| YouTube Channel

शुक्लार्म्म (zuklArmma)

 
शब्दकल्पद्रुमः
Sanskrit
शुक्लार्म्म, [न्]
क्ली,
नेत्ररोगभेदः यथा, अथशुक्लभागजा रोगाः तेषां नामानि संख्या-ञ्चाह ।“प्रस्तारिशुक्लक्षतजाधिमांस-स्नाय्वर्म्मसंज्ञाः खलु पञ्च रोगाः ।स्याच्छुक्तिका सार्ज्जुनपिष्टकाख्याजालं शिराणां पिडिकाश्च तासाम्
रोगा बलासग्रथितेन सार्द्ध-मेकादशोक्ताः खलु शुक्लभागे
”तेषु प्रस्तार्य्यर्मणो लक्षणमाह ।“प्रस्तार्य्यर्म्म तनुस्तीर्णं श्यावरक्तनिभं सितम् ।”तनुः पुत्तली स्तीर्णं विस्तीर्णम् श्यावरक्त-मित्यत्र विकल्पो बोद्धव्यः
*
शुक्लार्म्माह ।“सुश्वेतं मृदु शुक्लार्म्म शुक्लं तद्वर्द्धते चिरात्
”रक्तार्म्माह ।“पद्माभं मृदुरक्तार्म्म यन्मांसं चीयते सिते ।”पद्माभं पर्णेन रक्तमित्यर्थः चीयते उपचीयते
अधिमांसार्म्माह ।“पृथ मृद्वधिमांसार्म्म बहुलञ्च यकृन्निभम् ।”पृय विस्तीर्णम् बहुलं पुष्टम् यकृन्निभं ईषत्कृष्णलोहितम्
*
स्नाय्वर्म्माह ।“स्थिरं प्रसारि मांसाद्यं शुक्लं स्नाय्वर्म्म पञ्च-मम् ।”स्थिरं कठिनम् शुक्लं स्रावरहितम्
*
शुक्तिमाह ।“श्यावाः स्युः पिशितनिभाश्च बिन्दवो यंशुक्लाभाः सितनिचिताः शुक्तिसंज्ञः ।”श्यावा इत्यादिवर्णत्रये विकल्पो बोद्धव्यः
*
अर्ज्जुनमाह ।“एको यः शशरुधिरप्रभस्तु बिन्दुःशुक्लस्थो भवति तमर्ज्जुनं वदन्ति
”पिष्टकमाह ।“श्लेष्ममारुतकोपेन शुक्ले मांसं समुन्नतम् ।पिष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम्
”पिष्टवत् श्वेतम्
*
शिराजालमाह ।“जालाभः कठिनः शिरोऽरुणः शिराणांमन्तानो भवति शिरादिजालसंज्ञः
”गिरादिजालसंज्ञः शिराजालसंज्ञः
*
शिरापिडिकामाह ।“गुक्रस्थाः सितपिडिकाः शिरावृता या-स्ता विद्यादसितसमोपजाः शिराजाः ।”वलासग्रथितमाह ।“कांस्याभोऽमृदुरय वारिबिन्दुकल्पोविज्ञेयो नयनसिते वलाससंज्ञः ।”कांस्याभः श्रेत इत्यर्थः अमृदुः कठिनः ।वारिबिन्दुकल्पः एतेन मनागुन्नतत्वं बोध्यते ।वलाससंज्ञः वलासग्रथितसंज्ञः क्वचिदेकदेशे-नापि समुदयावगमात् यथा भीमो भीमसेनइति अतएव सुश्रुते नामसंग्रहे वलास-ग्रथितपदं निर्द्दिष्टम् इति भावप्रकाशः