| YouTube Channel

शुद्धमांसं (zuddhamAMsaM)

 
शब्दकल्पद्रुमः
Sanskrit
शुद्धमांसं,
क्ली,
(शुद्धं मांसं यस्य ।) मांसव्यञ्जन-विशेषः यथा, --“पाकपात्रे घृतं दद्यात्तैलं वा तदभावतः ।तत्र हिङ्गुहरिद्राञ्च भर्ज्जयेत्तदनन्तरम्
छागादेरस्थिरहितं मांसं तत् खण्डखण्डितम्धौतनिर्गालितं तस्मिन् घृते तद्भर्ज्जयेच्छनैः
सिद्धयोग्यं जलं दत्त्वा लवणञ्च पचेत् ततः ।सिद्धे जलेन संपिष्य वेसवारं परिक्षिपेत्
द्रव्याणि वेसवारस्य नागवल्ली दलानि हि ।तण्डुलाश्च लवङ्गानि मरिचानि समासतः ।अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम्
शुद्धमांसं परं वृष्यं वल्यं रुच्यञ्च बृंहणम् ।त्रिदोषशमनं श्रेष्ठं दोपणं धातुवर्द्धनम्
”इति भावप्रकाशः