शुद्धिः (zuddhiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishशुद्धिः [śuddhiḥ], [शुध्-क्तिन्]
Purity, cleanness.
Brightness, lustre
मुक्तागुणशुद्धयो$पि (चन्द्रपादाः) 16.18.
Sanctity, holiness
तीर्थाभिषेकजां शुद्धिमाद्धाना महीक्षितः 1.85.
Purification, expiation, atonement, expiatory act
शरीरत्यागमात्रेण शुद्धिलाभममन्यत 12.1.
A purificatory or expiatory rite.
Paying off or clearing (of expenses).
Retaliation, requital.
Acquittal, innocence (established by trial).
Truth, accuracy, correctness.
Rectification, correction.
Subtraction.
of Durgā.
(in ) Leaving no remainder. -कर purifying, correcting. -कृत्m. a washerman.
पत्रम् a list of errata or corrigenda.
a certificate of purification by penance or atonement.-भृत्
clear, clean.
pious, virtuous.
Apte 1890
Englishशुद्धिः [शुध्-क्तिन्] 1 Purity, cleanness.
2 Brightness, lustre
मुक्तागुणशुद्धयोपि (चंद्रपादाः) R. 16. 18.
3 Sanctity, holiness
तीर्थभिषेकजां शुद्धिमादधाना महीक्षितः R. 1. 85
4 Purification expiation, atonement, expiatory act
शरीरत्यागमात्रणे शुद्धिलाभममन्यत R. 12. 10.
5 A purificatory or expiatory rite.
6 Paying off or clearing (of expenses).
7 Retaliation, requital.
8 Acquittal, innocence (established by trial).
9 Truth, accuracy, correctness.
10 Rectification, correction.
11 Subtraction.
12 N. of Durgā.
Comp.
कर a. purifying, correctng.
पत्रं {1} a list of errata or corrigenda. {2} a certificate of purification by penance or atonement.
भृत् a. {1} clear, clean. {2} pious, virtuous.
Apte Hindi
Hindiशुद्धिः
- शुध् + क्तिन्
"विशुद्धता, स्वच्छता"
शुद्धिः
- शुध् + क्तिन्
"चमक, कान्ति"
शुद्धिः
- शुध् + क्तिन्
"पवित्रता, पुण्यशीलता"
शुद्धिः
- शुध् + क्तिन्
"पवित्रीकरण, प्रायश्चित्त, परिशोधन, प्रायश्चित परक कृत्य"
शुद्धिः
- शुध् + क्तिन्
पवित्रीकरणमूलक या प्रायश्चित्त परक संस्कार
शुद्धिः
- शुध् + क्तिन्
(ऋण) परिशोध
शुद्धिः
- शुध् + क्तिन्
"प्रतिहिंसा, प्रतिशोध"
शुद्धिः
- शुध् + क्तिन्
"छुटकारा, (जांच द्वारा सिद्ध) निर्दोषता"
शुद्धिः
- शुध् + क्तिन्
"सचाई, यथार्थता, याथातथ्यता"
शुद्धिः
- शुध् + क्तिन्
"समाधान, संशोधन"
शुद्धिः
- शुध् + क्तिन्
व्यवकलन
शुद्धिः
- शुध् + क्तिन्
दुर्गा
शुद्धिः
- शुध्+क्तिन्
शेष न छोड़ना
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit शुद्धिः
अपवित्रं वस्तु पवित्रं कर्तुम् अथवा धर्मच्युताय पुनः धर्मप्रवेशार्थं कृतं धार्मिकं कार्यम्।
"अस्मिन् आश्रमे आगतानां जनानां शुद्धिः आवश्यकी।"
स्वच्छता, शौचम्, शुद्धिः, निर्मलता
मलापकरणस्य क्रिया।
"प्रत्येकस्य वस्तुनः स्वच्छता आवश्यकी।"
Tamil
Tamilசு’த்3தி4: : சுத்தத் தன்மை, நிர்மலத்வம், புனிதம், பிராயச்சித்தம், பிரகாசம், சுத்தம் செய்தல்.
