शीङ् (zIG)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit शी
शीङ्
स्वप्ने
अदादिः
अकर्मकः
सेट्
आत्मनेपदी
शेते
ईकारान्तः
धातुप्रदीपः
Sanskritशीङ् स्वप्ने
- शेते । शयाते । शेरते । शय्यते । शिश्ये । शिश्याते । शिश्यिरे । शाशय्यते । शयनम् । शयालुः । शय्या ।। 23 ।।
क्षीरतरङ्गिणी
Sanskritशीङ् स्वप्ने
- शेते अधिशीङ्स्थासां कर्म (1426) ग्राममधिशेते शीङो रुट् (716) शेरते शीङः सार्वधातुके गुणः, अयङ् यि क्ङिति (7421, 22) शय्यते अधिकरणे शेते (3215) खशयः, पार्श्वादिभ्यः करणे (तु0 3215 वा0) पार्श्वशयः गत्यर्थाकर्मक (3472) इति क्तः, निष्ठा शीङ्स्विदि (1219) इत्यकित्त्वम् शयितः आलुज् वक्तव्यात् (द्र0 32158 वा0) शयालुः व्रते (3280) णिनिः-स्थण्डिलशायी एरच् (3356) संशयः व्युपयोः शेते पर्याये (3339) घञ् तवाद्य राजोपशायः, विशायः संज्ञायां समज (3399) इति क्यप्-शय्या भृमृशी (उ0 17) इत्युः-शयुरजगरः शीङो धुक्लन्वलञ्वलन्वालनः (तु0 उ0 438) शीधुः शीलम्, शैवलम्, शेवलम्, शेवालम् वृङ् शीभ्यां रूपस्वाङ्गयोः पुट् च (द0 उ0 961) इत्यसुन् शेपो लिङ्गम् शीङः किद् ध्रस्वश्च (तु0 द0 उ0 355) शिखा शिखरम्, शेखरम् शाखा तु शाखतेः (190), आनकः शीङ्भियोः (तु0 उ0 382) -शयानकः निशेरतेऽस्मिन्नति निशीथः (द्र0 उ0 29) इण्शोभ्यां वन् (उ0 4152) शेवः सुखम् 20
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritशीङ् (अर्थः) स्वप्ने
( शेते शयाते शेरते, शेषे, शेध्वे शये, शेवहे ) "शीङः सार्वधातुके'' इति गुणः, ( सूत्रम्) शीङो रुट् (इति सूत्रम्) इति झादेशस्थाच्छब्दस्य रुट्, अस्य परत्वादिगन्तत्वमविहितमिति "शीङः सार्वधातुके'' इति गुणः सिद्धः, ( शिश्ये, शिश्याते, शिश्यिषे शिश्यिढ्वे शिश्यिध्वे शिश्ये, शिश्यिवहे ) "एरनेकाच्'' इति यणादेशः अत्र यद्वक्तव्यं तदीरगतावित्यत्रोक्तम् ध्वमि "विभाषेटः'' ( शयिता, शयिष्यते शेताम् शयाताम् शेरताम् शेष्व, शेध्वम् शयै शयावहै अशेत अशयाताम् अशेरत, अशेथाः अशयि अशेवहि शयीत शयीथाः, शयीय ) आशिषि ( शयिषीष्ट शयिषीष्ठाः, शयिषीढ्वम् शायिषीध्वम् शयिषीय अशयिष्ट, अशयिष्ठाः अशयिध्वम् अशयिढ्वम्, अशयिषिशिशयिषते, शाशय्यते, ) "अयङ्यिङ्किति'' इति शीङो यकारादौ ङ्कित्ययङ्, स च ङित्त्वादन्त्यस्य, परत्वादस्मिन् कृते द्वित्वम् ( शेशयीति, शेशेति शेशीतः, शेश्यति ) शीङ इति सानुबन्धकनिर्देशान्न