| YouTube Channel

शीभृ (zIbhR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शीभ्
मूलधातुः:
शीभृ
धात्वर्थः:
कत्थने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
शीभते
धातुप्रदीपः
Sanskrit
शीभृँ शीभृ कत्थने
- शीभते अशिशीभत् शीभः ।। 374 ।।
क्षीरतरङ्गिणी
Sanskrit
शीभृँ शीभृ कत्थने
- शीभते शीभरः कत्थनः 375
धातुवृत्तिः
Sanskrit
शीभृँ शीभृ (अर्थः) कत्थने
( शीभते ) शिशीभे शीभिता शिशीभिषते शेशीभ्यते शेशीब्धि "झषस्तथोः'' इति तकारस्य धकारे "झलां जश् झशि'' इति भकारस्य बकारः ( शीभयति अशिशीभत् शीभरः बाहुलकादरः 380
कृदन्तरूपमाला
Sanskrit
1 {@“शीभृ कत्थने”@} 2 शीभरः-बाहुलकात् औणादिकोऽरप्रत्ययः।
कत्थन इत्यर्थः।
समस्तान्यपि रूपाणि भौवादिकचीभतिवत् 3 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१७१८)
02
=>
(१-भ्वादिः-३८३। सक। सेट्। आत्म।)
03
=>
(५३०)