| YouTube Channel

शुशुभिषकः-शुशोभिषकः-षिका (zuzubhiSakaH-zuzobhiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शुभ भाषणे”@} 2 क्षीरस्वामि-चन्द्र-जैन-कातन्त्र-हेमचन्द्रादयः पठन्ति।
‘हिंसाभाषणयोः शोभेत्, शोभार्थे शुभतीति शे।।’ 3 इति देवः।
शोभकः-भिका, शोभकः-भिका, शुशुभिषकः-शुशोभिषकः-षिका, शोशुभकः-भिका
शोभिता-त्री, शोभयिता-त्री, शुशुभिषिता-शुशोभिषिता-त्री, शोशुभिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिककुप्यतिवत् 4 ऊह्यानि।
णिनिप्रत्यये शोभी 5 इति।
शोभनः-शब्दार्थत्वप्रयुक्तयुच्प्रत्ययः।
6
प्रासङ्गिक्यः
01
=>
(१७३८)
02
=>
(१-भ्वादिः-४३२। अक। सेट्। पर।)
03
=>
(श्लो। १४३)
04
=>
(२२४)
05
=>
[[आ। ‘द्विरदान् सिंहलेन्द्रस्य द्विचतुर्दन्तशोभिनः।’ या। अ। २२। १९०।]]
06
=>
[पृष्ठम्१३१०+ २७]
1 {@“शुभ दीप्तौ”@} 2 ‘शोभते शपि दीप्त्यर्थे शुम्भेरन्यत् तङः समम्।’ 3 इति देवः।
‘-- हिंसने च’ इति वीपदेवः।
अर्थभेदात् पुनः पाठः।
शोभकः-भिका, शोभकः-भिका, शुशुभिषकः-शुशोभिषकः-षिका, शोशुभकः- भिका
इत्यादिकानि रूपाणि सर्वाण्यपि कुप्यतिवत् 4 ज्ञेयानि।
शुभम्, शोभनः, शोभनम्, शोभा 5, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१७३९)
02
=>
(१-भ्वादिः-७५०। अक। सेट्। आत्म।)
03
=>
(श्लो। १४४)
04
=>
(२२४)
05
=>
[[आ। ‘कृष्णोऽपि तापोल्लुठिताङ्गशोभा आश्वास्य मारक्षुभिता महेलाः।’ धा। का। २-२। “‘नाम्नि तु पुंस्त्वं प्रायिकम्’ इति घञन्तस्यापि स्त्रीत्वम्” इति अत्र दृश्यते।]]