| YouTube Channel

शुशुन्धिषकः-षिका (zuzundhiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शुन्ध शुद्धौ”@} 2 ‘शुन्धयेत् शुन्धते शुन्धेद्यौ वा णौ शौचकर्मणि।
शुद्धौ शुन्धति भूवादेः… …।।’ 3 इति देवः।
‘शुन्धन्ते… …।’ 4 इति आत्मनेपदेऽपि दृश्यते।
‘शुन्धध्वं दैव्याय कर्मणे--’ 5 इत्यत्रापि।
शुन्धकः-न्धिका, शुन्धकः-न्धिका, शुशुन्धिषकः-षिका, शोशुधकः-धिका
इत्यादीनि रूपाणि सर्वाण्यपि कुञ्चतिवत् 6 ऊह्याति।
7 शुधितम्-तः- 8 तवान्, शुन्धित्वा 9 शुन्ध्युः 10, इतीमानि रूपाणि विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१७३४)
02
=>
(१-भ्वादिः-७४। अक। सेट्। पर।)
03
=>
(श्लो। ११७।)
04
=>
(काण्वब्रा। १-२-३-७)
05
=>
(तैत्तिरीयसंहिता १-१-१-४)
06
=>
(२२२)
07
=>
[[१। निष्ठायां ‘अनिदितां हलः--’ (६-४-२४) इत्युपधानकारलोपः। ‘उदुपधात्--’ (१-२-२१) इति (निष्ठायाः) अत्र कित्त्वविकल्पो भवति। ‘सन्निपातलक्षण--’ (परि-८६) विरोधात्।]]
08
=>
[[B। ‘अक्लिन्दनीयान् शुधितात्मनो जनान् प्रशीकते यः करुणावलोकनैः।’ धा। का। १-११।]]
09
=>
[[२। सेटः क्त्वायाम्, कित्त्वाभावात् नकारलोपो भवति।]]
10
=>
(शुध्युः इति केचित्)