| YouTube Channel

शुङ्गाकर्म्म (zuGgAkarmma)

 
शब्दकल्पद्रुमः
Sanskrit
शुङ्गाकर्म्म, [न्]
क्ली,
पुंसवनसंस्कारविशेषः यथा“अग्निस्तु मारुतो नाम गर्भाधाने विधीयते ।पुंसवने चन्द्रनामा शुङ्गाकर्म्मणि शोभनः
”इति तिथ्यादितत्त्वम्
तत्कर्म्मानुष्ठानं यथा शोभननामानमग्निंसंस्थाप्य विरूपाक्षजपान्तां कुशण्डिकां समाप्यवटवृक्षस्य पूर्व्वोत्तरशाखायां फलयुगलशालिनींकृमिभिरनुपहतां वटशुङ्गा यवानां माषाणांवा त्रिभिस्त्रिभिर्गुडकैः सप्तवारान् सप्तभिर्मन्त्रैःक्रीणीयात् सप्तानां मन्त्राणामृष्यादयः साधा-रणाः प्रजापतिरृषिः सोमवरुणवसुरुद्रा-दित्यमरुद्विश्वेदेवादेवता न्यग्रोधशुङ्गापरिक्रयणेविनियोगः ओँ यद्यसि सौमी सोमाय त्वाराज्ञे परिक्रीणामि इति गुडकत्रयेण एकंपरिक्रयणम्
यद्यसि वारुणी वरुणाय त्वाराज्ञे परिक्रीणामि इति गुडकत्रयेण द्वितीयंपरिक्रयणम्
यद्यसि वसुभ्यो वसुभ्यस्त्वा राज्ञेपरिक्रीणामि इति गुडकत्रयेण तृतीयं परि-क्रयणम्
यद्यसि रुद्रे भ्यो रुद्रेभ्यस्त्वा राज्ञेपरिक्रीणामि इति गुडकत्रयेण चतुर्थं परि-क्रयणम्
यद्यसि आदित्येभ्यः आदित्येभ्यस्त्वाराज्ञे परिक्रीणामि इति गुडकत्रयेण पञ्चमंपरिक्रयणम्
यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा राज्ञेपरिक्रीणामि इति गुडकत्रयेण षष्ठं परि-क्रयणम्
यद्यसि विश्वे भ्यो देवेभ्यो विश्वेभ्योदेवेभ्यस्त्वा राज्ञे परिक्रीणामि इति गुडक-त्रयेण सप्तमं परिक्रयणम्
ततः क्रीतां वट-शुङ्गां अनेनं मन्त्रेण वृक्षादानयेत् प्रजापति-ऋषिरोसध्यो देवतान्यग्रोधशुङ्गाच्छेदने विनि-योगः ओषधयः सुमनसो भूत्वा अस्या वीर्य्यसमाधत्त इयं कर्म्म करिष्यति ततस्तां वट-शुङ्गां तृणेन वेष्टितामन्तरीक्षेणानीय अन्तरीक्षेस्थापयेत् ततः कृतशोभननाम्रो अग्नेरुत्तरतःप्रक्षालितशिलायां ब्रह्मचारी कुमारी भगवतीवा श्रुतस्वाध्यायशीलो वा ब्राह्मणः आचारतोनीहारजलेनानावृतलोष्ट्रे पुनः पुनः पेषयेत् ।ततोऽग्नेः पश्चिमतः उत्तराग्रेषु कुशेषु पश्चि-माभिमुखीं बधूं पूर्व्वदिगानतमस्तकां कृत्वापृष्ठदेशे स्थितः पतिर्दक्षिणपाणेरङ्गुष्ठानामि-काभ्यां वस्त्रबद्धां पेषितवटशुङ्गां गृहीत्वा गर्भ-वत्या दक्षिणनासाविवरे शुङ्गारसं निक्षिपतिअनेन मन्त्रेण प्रजापतिरृ षिरनुष्टुप्च्छन्दो-ऽग्नीन्द्रबृहस्पतयो देवता न्यग्रोधशुङ्गारसस्यदाने विनियोगः ।पुमानग्निः पुमानिन्द्रः पुमान् देवो बृहस्पतिः ।पुमांसं पुत्त्रं विन्दस्ब तं पुमाननुजायताम्
ततो महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणांघृताक्तां समिधं तूणीमग्नौ हुत्वा प्रकृतं कर्म्मसमाप्य उदीच्यं शाव्यायनहोमादिवामदेव्य-गानान्तं कर्म्म समाप्य कर्म्मकारयितृब्राह्मणायदक्षिणां दद्यात् इति भवदेवः