| YouTube Channel

शुक्लपक्षः (zuklapakSaH)

 
Apte Hindi
Hindi
शुक्लपक्षः
पुं*
शुक्ल-पक्षः -
मास का सुदी पक्ष
Wordnet
Sanskrit
Synonyms:
शुक्लपक्षः
noun
चान्द्रमासे प्रतिपदादिपौर्णमास्यन्तः पञ्चदशतिथ्यात्मकः पक्षः।
"अद्य शुक्लपक्षस्य पञ्चमी अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
शुक्लपक्षः,
पुं,
(शुक्लः पक्षः ।) सितपक्षः चन्द्र-सम्बन्धि-वृद्ध्यनुकूल-पञ्चदशकलाक्रिया-प्रचयःतत्पर्य्यायः ।“सितस्त्वापूर्य्यमाणः स्यात् शुक्लश्च विशदः शुचिशुक्लपक्षः कृष्णपक्षो बहुलो वदि स्मृतः
”इति राजनिर्घण्टः
तु शुक्लप्रतिपदादिर्पौर्णमास्यन्तपञ्चदश-तिथ्यात्मकः यथा, --“तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि ।चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः
”इति तिथ्यादितत्वम्
*
कर्म्मविशेषे तत्रोदयगामितिथेर्ग्राह्यत्वं यथा, --“शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।कृष्णपक्षे तिथिर्ग्राह्मा यस्यामस्तमितो रविः
”इति विष्णुधर्म्मोत्तरम्
संस्कारकर्म्मणः शुक्लपक्षकर्त्तव्यता यथा ।आश्वलायनः उदगयने आपूर्य्यमाणे पक्षेकल्याणे नक्षत्रे चौडकर्म्मोपनयनगोदान-विवाहाः विवाहः सार्व्वकालिक इत्येके
*
विद्यारम्भस्य शुक्लपक्षकर्त्तव्यता यथा मदन-पारिजाते ।“रवेर्गुरोर्भृगोर्लग्ने तत्स्थेऽर्केऽपीन्दुवृद्धितः ।गुर्व्वर्केन्दूडुशुद्धौ विद्यारम्भः प्रशस्यते
*
पुष्करिण्यारम्भस्य शुक्लपक्षकर्त्तव्यता यथा ।मत्स्यपुराणे ।“प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे
”इत्यादि
देवप्रतिष्ठायाः शुक्लपक्षकर्त्तव्यता यथा व्यव-हारसमुच्चये ।“प्रतिष्ठा सर्व्वदेवानां केशवस्य विशेषतः ।उत्तरायण आपन्ने शुक्लपक्षे शुभे दिने
”गृहारम्भगृहप्रवेशयोः शुक्लपक्षकर्त्तव्यता यथा ।मत्स्यपुराणे ।“शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतो भयम्
”इति ज्योतिस्तत्त्वम्
नवान्नश्राद्धस्य शुक्लपक्षकर्त्तव्यता यथा ।आश्विनाधिकारे ।“शुक्लपक्षे नवं धान्यं पक्वं ज्ञात्वा सुशोभनम् ।गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरम् ।तेन देवान् पितॄंश्चैव तर्पयेदर्च्चयेत्तथा
”अपि ।“वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः
”इति तिथ्यादितत्त्वम्