| YouTube Channel

शुक्लः (zuklaH)

 
Apte Hindi
Hindi
शुक्लः
पुं*
- -
सफेद रंग
शुक्लः
पुं*
- -
चांद्रमास का उज्ज्वल या सुदी पक्ष
शुक्लः
पुं*
- -
शिव
Wordnet
Sanskrit
Synonyms:
वज्रः, नागरी, वज्रा, शतगुप्ता, स्नुह्, नेत्रारिः, बहुशाखः, बहुशालः, वज्रवृक्षः, शुक्लः, सिहुण्डः, पेषणः, महातरुः, तीक्ष्णतैलः, बाहुशालः, सुधा
noun
क्षुपविशेषः
"वज्रः कण्टकयुक्तः वर्तते"
वैजयन्तीकोषः
Sanskrit
Word: शुक्लः
Root: शुक्ल
Gender: पुं
Number: all
अर्थः चान्द्रमासस्य प्रथमः पक्षः शुक्लपक्षः
पूर्वपक्षः
Meaning(s):
First (white) paksa of a lunar month
Shloka(s):
2|1|79|1 पक्षोऽर्धमासः पूर्वस्तु शुक्लाख्योऽन्योऽसिताह्वयः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|79|1 शुक्लः (शुक्ल) (पुं) First (white) paksa of a lunar month चान्द्रमासस्य प्रथमः पक्षः शुक्लपक्षः
पूर्वपक्षः
Related word(s):
अवयव_अवयवीसंबन्धः मासः
परा_अपरासंबन्धः पक्षः
जातिः कालः
शब्दकल्पद्रुमः
Sanskrit
शुक्लः,
पुं,
(शुच + रन् रस्य लः ।) वर्णविशेषःसादा इति भाषा तत्पर्य्यायः शुभ्रः शुचिः-३ श्वेतः विशदः श्येतः पाण्डरः अव-दातः सितः गौरः १० वलक्षः ११धवलः १२ अर्ज्जुनः १३ इत्यमरः
श्वेता १४श्येता १५ श्येनी १६ विषदः १७ मिता १८अवलक्षः १९ इति तट्टीका
शितिः २०पाण्डुः २१ इति शब्दरत्नावली
रामः २२खरुः २३ इति जटाधरः
शक्रयोगः इतिमेदिनी
श्वेतेरण्डः इति राजनिर्घण्टः
शुक्लपक्षः यथा षट्त्रिंशन्मतम् ।“तत्र पक्षावभौ मासे शुक्लकृष्णौ क्रमेण हि ।चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः
”इति तिथ्यादितत्त्वम्
शुक्लगुणयुक्ते, त्रि
*
शुक्लवस्तूनि यथा, --“सुधांशूच्चैःश्रवाः शम्भुकीर्त्तिज्योत्स्नाशर-द्घनाः ।प्रासादसौधतगरमन्दारद्रुहिमाद्रयः
सूर्य्येन्दुकान्तकर्पूरकरम्भा रजतं हली ।निर्मोकभस्महिण्डीरचन्दनं करका हिमम्
हारोर्णनाभतन्त्वस्थि स्वर्गङ्गेभरदाभ्रकम् ।शेषाहिः शर्करा दुग्धं दधि गङ्गा सुधा जलम्
मृणालसिकताहसवककैरवचामरम् ।रम्भागर्भं पुण्डरीककेतकीशङ्खनिर्झराः
लोध्रसिंहध्वजच्छत्रचूर्णशुक्तिकपर्द्दकाः ।मुक्ताकुसुमनक्षत्रदन्तपुण्योशनोगुणाः
कैलासकाशकार्पासहासवासवकुञ्जराः ।नारदः पारदः कुन्दखटिकास्फटिकादयः
”इति श्वेतानि
*
शुक्लकृष्णवाचकानि वस्तूनि यथा, --“सितकृष्णौ विधुहरी शितिताराभ्रकनाग-राजघनसाराः ।रामपयोराश्यर्ज्जुनसिंहीजानन्तचन्द्र-हामाद्याः
”विधुश्चन्द्रो विष्णुश्च हरिः कृष्णः मिंहश्च ।शिती धवलमेचकौ तारा नक्षत्रं अक्ष्णःकनीनिका अभ्रकं निरिजं मेघश्चनागराजः शेषो गजश्च घनमारः कर्पूरंमेघश्रेष्ठश्च रामो बलभद्रो दाशरथिश्च ।पयोरारिर्दुग्धममूहः समद्रश्च अर्ज्जुनः शुभ्रःपार्थश्च मिंहीजः सिंहो राहुश्च अनन्तोबलभद्रः कृष्णश्च चन्द्रहासः चन्द्रहास्यंखङ्गश्च ।“शङ्खकरतारकेशसदाकाशव्योमकेशतालाङ्काः ।नीलांशुकाधिकेशारिष्टसदासिचयकलकण्ठाः
शङ्खकरः कम्बु कान्तिः कृष्णश्च तारकेशश्चन्द्रःउज्ज्वलबाकश्च सदाकाशः सर्व्वदाकाशः सद्गगनञ्च व्योमकेशः शिवो नभोबालौ ।तालाङ्को बलभद्रस्तालकलङ्कौ नीलांशुकोबलभद्रः कृष्णकान्तिश्च अधिकेशो अधिक-शिवो अधिकबालश्च अरिष्टस्तक्रं काकश्चसदासिचयः सिचयो वस्त्रं असिचयः खङ्ग-समूहश्च कलकण्ठो हंसः पिकश्च ।“कलकण्ठः पिके पारावते हंसे कलध्वनौ
