| YouTube Channel

शुनिन्धमः (zunindhamaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ध्मा शब्दाग्निसंयोगयोः”@} 2 ‘अग्निसंयोगश्च मुखवायुना।
लक्षणया विधूनने, सन्तापेन पूरणे च।’ इति धा।
का।
व्याख्यायाम् 3।
4 ध्मायकः-यिका, 5 ध्मापकः-पिका, दिध्मासकः-सिका, 6 देध्मीयकः-यिका
ध्माता-त्री, ध्मापयिता-त्री, दिध्मासिता-त्री, देध्मीयिता-त्री
7 धमन् 8 -न्ती, ध्मापयन्-न्ती, दिध्मासन्-न्ती
-- 9 ध्मास्यन्-न्ती-ती, ध्मापयिष्यन्-न्ती-ती, दिध्मासिष्यन्-न्ती-ती
-- 10 व्यतिधममानः, ध्मापयमानः, 11 व्यतिदिध्मासमानः, देध्मीयमानः
व्यतिध्मास्यमानः, ध्मापयिष्यमाणः, व्यतिदिध्मासिष्यमाणः, देध्मीयिष्यमाणः
शङ्खध्माः-ध्मौ-ध्मः
-- -- -- ध्मातम्-तः-तवान्, ध्मापितः, दिध्मासितः, देध्मीयितः-तवान्
12 उद्धमः 13 -धमः, 14 नासिकन्धमः, 15 नाडिन्धमः 16 -मुष्टिन्धमः, 17 पाणिन्धमः, 18 19 शुनिन्धमः, 20 करन्धमः, वातन्धमः-घटिन्धमः-स्वारिन्धमः-खरिन्धमः, ध्मापः, दिध्मासुः, 21 दाध्माः
ध्मातव्यम्, ध्मापयितव्यम्, दिध्मासितव्यम्, देध्मीयितव्यम्
22 ध्मानीयम्, ध्मापनीयम्, दिध्मासनीयम्, देध्मीयनीयम्
ध्मेयम्, ध्माप्यम्, दिध्मास्यम्, देध्मीय्यम्
ध्मायमानः, ध्माप्यमानः, दिध्मास्यमानः, देध्मीय्यमानः
ध्मायः, ध्मापः, दिध्मासः, देध्मीयः
ध्मातुम्, ध्मापयितुम्, दिध्मासितुम्, देध्मीयितुम्
ध्मातिः, 23 आध्मा, ध्मापना, दिध्मासना, देध्मीया
ध्मानम्, ध्मापनम्, दिध्मासनम्, देध्मीयनम्
ध्मात्वा, ध्मापयित्वा, दिध्मासित्वा, देध्मीयित्वा
आध्माय, आध्माप्य, प्रदिध्मास्य, प्रदेध्मीय्य
ध्मायम् २, ध्मात्वा २, ध्मापम् २, ध्मापयित्वा २, दिध्मासम् २, दिध्मासित्वा २, देध्मीयम्
देध्मीयित्वा
24 इति क्वुन् प्रत्यये धमादेशे रूपम्।
धमतीति धमकः = अग्निध्मापकः।]] धमकः, 25 इति अनिप्रत्यये बाहुलकात् धमादेशे धमनिः = नाडी।
अत्र ‘धमिभ्यः’ इत्युक्तत्वात्, ‘विधमिष्यामि जीमूतान्--’ 26 ‘धान्तो धातुः पावकस्येव राशिः’ इत्यादिप्रयोगानुसाराच्च धमिः प्रकृत्यन्तरम् इति केचित्।
धातुपाठकोशेषु तु धमिरन्यो नोपलभ्यते।]] धमनिः।
प्रासङ्गिक्यः
01
=>
(९२४)
02
=>
(१-भ्वादिः-९२७। सक। अनि। पर।)
03
=>
(२-३३)
04
=>
[[५। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञ्णमुलादिषु।]]
05
=>
[[६। ण्यन्ते सर्वत्र पुगागमो ज्ञेयः।]]
06
=>
[[७। ‘ई घ्राध्मोः’ (७-४-३१) इति यङि ईकारः। अभ्यासे गुणः। एवं यङन्ते सर्वत्र।]]