अमरकोशः
SanskritWord: शुद्धिः
Root: शुद्धिः
Gender: undefined
Number: undefined
Meaning(s):
⇒ wind
⇒ moon
⇒ holy
⇒ pure
⇒ white
⇒ clear
⇒ lucid
⇒ clean
⇒ bright
⇒ honest
⇒ virtue
⇒ Brahman
⇒ radiant
⇒ glowing
⇒ shining
⇒ innocent
⇒ virtuous
⇒ gleaming
⇒ unsullied
⇒ undefiled
⇒ bona fide
⇒ sexual love
⇒ purification
⇒ ray of light
⇒ brilliantly white
⇒ faithful minister
⇒ judicial acquittal
⇒ fever that attacks pigs
⇒ planet Venus or its regent
⇒ one who has acquitted himself of or discharged
Shloka(s):
3|3|28|2 ► विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥ (नानार्थवर्गः)
3|3|257|2 ► तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु॥ (नानार्थवर्गः)
Synonym(s):
➠ 3|3|28|2 ⇢ शुचिः (शुचि) (पुं) ⇒ wind, moon, holy, pure, white, clear, lucid, clean, bright, honest, virtue, Brahman, radiant, glowing, shining, innocent, virtuous, gleaming, unsullied, undefiled, bona fide, sexual love, purification, ray of light, brilliantly white, faithful minister, judicial acquittal, fever that attacks pigs, planet Venus or its regent, one who has acquitted himself of or discharged
➠ 3|3|28|2 ⇢ शुचिः (शुचि) (स्त्री) ⇒ wind, moon, holy, pure, white, clear, lucid, clean, bright, honest, virtue, Brahman, radiant, glowing, shining, innocent, virtuous, gleaming, unsullied, undefiled, bona fide, sexual love, purification, ray of light, brilliantly white, faithful minister, judicial acquittal, fever that attacks pigs, planet Venus or its regent, one who has acquitted himself of or discharged
➠ 3|3|28|2 ⇢ शुचि (शुचि) (नपुं) ⇒ wind, moon, holy, pure, white, clear, lucid, clean, bright, honest, virtue, Brahman, radiant, glowing, shining, innocent, virtuous, gleaming, unsullied, undefiled, bona fide, sexual love, purification, ray of light, brilliantly white, faithful minister, judicial acquittal, fever that attacks pigs, planet Venus or its regent, one who has acquitted himself of or discharged
➠ 3|3|257|2 ⇢ हा (हा) (अव्य)
Related word(s):
जातिः ➡ शेषः
शब्दकल्पद्रुमः
Sanskritशुद्धिः, (शुथ + क्तिन् ।) दुर्गा । यथा, --“स्मरणाच्चिन्तनाद्वापि शोध्यते स हि पातकात्तेन शु द्धिः समाख्याता देवी रुद्रतनौ स्थिता ॥
”इति देवीपुराणे देवीनिरुक्ताध्यायः ४५ ॥
मार्ज्जना । इति जटाधरः ॥
