| YouTube Channel

शुक्रः (zukraH)

 
Hindi
Hindi
शुक्र ग्रह. शब्द वीर्य या यौन स्राव का मतलब
Apte Hindi
Hindi
शुक्रः
पुं*
- "शुच् + रक्, नि* कुत्वम्"
शुक्रग्रह
शुक्रः
पुं*
- "शुच् + रक्, नि* कुत्वम्"
राक्षसों के गुरु जिसने अपने जादू के मंत्रों से युद्ध में मरे हुए राक्षसों को पुनर्जीवित कर दिया था
शुक्रः
पुं*
- "शुच् + रक्, नि* कुत्वम्"
ज्येष्ठमास
शुक्रः
पुं*
- "शुच् + रक्, नि* कुत्वम्"
अग्नि
Wordnet
Sanskrit
Synonyms:
अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः
noun
देवताविशेषः-हिन्दुधर्मानुसारम् अग्नेः देवतास्वरूपम्।
"अग्नेः पत्नी स्वाहा।"
Synonyms:
अग्निः, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, कविः
noun
तेजःपदार्थविशेषः।
"पर्वते दृश्यमानः धूमः अग्नेः सूचकः।"
Synonyms:
ज्येष्ठः, शुक्रः
noun
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
"तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।"
Synonyms:
शुक्रः
noun
सौरमालायाः द्वितीयः खगोलीयपिण्डः।
"शास्त्रज्ञः शुक्रस्य अध्ययनं करोति।"
वैजयन्तीकोषः
Sanskrit
Word: शुक्रः
Root: शुक्र
Gender: पुं
Number: all
अर्थः शुक्रग्रहः
Meaning(s):
Planet Venus
Shloka(s):
2|1|34|1 प्रचक्षा दीदिविश्चाथ शुक्रो दूतो दिवाचरः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|34|2 तिर्यग्गाम्यसुराचार्य उशना भार्गवः कविः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|34|1 शुक्रः (शुक्र) (पुं) Planet Venus शुक्रग्रहः
2|1|34|1 दूतः (दूत) (पुं) Epithet of Venus शुक्रग्रहः
2|1|34|1 दिवाचरः (दिवाचर) (पुं) Epithet of Venus शुक्रग्रहः
2|1|34|2 तिर्यग्गामी (तिर्यग्गामिन्) (पुं) Epithet of Venus शुक्रग्रहः
2|1|34|2 असुराचार्यः (असुराचार्य) (पुं) Epithet of Śukra शुक्रग्रहः
2|1|34|2 उशनः (उशनस्) (पुं) Epithet of Venus शुक्रग्रहः
2|1|34|2 भार्गवः (भार्गव) (पुं) Epithet of Venus शुक्रग्रहः
2|1|34|2 कविः (कवि) (पुं) Epithet of Venus शुक्रग्रहः
Related word(s):
जातिः ग्रहः
Tamil
Tamil
சு’க்ர: : சுக்ரன், சுக்ராச்சாரியார், நெருப்பு, அக்னி.
शब्दकल्पद्रुमः
Sanskrit
शुक्रः,
पुं,
(शुच + रन् ।) ग्रहविशेषः तत्पर्य्यायःदैत्यगुरुः काव्यः उशनाः भार्गवः ५कविः इत्यमरः
सितः आस्फुजित् ८शतपर्व्वेशः भृगुसुतः १० भृगुः ११ षोड-शार्च्चिः १२ मघाभूः १३ श्वेतः १४ श्वेतरथः १५इति शब्दरत्नावली
षोडशांशुः १६ इतिजटाधरः
*
तस्य शुक्रेति नामकारणंयथा, --“निकुम्भादिषु दैत्येषु भूय एवोत्थितेष्वथ ।युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत्
महादेव वचोऽसह्यं शृणु त्वं परमाद्भूतम् ।अविचिन्त्यमसह्यञ्च मृतानां जीवनं पुनः
ये हताः प्रमथैर्दैत्या यथाशक्त्या रणाजिरे ।ते सर्व्वे जीविता भूयो भार्गवेणाथ विद्यया
तदिदं वै महादेव महत् कर्म्म कृतं रणे ।संजातमफलं देव शुक्रविद्याबलाश्रयात्
