| YouTube Channel

शुक्रं (zukraM)

 
शब्दकल्पद्रुमः
Sanskrit
शुक्रं,
क्ली,
(शुच क्लेदे + “ऋज्रे न्द्राग्रवज्रेति ।”उणा० २८ इति रन्प्रत्ययेन साधु ।)मज्जजातधातुः तत्पर्य्यायः पुंस्त्वम् रेतः ३बीजम् वीर्य्यम् पौरुषम् तेजः इन्द्रि-यम् अन्नविकारः मज्जारसः १० रोह-णम् ११ बलम् १२ इति राजनिर्घ ण्टः
तस्योत्पत्तिर्यथा, --“रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते ।मेदसोऽस्थि ततो मज्जा मज्जात् शुक्रस्य सम्भवः
तस्य स्वरूपं यथा, --“शुक्रं शोष्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम् ।गर्भवीजं वपुःसारो जीवस्याश्रय उत्तमः
”जीवस्याश्रय उत्तम इति यत आह ।“जीवो वसति सर्व्वस्मिन् देहे तत्र विशेषतः ।वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयंक्षणात्
*
गर्भसंजननशुक्रस्य लक्षणं यथा, --“स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि ।शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभञ्च तत्
”तस्य स्थानमाह ।“यथा पयमि सर्पिस्तु गूढश्चेक्षौ रमो यथा ।एवं हि मकले काये शुक्रं तिष्ठति देहिनाम्
”अत्र सर्पिर्दृष्टान्तो बहुशुक्रेऽल्पमथनेन सर्पिः-शुक्रयोर्लाभात् इक्षुरसदृष्टान्तस्तु स्वल्पशुक्रेपु सि अतिपीडनेनेक्षुरसशुक्रयोर्लाभात्
*
तस्य क्षरणमार्गो यथा, --“द्व्यङ्गले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्पधः ।मूत्रस्रोतःपथे शुक्रं पुरुषस्य प्रवर्त्तते
*
अथ शुक्रस्य क्षरणकारणमाह ।“कृत्स्रदेहस्थितं शक्रं प्रसन्नमनसस्तथा ।स्त्रीषु व्याययुतश्चापि हर्षात्तत् संप्रवत्तते
”स्त्रीषु व्याययुतः सुरतरूपं व्यायामं कुर्व्वतः ।अन्यच्च ।“शुक्रं कामेन कामिन्या दर्शनात् स्पर्शनादपि ।शब्दसंश्रवणात् ध्यानात् संभोगाच्च प्रवर्त्तते
”इति भावप्रकाशः
*
शुक्रक्षयकरद्रव्याणि यथा सार्षपतैलम् राज-माषः तिलः पटोलवास्तूककाकमाचीपुन-र्नवाशाकभिन्नसर्व्वशाकम् तावदम्लद्रव्यम् ५कारवेल्लकफलम् कर्कोटकफलम् वादा-मम् लिकुचम् शुष्कमरिचम् १० गुड-त्वक् ११ पिप्पलीशण्ठीभिन्नकटुरसः १२ इतिराजवल्लभात् संगृहीतम्
*
अपि ।“वोजक्षयकरं नित्यं भक्ष्यं भोज्यञ्च पानकम् ।वर्जयेत् क्षारशाकाद्यानत्यम्बु बहुतिक्तकम्
कांस्यराजतरङ्गस्थं तोयं पानेऽप्यवर्द्धनम् ।मूत्रान्ते मूत्रवद्बीजक्षयकारि विवर्ज्जयेत्
”शुक्रवृद्धिकरजल यथा, --“ताम्रायःस्वर्णसीसानां पात्रस्थं फलचर्म्मणोः ।शुक्रवृद्धिकरं तोयं तत्तु पेयं प्रयत्नतः