07
=>
[[८। शतरि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधम--’ (७-३-७८) इत्यादिना धमादेशः। अदन्तोऽयमादेशः। पररूपे रूपमेवम्।]]
08
=>
[[B। ‘स्नातावदातः पिबंस्तदाभां जिघ्रन् सुगन्धं विधमन् अघानि।’ धा। का। २। ३३।]]
09
=>
[पृष्ठम्०८१५+ २८]
10
=>
[[१। ‘कर्तरि कर्मव्यतीहारे’ (३-१-१४) इति शानच्।]]
11
=>
[[२। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तादात्मनेपदम्।]]
12
=>
[[३। ‘पाघ्राध्माधेट्दृशः शः’ (३-१-१३७) इति उपसृष्टान्निरुपसृष्टादपि शप्रत्यये धमादेशे रूपम्। निरुपसृष्टादेवायं शप्रत्यय इति केचित्।]]
13
=>
[[आ। ‘ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैर्भृशम्।’ भ। का। ६। ७८।]]
14
=>
[[४। ‘नासिकास्तनयोर्ध्माधेटोः’ (३-२-२९) इति स्वश्प्रत्ययः। ‘खित्यनव्ययस्य’ (६-३-६६) इति मुम्। शूत्कारैः नासिकां शब्दयतीति नासिकन्धमः = वराहः।]]
15
=>
[[५। ‘नाडीमुष्ट्योश्च’ (३-२-३०) इति खश्, ह्रस्वः, मुम्। नाडिन्धमः = स्वर्णकारः। वेण्वादिनाडिं मुखवायुना धमतीति नाडिन्धमः।]]
16
=>
[[B। ‘प्राचीं वासकसज्जिकामुपगते भानौ दिशावल्लभे पश्यैता रुचयः पतङ्गदृषदामाग्नेयनाडिन्धमाः।’ अनर्धराघवे ४। २।]]
17
=>
[[६। ‘उग्रम्पश्येरम्मदपाणिन्धमाश्च’ (३-२-३७) इति सूत्रेण निपातनात् साधुः। पाणयः ध्मायन्ते एषु इति पाणिन्धमः = पन्थाः। ‘सर्पास्पृश्यादिरोधार्थं ध्मायन्ते यत्र पाणयः। सोऽध्वा पाणिन्धमोऽत्राधिकरणार्थो निपातनात्।।’ इति प्रक्रिया- सर्वस्वे।]]
18
=>
[[C। ‘शस्त्राशस्त्रिकथैव का नवभवद्गीर्वाणपाणिन्धमाः पन्थानो दिवि सङ्कुचन्ति वसुधा वन्ध्या सूते भटान्।’ अनर्धराघवे ४। २०।]]
19
=>
[[७। ‘नाडीमुष्ट्योश्च’ (३-२-३०) इत्यत्र चकारात् अत्रापि खश्। एवं घटिन्धमः, खारिन्धमः, खरिन्धमः, वातन्धमः इत्यादिष्वपि खश् ज्ञेयः। वातन्धमः = पर्वतः। घटिन्धमः = आमः।]]
20
=>
[[८। ‘उग्रम्पश्य--’ (३-२-३७) इत्यत्र पाणिपदेन पर्यायस्यापि ग्रहणमिति प्रक्रिया- कौमुद्याशयात् तन्मते करन्धमः इत्यापि साधुः।]]
21
=>
[[९। ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, ईत्वाभावे रूपमेवम्।]]
22
=>
[पृष्ठम्०८१६+ २८]
23
=>
[[१। स्त्रियाम्, ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्।]]
24
=>
[[२। ‘ध्मो धम च’ [द। उ। ३। ७]
25
=>
[[३। ‘अर्त्तिसृधृधमिभ्यश्च’ [द। उ। १-२]
26
=>
(रामायणे सुन्दरकाण्डे-६७-१२)