| YouTube Channel

शुच्य (zucya)

 
शब्दसागरः
English
शुच्य(इ)शुच्यी r. 1st cl. (शुच्यति)
1. To bathe.
2. To distil.
3. To press
or squeeze out.
4. To churn.
5. To pain or distress.
Wilson
English
शुच्य (ई) शुच्यी r. 1st cl. (शुच्यति)
1 To bathe.
2 To distil.
3 To express or squeeze out.
4 To churn.
5 To pain or distress.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शुच्य्
मूलधातुः:
शुच्य
धात्वर्थः:
स्नान-पीडन-सुरा-सन्धानेषु
गणः:
भ्वादिः
कर्मकत्वं:
स्नाने अकर्मकः, अन्यत्र सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
शुच्यति
धातुप्रदीपः
Sanskrit
शुच्यँ शुच्य अभिषवे
- शुच्यति चुच्य इत्यपि पठन्ति ।। 514 ।।
शब्दकल्पद्रुमः
Sanskrit
शुच्य, अभिषवे इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सक०-च-सेट् निष्ठायामनिट् ।)तालव्यादिः पञ्चमस्वरी तालष्यवर्गाद्योपधः ।ई, शुक्तः यद्वा, यान्तोऽयमित्यके अभिषवःस्नानं मन्थनं पीडनं सन्धानञ्च इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
शुच्य स्नाने अक० अभिषवे मन्यने पीडने सन्धाने
सक०
भ्वा०
पर०
सेट् ईदित् निष्ठा अनिट् शुच्यति अशुच्यीत्
धातुवृत्तिः
Sanskrit
शुच्यँ शुच्य (अर्थः) अभिषवे
अवययानां शिथिलीकरणं सुरायाः संधानं वाऽभिषवस्तथा सोममभिपुणोत्यृजीषमभिषुणोतीति सुराप्रकरणे संधानं स्यादभिषव इति अभिषवः स्नानमिति चन्द्रः (शुच्यति शुशुच्य शुच्यिता शुशुच्यिषति शोशुच्यते ) "हलो यमाम्'' इति यलोपपक्षेऽतो लोप"यस्य हलः'' इति चार्धधातुके यशब्दलोप इति चाल्लोपस्य असिद्धत्वात् स्थानिवत्त्वाद्वा गुणाभावे (शोशुचिता) यङो लोपाभावे तु (शोशुच्यिता शोशुच्यीति शोशोक्ति) वलिलोपे लघूपघ्ज्ञत्वाद्गुणः यङ्लुकोनैमित्तिकत्वाद्गुणस्यानार्द्धधातुकनमित्तत्वाद्वा "न धातुलोपः'' इति निषेधाभावः (शोशुकः शोशुग्धि ) हेर्धित्वम् "चोः कुः''इति चकारस्य ककारे "झलां जश् झशि'' इति गकारः अशोशुच्युरित्यत्र वलि लोपान्नित्यत्वाज्जुस्भावः (शुच्ययति, अशुशुच्यत् शुच्यित्वा, शुच्यितः ) शुक्तिरित्यत्र "तितुत्र'' इत्यनिट्त्वम् चुच्य इत्यपि पठन्तिति मैत्रेयः चुच्यतीत्यादि 508
कृदन्तरूपमाला
Sanskrit
1 {@“शुच्य अभिषवे”@} 2 ‘अभिषवः-द्रवेणाद्रवणम्, परिवासनम्’ इति स्वामी।
‘--स्नानम्’ इति चान्द्राः।
‘शुच्यी--’ इति क्षीरस्वामी।
‘चुच्यी--’ इति दुर्गसम्मतः पाठः।
‘चुच्य’ इत्यपि पठति मैत्रेयः।
“अवयवानां शिथिलीकरणं, सुरायाः सन्धानं वाऽभिषवः
यथा ‘सोममभिषुणोत्यृजीषमभिषुणोति’ इति।
सुराप्रकरणे ‘सन्धानं स्यादभिषवः’ इति” माधवः।
‘अभिषवः = निष्पीड- नस्नपनसुरासन्धानस्नानादिः’ इति धातुकाव्यव्याख्या 3।
शुच्यकः-च्यिका, शुच्यकः-च्यिका, शुशुच्यिषकः-षिका, शोशुच्यकः-च्यिका
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकचुच्यतिवत् 4 ऊह्यानि।
5 शुक्तिः, 6 प्रशुच्य।
प्रासङ्गिक्यः
01
=>
(१७२६)
02
=>
(१-भ्वादिः-५१३। सक। सेट्। पर।)
03
=>
(१-६६)
04
=>
(५३४)
05
=>
[[१। अत्र ‘लोपो व्योर्वलि’ (६-१-६६) इति वलिलोपे ‘तितुत्र--’ (७-२-९) इत्यादिना इण्निषेधे, कुत्वे रूपम्।]]
06
=>
[[आ। ‘प्रशुच्य सोमं कृतहर्यतैर्नुतं समालितं फुल्लसरोजमालया।।’ धा। का। १-६६।]]