| YouTube Channel

शुम्भकः-म्भिका (zumbhakaH-mbhikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शुन्भ भाषणे”@} 2 ‘-- दीप्तौ हिंसने च’ इति वोपदेवः।
‘--भासने’ इति दुर्गः।
‘-- भाषणे हिंसायां च’ इति क्षीरस्वामी।
एवं देवमैत्रैयादयोऽपि।
‘शोभते शपि दीप्त्यर्थे शुम्भेरन्यत् तङः समम्।’ 3 इति देवः।
“स्वामी तु निरनुषङ्गं पपाठ।
इंदमेव आत्रेयस्यापि मतम्
तुदादौ ‘शोभत इति शपि’ इति वचनात्।
दुर्गस्तु भासने इत्यस्यार्थमाह।
एवं धनपालशाकटायनौ।
गुप्तस्तु ‘सावष्टम्भनिषुम्भ4 संभ्रमनमद्- भूकोलंम्’ मालतीमाधवम् 5 इत्यादिदर्श्नान्मूर्धन्यादित्वमाह” इति माधवः।
शुम्भकः-म्भिका, शुम्भकः-म्भिका, शुशुम्भिषकः-षिका, शोशुभकः- भिका
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककुञ्चतिवत् 6 ज्ञेयानि।
इगुपधलक्षणकप्रत्यये कित्त्वादुपधानकारलोपे शुभः, ‘स्फायितञ्चि--’ 7 इत्यादिना रक्प्रत्यये नकारलोपे शुभ्रम् इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१७३६)
02
=>
(१-भ्वादिः-४३३। सक। सेट्। पर।)
03
=>
(श्लो। ११४)
04
=>
(शुम्भ)
05
=>
(५-२२)
06
=>
(२२२)
07
=>
(द। उ। ८-३१)