| YouTube Channel

शुक्तं (zuktaM)

 
शब्दकल्पद्रुमः
Sanskrit
शुक्तं,
क्ली,
(शुच क्लेदे + क्तः ।) मांसम् इतिशब्दचन्द्रिका
काञ्चिकम् इति हारावली
द्रवद्रव्यविशेषः यथा, --“कन्दमूलफलादीनि सस्नेहलवणानि ।यत्तद्द्रव्येऽभिसूयन्ते तच्छ्रक्तमभिधीयते
”अस्य गुणाः ।“शुक्तं तीक्ष्णोष्णलवणं पित्तकृत् कटुकं लधु ।रूक्षं कृम्युदरानाहशोथार्शोविषकुष्ठनुत्
”इति राजनिर्घ ण्टः
*
शुक्त यन्मधुरं कालवशादम्लतां गतम् इतिप्रायश्चित्तविवेकः
तस्य भक्षणनिषेधो यथा ।यमः ।“अपूपाश्च करम्भाश्च धाना वटकशक्तवः ।शाकं मांसमपूपञ्च सूपं कृशरमेव
यवागुं पायसञ्चैव यच्चान्यत् स्नेहसम्भवम् ।सर्व्वं पर्य्युषितं भक्ष्यं शुक्तञ्च परिवर्ज्जयेत्
”तत्प्रतिप्रसवो यथा मनुः ।“दधिभक्ष्यञ्च शुक्तेषु मर्व्वञ्च दधिसम्भवम्
”इति तिथ्यादितत्त्वम्
(यथा मनुः १७७“वर्ज्जयेन्मधुर्मासञ्च गन्धं माल्यं रसान् स्त्रियः ।शुक्तानि यानि सर्व्वाणि प्राणिनाञ्चैव हिंसनम्
”“यानि स्वभावतो मधुरादिरसानि कालवशेनउदकवासादिना चाम्लवन्ति तानि शुक्तानि ।”इति तट्टीकायां कुल्लूकभट्टः
शुक्तं, त्रि, (शुच् + क्तः ।) निष्ठुरम् इति मेदिनी
पूतम् अम्लम् इति विश्वः
श्लिष्टम् ।निर्ज्जनम् इति शब्दरत्नावली