वैदिककर्म्मार्हत्व-प्रयोजकसंस्कारविशेषः । यथा । शुद्ध्यशुद्ध्योःसंस्काररूपत्वेन एकपुरुषस्यैकदोभयस्थितिर्घटतेअशु द्धेर्भावरूपत्वे शुद्धे स्तदभावरूपत्वे नैतत्विरोधात् । अतएव शङ्खः ।“ततः श्राद्धमशु द्धौ तु कुर्य्यादेकादशे तथा ।कर्त्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥
”अशुद्धौ चतुर्थाहादौ । कथमशुद्धौ श्राद्धंकालाशौचस्याधिकारिविशेषणत्वादत आह-कर्त्तुस्तात्कालिकीति । श्राद्धविधानाक्षेपात्त-न्मात्रनिष्ठा शुद्धिः कल्प्यते । स पुनरशुद्ध एवकर्म्मान्तर एव । इति श्राद्धविवेकः ॥
एवं शुद्धे-र्भावरूपत्वे अशौचस्य तदभावरूपत्वे विरोधः ।तथात्वे अशौचसङ्करोऽपि न स्यात् । एकस्मिन्शु द्ध्यभावरूपे अशौचे सत्यपरस्य तद्रूपस्यतदानीं तत्पुरुषीयशु द्धिरूपप्रतियोग्यन्तरा-भावादनुत्पत्तेः । तस्मात् शुद्ध्यशु द्ध्योर्भावरूप-त्वम् । इति शुद्धितत्वम् ॥
* ॥
अथाशौचिशुद्धिः ।“अघवृद्धिमदाशौचमूर्द्ध्वञ्चेत्तेन शुध्यति ।अथ चेत् पञ्चमीं रात्रिमतीत्य परतो भवेत् ।अघवृद्धिमदाशौचं तदा पूर्व्वेण शुध्यति ॥
”अघवृद्धिमत्तन्तु । सपिण्डजननाशौचापेक्षयास्वपुत्त्रजननाशौचस्य सपिण्डमरणाशौचापेक्षयापितृमातृमर्तृमरणाशौचस्य । * ।“जाते पुत्त्रे पितुः स्नानं सचेलन्तु विधीयते ।माता शुध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः ॥
”शुध्येत् स्पर्शमात्रे उत्तरवाक्ये तथा दर्शनात् । * ।जननाशौचमध्ये तु यद्यपरं जननं स्यात् तदापूर्व्वाशौचव्यपगमे शुद्धिः रात्रिशेषे दिनद्वयेनप्रभाते दिनत्रयेण मरणाशौचमध्ये ज्ञातिमरणेऽप्येवमिति ॥
* ॥
“यस्य यस्य तु वर्णस्य यद्यत् स्यात् पश्चिमंत्वहः ।स तत्र वस्त्रशु द्धिञ्च गृहशुद्धिं करोत्यपि ॥
समाप्य दशमं पिण्डं यथाशास्त्रमुदाहृतम् ।ग्रामाद्बहिस्ततो गत्वा प्रेतस्पृष्टे च वाससी ॥
अन्त्यानामाश्रितानाञ्च त्यक्त्वा स्नानं करोत्यपि ।श्मश्रुलोमनखानाञ्च यत्त्याज्यं तज्जहात्यपि ॥
गौरसर्षपकल्केन तिलतैलेन संयुतः ।शिरः स्नानं ततः कृत्वा तोयेनाचम्य वाग्यतः ॥
वासोयुगं नवं शु भ्रमव्रणं शुद्धमेव च ।गृहीत्वा गां सुवर्णञ्च मङ्गलानि शुभानि च ॥
स्पृष्ट्वा संकीर्त्तयित्वा तु पश्चात् शुद्धो भवेन्नरः ॥
”गृहशुद्धिः प्राक्तनपाकभाण्डपरित्याग उपलेपा-दिना । त्याज्यं त्यागार्हम् ।“अघाहःसु निवृत्तेषु सुस्नाताः कृतमङ्गलाः ।आशुच्याद्विप्रमुच्येत ब्राह्मणान् स्वस्तिवाच्य चस्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद्यदि ।न तु पूर्व्वेण शुद्धिः स्यात् स्वकालेनैव शुध्यतिममानं लघु चाशौचं पूर्व्वेणैव विशु ध्यति ।यदि स्यात् सूतके सूतिर्मृ तके च मृतिर्भवेत् ॥
शेषेणैव भवेच्छुद्धिरहःशेषे द्विरात्रकम् ।मरणोत्पत्तियोगे तु मरणाच्छुद्धिरिष्यते ॥
* ॥
अर्व्वाक् षण्मासतः स्त्रीणां यदि स्यात् गर्भ-संस्रवः ।तदा माससमैस्तासां दिवसैः शुद्धिरिष्यिते ॥