हरिजिष्णुघनाब्धिभ्यो गजाः सिन्धुर्मुरारितः ।अद्भ्यो वाहोऽब्जानि कृष्णाद्यमुना कुम्भितोद्विषः
”शुक्लश्यामाभिधायका भवन्तीति सम्बन्धहरिगज ऐरावतः एवं जिष्णुगजः अब्धि-गजः घनगजः पक्षे हरिर्विष्णुर्गजो हस्ती ।एवं सर्व्वत्र गजा इति बहुवचननिर्द्देशात्गजपर्य्यायो गृह्यते मुरारिसिन्धुर्गङ्गा कृष्ण-समुद्रौ अम्बुवाहः उच्चैःश्रवाः मेघश्च ।कृष्णाब्जं नाभीपुण्डरीकं नीलाब्जञ्च यमुनारि-र्बलभद्रो यमुनाद्वेषी ।“कृष्टार्थाग्रात्तटिनीवाचकशब्दात् परो वरोयोज्यः ।नीरदघनोपलसितसदाहिमकर-सिन्धुवेणि-पृथुलाजाभाः
”सितश्यामवाचका इति पूर्व्व वत् कृष्णार्था-ग्रात्तटिनीवाचकशब्दाद्वरो यथा कृष्णनदी-वरकान्तिः गङ्गाश्रेष्ठकान्तिः पक्षे कृष्णनदी-वरस्य समुद्रस्येव कान्तिः नीरदो निश्चितोदन्तो मेघश्च घनोपलसितः घनोपलः करकातद्वत् सितः घनो मेघः तद्वदुपलसितः कान्तः ।सदाहिमकरः चन्द्रः सर्पमकरौ सिन्धु-वेणिर्नदीप्रवाहः समुद्रकेशविन्यासौ पृथु-लाजाभः महती भ्रष्टधान्यस्येवाभा यस्य कृष्ण-स्येव तथा ।“वहलकलभवच्छायमन्धकारातिदीधितिः ।सदाधिकेशवच्छायो नेकपीयसमच्छविः
वपुर्महोदधिच्छायं बिभ्रत् सैन्धवकान्तिमान् ।स्फाटिकी लसल्लक्ष्मोः पट्टांशुककटिं वहन्
धौताम्बरश्रियं धत्ते स्फटिकान्तश्रियान्वितः ।अर्जुनद्युतिविद्योतीत्ये वमादि समुन्नयेत्
*”
रक्तश्वेतवाचकानि वस्तूनि यथा, --“रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्य्य-कान्ताब्जाः ।नवहसमहापद्मार्ककृशोदराः कमलकीलाले
”हरिश्चन्द्रसूर्य्ययोः शुचिः श्वेतवैश्वानरयोः ।पुष्करं जलपद्मयोः शतशत्रं हंसपद्मयोः ।सूर्य्यकान्तः स्फटिके सूर्य्यकान्ते अब्जःशङ्घाम्बुजयोः नवहंसः नवहंसे प्रत्यग्रसूर्य्ये ।महापद्मः श्वेतनागे पद्मे अर्कः स्फटिक-सूर्य्ययोः कमलं जलाम्बुजयोः कीलालंजलरक्तयोः ।“सुहृद्रत्नादिभिर्भानो रत्नेनाग्ने रदांशुकैः ।जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभि
”भानोः परस्मात् सुहृद्रत्नादिभिः सितरक्तौयथा रविमित्रं चन्द्रः रवितुल्यश्च भानुरत्रंसूर्य्यकान्तो रविपद्मरागौच अग्निरत्नं सूर्य्य-कान्तो अग्निपद्मरागौ रदांशुकं दन्तवस्त्रेअधरश्च जलशोभा जलजा चासौ शोभाचेति पक्षे पद्मकान्तिः एवं सरोजारिशोभासरोजस्पर्द्धिशोभा पक्षे सरोजारिश्चन्द्रः कुमु-दारिशोभा कुमुदस्पर्द्धिशोभा पक्षे कुमुदारि-रादित्यः
*
पीतश्वेतवाचकानि वस्तूनियथा, --“पीतश्वेतौ गौरद्विजराजकपर्द्दशम्भुहरि-तार्क्ष्याः ।हैमस्तोमाष्टापदमहारजतचन्द्रकलधौताः
”गौरः श्वेतपीतयोः द्विजराजो गुरुचन्द्रयोः ।कपर्द्दः शम्भुजटाजूटवराटयोः शम्भुर्ब्रह्म-त्रिलीचनयोः हरिः पिङ्गलसिंहयोः ताक्ष्र्योगरुडः पक्षे उच्चैःश्रवाः हैमस्तोमः हेम्नोऽयंहैमः पक्षे हिमस्यायम् अष्टापदं सुवर्ण-सरभयोः महारजतं सुवर्णरूप्ययोः चन्द्रःस्वर्णशशाङ्कयोः कलधौतं हेमरूप्ययोः ।“सुशोभितारकूटश्रीः स्वर्णस्तोमसमद्युतिः ।दहनोपलसत्कान्तिर्गाङ्गेयच्छविपेशलः
”तारुकूटो रूप्यसमूहः पक्षे आरकूटो रीतिः ।सुशोभनमर्णः कनकञ्च
*
अथ श्लोकोत्ती-र्णानि गोपतितार्क्ष्यकान्तिः रविगरुडच्छविः ।पक्षे गोपतिरिन्द्रस्तस्य तार्क्ष्यस्तुरङ्गः वाम-देवगिरिर्मनोज्ञमेरुः कैलासश्च इति कवि-कल्पलतायाम् श्लेषे उद्दिष्टवर्णनं कुसुमम्