| YouTube Channel

शुध (zudha)

 
Wilson
English
शुध (ओ ऌ) औशुधॢ r. 4th cl. (शुध्यति) To be or become
pure or purified.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शुध्
मूलधातुः:
शुध
धात्वर्थः:
शौचे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
शुद्ध्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुप्रदीपः
Sanskrit
शुधँ शुध शौचे
- शुध्यति शुशोध शोद्धा शोत्स्यति अशुधत् विशुद्धः विशुद्धिः 85
शब्दकल्पद्रुमः
Sanskrit
शुध, शौचे इति कविकल्पद्रुमः (दिवा०पर०-अक०-अनिट् ।) ऌ, अशुधत् य, शुध्यतिलोकः स्नानात् औ, शोद्धा रजसा शुध्यतेनारीत्यत्र शुध्यतीति क्विपि शुधं करोतीतिञौ कर्म्मणि यकि रूपम् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
शुध शौचे शोधने
सक०
निःशेषभवने अक० दि०
पर०
अनिट् शुध्यति ऌदित् अशुधत् “भक्तोहरः शुध्यकियद्गुणः स्यादिति” लीला०
क्षीरतरङ्गिणी
Sanskrit
शुधँ शुध शौचे
-(अर्थविवरणम्) शौचं नैर्मल्यम्
शुध्यति अशुधत् शोद्धा 79
धातुवृत्तिः
Sanskrit
शुधँ शुध (अर्थः) शौचे
( शुध्यति शुशोध शोद्धा ) इत्यादि शुन्धतीति शपि 73
कृदन्तरूपमाला
Sanskrit
1 {@“शुध शौचे”@} 2 शौचम् = नैर्मल्यम् इति क्षीरस्वामी।
‘शुद्धौ शुन्धति भूवादेः शुधेः शोचे तु शुध्यति।।’ 3 इति देवः।
शोधने, व्यवस्थिते, अन्वेषणे नाशने दृश्यते।
यदाह मनुः ‘वेदाभ्यासेन शुध्यति।’ 4 इति।
‘अत्र नश्यति इत्यर्थः’ इति कुल्लूकभट्टः।
शोधकः-धिका, शोधकः-धिका, शुशुत्सकः-त्सिका, शोशुधकः-धिका
शोद्धा-शोद्ध्री, शोधयिता-त्री, शुशुत्सिता-त्री, शोशुधिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकक्षुध्यतिवत् 5 ऊह्यानि।
6
प्रासङ्गिक्यः
01
=>
(१७३२)
02
=>
(४-दिवादिः-११९१। सक। अनि। पर।)
03
=>
(श्लो। ११७)
04
=>
(११-४६)
05
=>
(३१५)
06
=>
[पृष्ठम्१३०८+ २७]