| YouTube Channel

शुद्धान्तपालकः (zuddhAntapAlakaH)

 
शब्दकल्पद्रुमः
Sanskrit
शुद्धान्तपालकः,
पुं,
(शुद्धान्तं पालयतीति ।पालि + ण्वुल् ।) अन्तःपुररक्षकः तत्पर्य्यायः ।गृहदौवारिकः कक्षारक्षकः रात्रि-हिण्डकः इति शब्दमाला
तस्य लक्षणंयथा, --“वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः शुचिः ।राज्ञामन्तपुराध्यक्षो विनीतश्च तथेष्यते
”इति मात्स्ये १८९ अध्यायः