इत्येवमुक्ते वचने नन्दिना कुलनन्दिना ।प्रत्युवाच प्रभुः प्रीत्या स्वार्थसाधनमुत्तमम् ।गच्छ शुक्रं गणपते ममान्तिकमुपानय
अहं तं संयतिष्यामि यथायोगं समेत्यति
इत्येवमुक्ते रुद्रेण नन्दी गणपतिस्ततः
तमनन्तमुपागम्य नन्दी संपूज्य वेगवान्
रथाद्भार्गवमानिन्ये सिंहः क्षुद्रमृगं यथा ।तमादाय हराभ्यासमाजगाम विनायकः
निपात्य रक्षिणः सर्व्वानथ शुक्रं न्यवेदयत् ।तमानीतं कविं शर्व्वः प्राक्षिपद्वदने प्रभुः
शम्भुना कविश्रेष्ठो ग्रस्तो जठरमास्थितः ।तुष्टाव भगवन्तं तं वाग्मी वाग्भिरथादरात्
शुक्र उवाच ।नमोऽस्तु ते शङ्कर शर्व्व शम्भोसहस्रनेत्राङ्घिशिरो नमस्ते ।दृष्ट्वैव सर्व्वं भुवनं तवोदरेश्रान्तो भवन्तं शरणं प्रपन्नः
इत्येवमुक्ते वचने महात्माशम्भुर्व्वचः प्राह ततो विहस्य ।निर्गच्छ पुत्त्रोऽसि ममाधुना त्वंशिश्नेन भो भार्गशवंशचन्द्रः
नाम्ना तु शुक्रेति चराचरास्त्वांस्तोष्यन्ति नैवात्र विचारणास्ति ।इत्येवमुक्त्वा भगवान् मुमोचशिश्नेन शुक्रः निर्जगाम
विनिर्गतो भार्गववंशचन्द्रःशुक्रत्वमापद्य महानुभावः
”इति वामने ६६ अध्यायः
*
अयं श्यामवर्णाग्निकोणस्त्रीब्राह्मणजातियजु-र्व्वेदरजोगुणाम्लरसवृषराशिहीरकरत्नभोजकट-देशानामधिपतिः भृगुमुनिसन्तानः नवा-ङ्गुलशरीरः पद्मस्थः सूर्य्यमुखः श्वेतवर्णः ।चतुर्भुजः सदाजपमालावरकमण्डलुदण्ड-धारी शुक्लवस्त्रः इन्द्रादिदेवताकः शची-प्रत्यधिदेवताकः शुभग्रहः अपराह्णकालेप्रबलः जलचारी कफप्रकृतिः रूप्यद्रव्य-धान्यादिस्वामी मध्यवयः रतीश्वरः जल-भूमिचारी स्निग्धरुचिः द्विपदमनुष्याणांस्वामी इति बृहज्जातकग्रहयागतत्त्वा-दयः
*
तस्य भोग्यं दिनं शुक्रवारः तत्रजातफलम् ।“प्रसन्नचित्तो मतिमान् गुणज्ञःसुकेशवेशः सितवस्त्रमाल्यः ।बन्धुप्रियो भार्गववारजातःशीघ्रप्रसादः कुशलो नरः स्यात्
”तस्य क्षेत्रजातफलम् ।“शुक्रालये काव्यकलाविदग्धोदातातिथेयः श्रुतशास्त्रदक्षः ।कलिप्रियो वातकफान्वितः स्या-न्मेधान्वितो हास्यपटुर्मदाद्यः
”तस्य द्रीक्काणजातफलम् ।“द्रेक्काणे भृगुनन्दनस्य सुतनुः पात्रं धरित्री-पतेःसर्व्वज्ञः स्वजनानुरागकुशलो दाता सतां वल्लभसंपूणश्च वराङ्गनात्मजधनैः स्फीतः कृपालुःशुचिःशान्तः सत्यरतोऽभियुक्तहृदयो धर्म्मानुरक्तोनरः
”तस्य नवांशजातफलम् ।“नारीरक्तो ललितनयनो मञ्जुकेशः कृशाङ्गःकम्बुग्रीवो भवति कनकश्यामवर्णः सुकेशः ।क्रू रः स्त्रैणः कविरतिधनो दानशीलो गुणज्ञोव्यानम्रास्यो विमलयशसा मानवो भार्गवांशे
”तस्य द्वादशांशजातफलम् ।“शूरो बहुधनो भोगो नृत्यगीतप्रियः सदा ।शुचिर्द्दाता क्षमी भोक्ता द्वादशांशे भृगोनरः
”तस्य त्रिंशांशजातफलम् ।“बहुगुणपरिपूर्णः सुन्दरश्चारुदृष्टि-र्युवतिजनविनोदी लब्धसौख्यार्थभोगः ।द्विजसुरगुरुभक्तो दानशीलः कृपालु-रसुरपतिगुरोः स्यान्मानवस्त्रिं शकांशे
”इति कोष्ठीप्रदीपः
विष्कुम्भादि-सप्तविंशति-योगान्तर्गत-चतुर्विंश-योगः तत्र जातफलम् ।“हास्यो विवादे विजयी सभायांमद्गन्धमाल्याम्बररत्नयुक्तः ।जितेन्द्रियः स्यान्मनुजो महौजाःशुक्राभिधाने जननं हि यस्य
”इति कोष्ठीप्रदीपः
*
अग्निः चित्रकवृक्षः ज्यैष्ठमासः इत्यमरः