गर्भश्रुत्यां यथामासमचिरे तूत्तमे त्र्यहः ।राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव च ॥
अष्टाहेन तु शूद्रस्य शुद्धिरेषा प्रकीर्त्तिता ।रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ॥
रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ।शुद्धा भर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयोः ।दैवे कर्म्मणि पैत्र्ये च पञ्चमेऽहनि शुध्यति ॥
* ॥
दत्ता नारी पितुर्गेहे सूयते म्रियतेऽथवा ।स्वमशौचं चरेत् सम्यक् पृथक्स्थानव्यवस्थिता ॥
तद्बन्धुवर्गस्त्वेकेन शुध्येत्तु जनकस्त्रिभिः ।यस्तैः सहासनं कुर्य्यात् शयनादीनि चैव हि ।बान्धवो वा परो वापि स दशाहेन शुध्यति ॥
स्त्रीणामसंस्कृतानान्तु त्र्यहात् शुध्यन्तिबान्धवाः ।यथोक्तेनैव कल्पेन शुध्यन्ति हि सनाभयः ॥
* ॥
षण्मासाभ्यन्तरे शूद्रे मृते बाले त्र्यहं विदुः ।अनतीते द्विवर्षे वै मृते शुध्येत्तु पञ्चभिः ॥
बालस्त्वन्तर्दशाहे तु प्रेतत्वं यदि गच्छति ।सद्य एव विशुद्धिः स्यान्नाशौचं नैव सूतकम् ॥
नृणामकृतचूडानामशुद्धिर्नैशिकी स्मृता ।निवृतचूडकानान्तु त्रिरात्राच्छुद्धिरिष्यते ॥
* ॥
दशाहेन सपिण्डास्तु शुध्यन्ति प्रेतसूतके ।त्रिरात्रेण सकुख्यास्तु स्नात्वा शुध्यन्तिगोत्रजाः ॥
शुध्ये द्विप्रो दशाहेन द्वादशाहेन भूमिपः ।वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥
दशमेऽहनि शूद्रस्य कार्य्यं संस्पर्शनं बुधैः ।मासेनैव विशुद्धिः स्यात् सूतके मृतकेऽपि वा ॥
संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनीसुते ।संस्कृते तु त्रिरात्रं स्यादिति धर्म्मो व्यवस्थितः ॥
पित्रोरुपरमे स्त्रीणामूढानान्तु कथं भवेत् ।त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान् शिवः ॥
यदा भोजनकाले तु अशुचिर्भवति द्विजः ।भूमौ निःक्षिप्य तद्ग्रासं स्नात्वा चैव विशु-ध्यति ॥
* ॥
चिकित्सकौ यत् कुरुते तदन्येन न शक्यते ।तस्मात् चिकित्सकस्पर्शे शुद्धो भवति नित्यशः ॥
गर्भिणी सूतिका नक्तं कुमारी च रजस्वला ।यदाशुद्धा तदान्येन कारयेत् क्रियते सदा ॥
* ॥
प्रेतीभूतं द्विजं विप्रो योऽनुगच्छति कामतः ।स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ।एकाहात् क्षत्त्रिये शुद्धिर्वैश्ये च स्याद्द्व्यहेन तु ।शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥
* ॥
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।आचम्यैव तु निस्नेहं गामालभ्यार्कमीक्ष्य वा ॥
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥
यद्यन्नमत्ति तेषान्तु स दशाहेन शुध्यति ।अनदन्नन्नमह्नैव न चेत्तस्मिन् गृहे वसेत् ॥
* ॥