”इति कालिकापुराणे ८९ अध्यायः
*
शुक्रवर्द्धकद्रव्याणि यथा पानीयम् विशेषतःहैमन्तिकजलम् तालाम्बु चन्दनादिद्रव्यानु-लेपनम् रक्तशालिधान्यम् हैमन्तिकषष्टि-कधान्यम् गोधूमः माषः सामान्यशुष्क-नारीचपत्रशाकम् सामान्यक्लिन्नशुष्कनारीचपत्रशाकजलम् १० कलम्बीशाकम् ११ काक-माचीशाकम् १२ गोक्षुरशाकम् १३ मुञ्जा-तकः १४ वार्त्ताकुः १५ विदारी १६ हस्त्या-लुकम् १७ मध्वालुकम् १८ पक्वाम्रम् १९दुग्धाम्रम् २० नागरङ्गम् २१ बहुवारफलम् २२पक्वकण्टाफलम् २३ कण्टाफलास्थि २४ पक्व-तालम् २५ पक्वकदलम् २६ चम्पककदलम् २७द्राक्षा २८ खर्ज्जूरम् २९ धात्री ३० कुष्माण्ड-मज्जा ३१ तावन्मत्स्याः ३२ वृहन्मत्स्यः ३३समुद्रमत्स्यः ३४ रोहितमत्स्यः ३५ भाकूट-मत्स्यः ३६ पाठीनमत्स्यः ३७ भेगलिमत्स्यः ३८चित्रफलमत्स्यः २९ वाउशमत्स्यः ४० मद्गुर-मत्स्यः ४१ वर्म्मिमत्स्यः ४२ फलीमत्स्यः ४३चिङ्गटमत्स्यः ४४ पर्व्वतमत्स्यः ४५ एलङ्गमत्स्यः४६ शकलीमत्स्यः ४७ चम्पकुन्दमत्स्यः ४८ प्रोष्ठी-मत्स्यः ४९ दग्धमत्स्यः ५० सामान्यमांसम् ५१प्रसहामांसम् ५२ भूशयामांसम् ५३ अनूप-मांसम् ५४ जलजमांसम् ५५ जलेचरमांसम् ५६छागमांसम् ५७ वाराहमांसम् ५८ कूर्म्म-मांसम् ५९ तित्तिरि-६० कुलिङ्ग-६१ चट-कानां मांसम् ६२ हंसमांसम् ६३ हंसबीजम् ६४शुकपक्षिमांसम् ६५ मयूर-६६ शरारि-६७मद्गु-६८ कादम्ब-६९ वलाका-७० वक-मांसम् ७१ जीर्णमद्यम् ७२ समस्तक्षीरम् ७३गोदुग्धम् ७४ हस्तिनीदुग्धम् ७५ तावत्क्षीर-सन्तालिका ७६ माहिषदधि ७७ दधिसरः ७८दधिमस्तु ७९ नवनीतम् ८० तावद्घृतम् ८१तावदिक्षुः ८२ विशेषतः पौण्डकेक्षुः ८३ दन्त-निष्पीडितेक्षुरसः ८४ यन्त्रनिष्पीडितेक्षुरसः ८५अग्निपक्वे क्षुरसः ८६ इक्षुफाणितम् ८७ इक्षु-गुडः ८८ इक्षुखण्डम् ८९ मधुरी ९० शुष्क-पिप्पली ९१ शुण्ठी ९२ आर्द्रकम् ९३ लशु-नम् ९४ पलाण्डुः ९५ सैन्धवम् ९६ अन्नम् ९७सतैललवणान्वितदग्धमत्स्यः ९८ तैललवणयुक्त-पलालवेष्टितकर्द्दमलेपिताङ्गारदग्धलवणवेशवारपुरस्कृतसार्द्रककटुतैलसन्तालितमत्स्यः ९९शाकमत्स्याख्यव्यञ्जनम् १०० मांसरसः १०१परिशुष्काख्यमांसम् १०२ घृतपूरः १०३ मधु-मस्तकम् १०४ दुग्धफेनकः १०५ भूशय्या १०६एरण्डमूलम् १०७ गोक्षुरः १०८ सामान्य-वला १०९ विशेषतः पीतवला ११० अश्वगन्धा१११ प्रसारणी ११२ माषपर्णी ११३ रुदन्तीवृक्षः ११४ राजवृक्षफलम् ११५ शिलाजतुः११६ इति राजवल्लभात् सगृहीतम्
*
नेत्ररोगविशेषः इति मेदिनी
अस्य विवरणंशुक्लशब्दे द्रष्टव्यम्