्य सम्प्रदानत्वात् चतुर्थी इति बोध्यम्।]]
12 [[८। ‘रक्षश्रुवसवपशां नौ’ (ग। सू। ३-१-१३४) इति ग्रह्यादिपाठात् णिनिप्रत्ययः। क्षीरस्वामी तु अत्र ‘नि’ इत्युपसर्गं प्रत्ययस्य णित्त्वं च अप्रयोजकं मत्वा श्रावी श्रवी इति वृद्धिपक्षं वृद्ध्यभावपक्षं चाह।]]
13 [[९। ‘वौ क्षुश्रुवः’ (३-३-२५) इति घञ्। उवर्णान्तत्वलक्षणापोऽपवादः।]]
14 [[१०। श्रूयतेऽनेनेति संज्ञायां ल्युटि श्रवणम् = श्रोत्रम्, वेदो वा।]]
15 [[११। प्रतिश्रूयते इति प्रतिश्रुत् = प्रतिध्वनिः। स्त्रियां भावे सम्पदादित्वात् (वा। ३-३-१०८) क्विप्। तुक्।]]
16 [[१२। श्रूयतेऽनया इति श्रुतिः = वेदः, श्रोत्रं वा। ‘श्रुयजीषिस्तुभ्यः करणे’ (वा। ३-३-९४) इति स्त्रियां ल्युडपवादः क्तिन्।]]
17 [[१३। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां कर्तरि क्तः। सुश्रुतः = वैद्यशास्त्र- प्रवर्तकः ऋषिविशेषः।]]
18 [[१४। ण्यन्तात् सनि ‘सनाशंसभिक्ष उः’ (३-२-१६८) इति ताच्छीलिके उप्रत्यये, ‘स्रवतिशृणोति--’ (७-४-८१) इत्यादिना अवर्णपरकत्वात् अभ्यासस्येकार- विक्ल्पः।]]
19 [पृष्ठम्१३२७+ २७]
20 [[१। नन्द्यादित्वात् (ग। सू। ३-१-१३४) कर्तरि ल्युः। श्रवणः = नक्षत्रविशेषः। बहुश्रुतः, अश्वत्थवृक्षो वा।]]
21 [[२। औणादिके (द। उ। ८-८४) ष्ट्रन्प्रत्यये रूपमेवम्। श्रूयतेऽनेनेति श्रोत्रम् = श्रवणम्।]]
22 [[३। औणादिके (द। उ। ९-४९) असुन्प्रत्यये रूपमेवम्। विपूर्वकादस्मात् अपत्यार्थे ‘विश्रवसो विश्रवणरवणौ’ (ग। सू। ४-१-११२) इति शिवादिपाठात् प्रकृतेर्विश्रवण- रवणादेशौ। तौ च यक्षराजे, रक्षोविशेषे च व्यवस्थितौ। तेन वैश्रवणः कुबेरः। रावणः = रक्षोविशेषो लङ्काधिपतिः।]]
23 [[४। ‘वहिश्रियुश्रु…’ (द। उ। १-२१) इत्यादिना निप्रत्ययः। श्रोणिः कटिपश्चाद्भागः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