अस्थिसञ्चयनादर्व्वाक् यदि विप्रोऽश्रु पातयेत् ।मृते शूद्रे गृहं गत्वा त्रिरात्रेण विशुध्यति ॥
अस्थिसञ्चयनादूर्द्धं यावन्मासं द्विजातयः ।दिवसेनैव शुद्धिः स्याद्वाससां क्षालनेन च ॥
* ॥
स्वजातेर्दिवसेनैव त्र्यहात् क्षत्रियवैश्ययोः ।स्पर्शं विनानुगमने शूद्रो नक्तेन शुध्यति ॥
* ॥
अजा गावो महिष्यश्च ब्राह्मणी च प्रसूतिका ।दशरात्रेण शुध्यन्ति भूमिष्ठञ्च नवोदकम् ॥
* ॥
उदक्या सूतिका वापि अन्त्यजं संस्पृशेद्यदि ।त्रिरात्रेणैव शुद्धिः स्यादिति शातातपोऽब्र-वीत् ॥
*नवखातजलं गावो महिष्यश्छागयोनयः ।शु ध्यन्ति दिवसैरेव दशभिर्नात्र संशयः ॥
काले नवोदकं शुद्धं न पातव्यन्तु तत्त्र्यहम् ॥
” * ॥
अथ द्रव्यशुद्धिः । ब्राह्मे ।“सुवर्णरूप्यशङ्खाश्मशु क्तिरत्नमयानि च ।कांसायस्ताम्ररैत्यानि त्रपुसीसमयानि च ॥
निर्लेपानि विशु ध्यन्ति केवलेन जलेन तु ।शुद्रोच्छिष्टानि शुध्यन्ति त्रिधाक्षाराम्ल-वारिभिः ॥
सूतिकाशवविण्मूत्ररजस्वलाहतानि च ।प्रक्षेप्तव्यानि तानग्नौ यच्च यावत् सहेदपि ॥
”रैत्यं पित्तलम् । त्रपु रङ्गम् । यत्पात्रं यावत् ।कालमग्निं सहेत तत् पात्रं प्रक्षालनान्तरं ।तावत्तापनीयमित्यर्थः ॥
* ॥
बृहस्पतिः ।“अम्भसा हेमरत्नायः कांस्यं शुध्येत भस्मना ।अम्लैस्ताम्रञ्च रैत्यञ्च पुनःपाकेन मृण्मयम् ॥
”राजधर्म्मे ।“पज्जलोच्छिष्टकांस्यं यत् गवाघ्रातमथापि वा ।गण्डूषोच्छिष्टममि च विशुध्येद्दशभिस्तु तत् ॥
”दशभिर्दिनैरिति शेषः । तथा च ।“कांस्ये न धावयेत् पादौ यत्र स्यादपि भोजन-मिति ।”यत्र पात्रान्तरे भोजनं तत्र श्रुतस्यैव तस्यसाहचर्य्यात् कांस्यवच्छुद्धिः ॥
* ॥
बौधायनः ।“भिन्नकांस्ये त योऽश्नीयात् नद्यां स्नात्वाजपेद्दिजः ।गायत्त्र्यष्टसहस्रन्तु एकभक्तस्ततः शुचिः ॥
”देवलः । ताम्ररजतसुवर्णाश्मस्फटिकानां भिन्न-मभिन्नम् । इति भिन्नत्वेऽपि न दोष इत्यर्थः ॥
* ॥
विष्णुः । शारीरैर्मलैः सुराभिर्मद्यैर्व्वा यदुपहतंतदत्यन्तोपहतं सर्व्वं लौहभाण्डमग्नौ प्रतप्तंशध्ये त । मणिमयमश्ममयमब्जमयञ्च सप्तरात्रंमहीखननेन शृङ्गदन्तास्थिमयञ्च तक्षणेन दारुमयं मृण्मयं जह्यादिति । लौहपद सुवर्णाद्य-ष्टकपरम् ॥
* ॥
मनुः ।“त्रीणिदेवाः पवित्राणि ब्राह्मणानामकल्पयन्अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥
”अदृष्टमुपघातशङ्कादिभिरज्ञातम् । अज्ञातञ्चसदा शुचि इति याज्ञवल्क्यैकवाक्यत्वात् ।वाचेति उपघातशङ्कायां पवित्रं भवत्वितिब्राह्मणैर्यद्वाचा प्रशस्यते इति शूलपाणिमहा-महोपाध्यायकुल्लूकभट्टौ ॥
* ॥
शातातपः ।“गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः ।अमीमांस्यानि शौचानि स्त्रीषु वालातुरेषु च ॥
”मनुः ।“मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः ।रजो भूर्व्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥
”बौधायनः ।“अदुष्टाः सन्तताधारा वातोद्धूताश्च रेणवः ।आकराः शुचयः सर्व्वे वर्जयित्वा सुराकरम् ॥
”शङ्खलिखितौ । आकरद्रव्याणि प्रोक्षितानिशुचीनि ॥
* ॥
यमः ।“आममांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः ।म्लेच्छभाण्डस्थिता दुष्टा निष्क्रान्ताः शुचयःस्मृताः ॥
”विष्णुधर्म्भोत्तरे ।“मुखवर्जञ्च गौः शुद्धा मार्ज्जारश्चक्रमे शुचिः ।पुष्पाणाञ्च फलानाञ्च प्रोक्षणात् शुद्धिरिष्यते ॥
”अत्रिः ।“मक्षिका सन्तताधारा भूमिस्तोयं हुताशनः ।मार्ज्जारश्चापि दर्व्वी च मारुतश्च सदाशुचिः ॥
”बौधायनः । अनेकोद्वाह्ये दारुशिले भूमिसमेइष्टकाश्च सङ्कीर्णीभूताः इति । सङ्कीर्णीभूताःपरस्परसम्बद्धाः ॥
* ॥
विष्णुः । प्रोक्षणेन पुस्तकंइति ॥
* ॥
शातातपः ।“तापनं घृततैलानां प्लावनं गोरसस्य च ।तन्मात्रमुद्धृतं शुध्येत् कठिनन्तु पयो दधि ।अविलीनं तथा सर्पिर्व्विलीनं श्रपणेन तु ॥
”अविलीनं कठिनम् ॥
* ॥
मनुः ।“द्रव्याणाञ्चैव सर्व्वेषां शुद्धिरुत्प्लवनं स्मृतम् ।प्रोक्षणं संहतानाञ्च द्वारवाणाञ्च तक्षणम् ॥
”इदन्तूच्छिष्टाद्यल्पदोषे । उत्प्लवनं वस्त्रान्तर-निर्व्वापणेन कीटाद्यपनयनम् ॥
* ॥
शातातपः ।“क्लीवाभिशप्तपतितैः सूतिकोदक्यनास्तिकैः ।दृष्टं वा स्यात् यदन्नन्तु तस्य निष्कृ तिरुच्यते ॥
अभ्युक्ष्य किञ्चिदुद्धृत्य भुञ्जीताप्यविशङ्कितः ॥
* ॥
देवलः ।“चाण्डालेन शुना वापि दृष्टं हविरयज्ञियम् ।विडालादिभिरुच्छिष्टं दुष्टमन्नं विवर्जयेत् ॥
”अन्यत्र हिरण्योदकस्पर्शादिति ॥
* ॥
मनुः ।“अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥
”शुद्धिरित्यनुवृत्तौ विष्णुः । गुडानामिक्षुविका-राणां प्रभूतानां वाय्वग्निदानेन सर्व्वलवणाना-ञ्चेति ॥
* ॥
अङ्गिराः ।“यथा यतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताःशूद्राद्विप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि ॥
”प्रविष्टं स्वत्वापादकप्रतिग्राहादिनेति शेषः ॥
“सकुणपं सकर्द्दमं तेभ्यस्तोयमपास्य तत् ।प्रक्षिपेत् पञ्चगव्यञ्च समन्त्रं सर्व्वशु द्धिकृत् ॥
अपास्य कुणपं तेभ्यो बहुतोयेभ्य एष वा ।शतं षष्ट्यथवा त्रिंशत् तोयकुम्भान् समुद्धरेत् ॥
पञ्चनव्यं ततस्तेषु प्रक्षिपेन्मन्त्रपूर्व्वकम् ॥
”शतादि अल्पत्वाद्यपेक्षया अत्यल्पस्य सर्व्वो-द्धारणाभिधानात् ॥
* ॥
बृहन्मनुः ।“श्वशूद्रपतिताश्चान्त्या मृताश्चे द्विजमन्दिरे ।शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा ॥
दशरात्राच्छुनि प्रेते मासात् शूद्रे भवेच्छुचिः ।द्वाभ्यान्तु पतिते गेहे अन्त्ये मासचतुष्टायात् ।अन्यन्त्ये वर्जयेद्गेहमित्येवं मनुरव्रवीत् ॥
”यमः ।“द्विजस्व मरणे वेश्म विशुध्यति दिनत्रयात् ।दिनैकेन बहिर्भुमिरग्निक्षेपणलेपनैः ॥
