| YouTube Channel

शुम्भः (zumbhaH)

 
Apte
English
शुम्भः [śumbhḥ],
N.
of a demon killed by Durgā.
Comp.
-घातिनी, -मर्दिनी an epithet of Durgā.
Wordnet
Sanskrit
Synonyms:
शुम्भः
noun
एकः असुरः।
"मात्रा दुर्गया शुम्भः हतः।"
शब्दकल्पद्रुमः
Sanskrit
शुम्भः,
पुं,
दानवविशेषः तु गवेष्ठीपुत्त्रःप्रह्णादपौत्त्रः अम्बिकया हतश्च यथा, --“विरोचनस्तु प्राह्लादिः पञ्च तस्यानुजाः स्मृताःगवेष्ठी कालनेमिश्च जम्भो वास्कल एव
शम्भुः श्रेष्ठोऽनुजस्तेषां पुत्त्रानेषामतः शृणु ।शुम्भश्चैव निशुम्भश्च विश्वक्सेनो महौजसः ।गवेष्ठिनः सुता ह्येते जम्भस्य सुतदुन्दुभिः
”इत्याद्ये वह्रिपुराणे कस्यपीयप्रजासर्गाध्यायः
अन्यच्च ।पुलस्त्य उवाच ।कश्यपस्य दनुर्न्नाम भार्य्यासीत् द्विजसत्तम ।तस्यास्तु द्वौ सुतावास्तां सहस्राक्षाद्वलाधिकौ
ज्येष्ठः शुम्भ इति ख्यातो निशुन्भश्चापरोऽसुरः
”इति वामनपुराणे ५२ अध्यायः
अपरञ्च ।ऋषिरुवाच ।“निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।हन्यमानं बलञ्चैव शुम्भः क्रुद्धोऽब्रवीद्वचः
बलावलेपदुष्टे त्वं मा दुर्गे गर्व्वमावह ।”इत्यादि
“स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः ।अभ्याधवत दुष्टात्मा चण्डिकानिधनेच्छया
तमायान्तं ततो देवी सर्व्वदैत्यजनेश्वरम् ।जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ।स गतासुः पपातोर्व्व्यां देवीशूलाग्रविक्षतः
”इति मार्कण्डेयपुराणे देवीमाहात्मे शुम्भवधः१० अध्यायः