| YouTube Channel

शुक्लं (zuklaM)

 
शब्दकल्पद्रुमः
Sanskrit
शुक्लं,
क्ली,
(शुच शौचे + “ऋज्रेन्द्रेति ।” उणा०२ २८ इति रन् प्रत्ययेण माधु ।) रजतम् ।इति मेदिना
नवनातम् इति चब्दचन्दिका ।अक्षिरोगविशेषः इति जटाधरः
तुचक्षुःशुक्लभागजरोगः तद्विरणं यथा, --“प्रस्तारिशुक्लक्षतजाधिमांस-साग्वर्म्मसंज्ञाः खलु पञ्च रोगाः
”तत्र शुक्लमाह ।“सुश्वे तं मृदुशुक्लार्म्मं शुक्लं तद्वर्द्धते चिरात्
”अस्य चिकित्सा ।“भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते ।अचिरेणैव तद्वारि तिमिराणि व्यपोहति
स्नानं कृष्णतिलैर्व्वापि चक्षुष्यमनिलापहम् ।आमलैः सततं स्नानं परदृष्टिबलापहम्
शुण्ठीनिम्बदलैः पिण्डीसुखोष्णास्वल्पसैन्धवा ।धार्य्या नेत्रेऽनिलश्ले ष्मशोथकण्डूव्यथाहरी ।त्रिफला पिण्डिका नेत्रे वातपित्तकफापहा
”अन्यदौषधं शुक्तिशुक्रशब्दयोर्द्रष्टव्यम् काञ्जि-कादि यथा, --“कार्त्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु ।कार्त्तिके वर्ज येत्कांस्यं कार्त्तिके शुक्लसन्धि-तम्
”इति श्रीगोपालभट्टविलिखिते भगवद्भक्ति-विलासे १६ विलामः
शुक्लं काञ्जिकादि-पर्य्युषिताम्लद्रष्यं मन्धितञ्च वर्जयेत् इतिश्रीजीवगोस्वामिकृततट्टीका दिद्गर्शनी