” * ॥
यथोक्तकालानन्तरं कर्त्तव्यमाह सम्बर्त्तः ।“गृहशुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषिते ।प्रोत्सृज्य मृण्मयं पात्रं सिद्धमन्नं तथैव च ॥
गृहादपास्य तत् सर्व्वं गोमयेनानुलेपयेत् ।गोमयेनानुलिप्याथ छागेनाघ्रापयेद्बुधः ॥
व्राह्मणैर्म्मन्त्रपूतैश्च हिरण्यकुशवारिभिः ।सर्व्वमभ्यु क्षयेद्वेश्म ततः शुध्यत्यसंशयः ॥
”मन्त्रानादेशे गायत्त्री ॥
* ॥
देवलः ।“पञ्चधा वा चतुर्धा वा भूरमेध्या विशुध्यति ।दुष्टा द्विधा त्रिधा वापि शुध्यते मलिनैकधा ॥
दहनं खननं भूमेरुपलेपनवापने ।पर्जन्यवर्षणञ्चापि शौचं पञ्चविधं स्मृतम् ॥
प्रसूते गर्भिणी यत्र म्रियते यत्र मानुषः ।चाण्डालैरुषितं यत्र यत्र विन्यस्यते शवः ॥
विण्मुत्रोपहतं यच्च कुणपो यत्र दृश्यते ।एवं कश्मलभूयिष्ठा भूरमेध्यातिकथ्यते ॥
कृमिकीटपदक्षेपर्दूषिता यत्र मेदिनी ।त्रप्सया कर्षणैः क्षिप्ता वान्तैर्व्वा दुष्टतां व्रजेत् ॥
नखदन्ततनूजत्वक्तुषपांशुरजोमलैः ।भस्मपङ्कतृणैर्व्वापि प्रच्छन्ना मलिना भवेत् ॥
”वापनं मृदन्तरेण पूरणम् । त्रप्सा घनीभूत-श्लेष्मादि । इति शुद्धितत्त्वम् ॥
* ॥
अपिच ।याज्ञवल्क्य उवाच ।“द्रव्यशुद्धिं प्रवक्ष्यामि तान्निबोधत सत्तमाः ।सौवर्णराजताब्जानां शाकवज्रादिचर्म्मणाम् ॥
पात्राणां चमसानाञ्च वारिणा शुद्धिरिष्यते ।उष्णवार्भिः श्रुक्श्रुवयोर्धान्यादेः प्रोक्षणेन च ॥
तक्षणात् दारुशृङ्गादेर्यज्ञपात्रस्य मार्जनात् ।सोष्णैरुदकगोमूत्रैः शुध्यत्याविककैशिकम् ॥
भैक्षं योषिन्मु खं पुण्यं पुनः पाकान्महीमयम् ।गोघ्राते च तथा केशमक्षिकाकीटदूषिते ।भस्मक्षेपाद्विशुद्धिः स्याद्विशुद्धिर्मार्जनादिना ॥
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।भस्माद्भिर्लोहकांस्यानामज्ञातञ्च सदा शुचि ॥
अमेध्याक्तस्य मृत्तोयैर्गन्धलेपापकर्षणात् ।शुचि गोतृप्तिदं तोयं प्रकृतिस्थं महीगतम् ॥
तथा मांसं श्वचाण्डालक्रव्यदादिनिपातितम् ।रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः ॥
अश्वाजविप्र षो मेध्यास्तथा चामलबिन्दवः ।स्नात्वा पीत्वा क्षुते सुप्ते भुक्ता रथ्योपसर्पणे ॥
आचान्तः पुनराचामेत् वासो व्युत्परिधायच ।क्षुते निष्ठीविते स्वापे परिधानेऽश्रुपातने ॥
पञ्चस्वेतेषु नाचामेत् दक्षिणं श्रवणं स्पृशेत् ।तिष्ठन्त्यग्न्यादयो देवा विप्रकर्णे तु दक्षिणे ॥
”इति गारुडे ९७ अध्यायः ॥
अन्यच्च ।“मणिवस्त्रप्रबालानां तद्वन्मुक्ताफलस्य च ।शैलदारुमयानाञ्च तृणगुल्मौषधस्य च ॥
शाकधान्याजिनानाञ्च संहतानाञ्च वाससाम् ।वल्कलानामशेषाणामम्बुना शुद्धिरिष्यते ॥
सस्नेहानामथोष्णेन तिलकल्केन शोधनम् ।कार्पासिकानां वस्त्राणां शुद्धिः स्यात् सहभस्मना ॥
नागदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते ।पुनःपाकेन भाण्डानां मृण्मयानाञ्च शुद्धता ॥
शुद्धं भक्षं कारुहस्तः पण्यं योषिन्मु कं तथा ।रथ्यागतमविज्ञातं दासवर्गेण यत् कृतम् ॥
वाक्यशस्तं चिरानीतमनेकान्तरितं लघु ।चेष्टितं बालवृद्धानां बालस्य तु मुखं शुचि ॥
म्ले च्छानामपि गोशालास्तनन्धयसुताः स्त्रियःवाग्विप्रुषो द्विजेन्द्राणां पाठे वागम्बुबिन्दवः ॥
भूमिर्विशुध्यते खातदाहगोक्रमसेचनैः ।लेपादुल्ले खनात् सेकात् वेश्मसम्मार्ज्जनाज्जलात्केशकीटावपन्नेऽन्ने गोघ्राते मक्षिकान्विते ।मृद्वारिभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये ॥
उडम्बराणाञ्चाम्लेन क्षारेण त्रपुसीसयोः ।कांस्यानां भस्मना शुद्धिस्तोयाच्छुद्धिर्द्रवस्य च ॥
अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ।अन्येषामपि तद्द्रव्यैः शुद्धिर्गन्धावहारतः ॥
मातुः प्रसवने वत्सः शकुनिः फलपातने ।गर्द्दभो भारहारित्वे श्वा मृगग्रहणे शुचिः ॥
रथ्याकर्द्द मतोयानि नावः पथि तृणानि च ।मारुतेनैव शुध्यन्ति पक्वेष्टरचितानि च ॥
शृतं द्रोणाढकस्यान्तममेध्याभिप्लु तं भवेत् ।अग्रमुद्धृत्य सन्त्याज्यं शेषस्य प्रोक्षणं स्मृतम् ॥
उपवासं त्रिरात्रं वा दूषितान्नस्य भोजने ।अज्ञाते ज्ञातपूर्व्वे च नैव शुद्धिर्व्विधीयते ॥
उदक्याश्वाननग्नांश्च सूतिकान्त्यावशायिनः ।स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥
सस्ने हमस्थि संस्पृश्य सवासाः स्नानमाचरेत् ।आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य च ॥
”इति वामनपुराणे १४ अध्यायः ॥
अन्यत् मार्कण्डेयपुराणे सदाचाराध्याये द्रष्ट-व्यम् ॥
जलशुद्धिर्यथा, --“गङ्गे च यमुने चैव गोदावरि सरस्वति ।नर्म्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
”भूतशुद्धिस्तु तच्छब्दे द्रष्टव्या ॥
* ॥
आसन-शुद्धिर्यथा । “एते गन्धपुष्पे आधारशक्तिकमला-सनाय नमः । आसनमन्त्रस्य मेरुपृष्ठ ऋषिःसुतलं छन्दः कूर्म्मो देवता आसनपरिग्रहेविनियोगः ।पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृतात्वञ्च धारय मां नित्यं पवित्रं कुरु चासनम् ॥
”मण्डपशुद्धिर्यथा, --“पञ्चगव्येन मूलेन मण्डपं परिशोधयेत् ॥
”गौतमीये ।“शञ्चगव्येन तद्गेहं मण्डलञ्च विशोधयेत् ॥
”पञ्चगव्यप्रमाणन्तु तत्रैव ।“पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते ।घृतञ्च पलमात्रं स्यात् गोमयं तोलकद्वयम् ॥
दधि प्रसृतिमात्रं स्यात् पञ्चगव्यमिदं स्मृतम् ।अथवा पञ्चगव्यानां समानो भाग इष्यते ॥
मूलमन्त्रेण संमन्त्र्य तेनैव परिशोधयेत् ।तेन सर्व्वविशुद्धिः स्यात् सर्व्वपापनिकृन्तनम् ॥
”इति तन्त्रसारः ॥
* ॥
ग्रहशुद्धिर्गोचरशब्दे द्रष्टव्या ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