गुणो नापि रुट्, व्यतिशेश्यतइति पिद्वचने तु "सार्वधातुकार्द्धधातुकयोः'' इति गुणः शेशीयते भवतेत्यत्र भावे लकारे यकि शीङ् इति सानुबन्धनिर्दे शादयङ् न भवति ( शाययति देवदत्तम्, अशीशयत् ) "अणावकर्मकात्'' इति चित्तवत्कर्तृकत्वे नित्यं परस्मैपदम् अन्यदा तूभयम् अकर्मकत्वात्प्रयोज्यस्य कर्मत्वं, ग्रामोऽधिशय्यते "अधिशीङ्स्थासाम्'' इत्याधारस्य कर्मत्वात्कर्मणि लादयो भवन्ति, यकारादित्वादयङादेशः, भावे शय्यते देवदत्तेन कालभावाध्वगन्तव्यदेशेषु कर्मस्वासिवद्भावे कर्मणि च लादयो भवन्ति शय्यते मासं देवदत्तेन शय्यते मासो देवदत्तेनेत्यादि अस्योपादानं भवतावनुगन्तव्यं, स्यादिषु चिण्वदिटि शायिष्यतइत्याद्युदाहार्यं, तदभावे कर्तृवदेव रूपं, कर्मकर्त्तर्यप्येवम् लुङ्येकवचने "अचः कर्मकर्त्तरि'' इति चिण्सिचौ, सिचः पक्षे चिण्वदिट्चेति त्रैरूप्यम् (अत्यशायि, अत्यशायिष्ट, अत्यशयिष्ट) इति (विशयो) देशविशेषः "विशयीदेश'' इति ग्रहादिपाठाण्णिनिः वृद्ध्यभावश्च खे शयः (खशयः) "अधिकरणे शेतेः'' इत्यच् "शयवासवासिष्कालात्'' इत्यकालवाचिनः पूर्वदात्सप्तम्या वाऽलुक्, कालवाचित्वे तु पूर्वाह्णशय इति लुगेव, पार्श्वाभ्यां शेते इति (पार्श्वशयः) उरसा शेते (उरःशयः, ) (पार्श्वादिषूपसंख्यानम् ] इत्यच्, उत्तानश्शेते (उत्तानशयः) एवमूर्ध्वशयः "उत्तानादिषु कर्तृषु'' इत्यच् दिग्धेन सह शेते इति ( दिग्धसहशयः ) "दिग्धसहपूर्वाच्च'' इत्यच् दिग्धसहशब्दस्यमयूरव्यंसकादित्वादस्मादेव निर्देशाद्वा तत्पुरुषः तेन शयशब्दस्योपपदसमासः सप्तमीनिर्देशाभावेऽप्युपपदाधिकारे विधानात्सुपीत्यनुवर्तनाद्वा उपपदत्वं दिग्धसहशब्दस्याविरुद्धम् न्यासेऽप्युक्तमुपपदसमास इति (गिरिशः) "गिरौ डश्छन्दसि'' इति डे टिलोपः, संज्ञाशब्दत्वाद्भाषायामप्ययं प्रत्युज्यते तुराषाडिति चेत्यात्रेयः हरदत्तस्तु लोमादिलक्षणेनशप्रत्ययेन भाषायामपि भवति गिरिश इति, भाष्येऽप्येतद्वचनं प्रत्याख्यातं तद्धितो वेति (शयालुः ) [ आलुचि शीङो ग्रहणम् ] इत्यालुच् ( शयितः ) "मतिबुद्धि'' इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने क्तः, अतिशयितो गुरुं शिष्यः अतिशयितो गुरुः शिष्येण "गत्यर्थाकर्मक'' इति कर्तृकर्मणोः क्तः उपसर्गवशात्सकर्मकोऽयं, तदर्थं एव हि पाठः सेटोनिष्ठायां "निष्ठाशीङ्'' इति कित्त्वनिषेधाद्गुणः सानुबन्धकनिर्देशद्यङ्लुकि कित्त्वमेवेति ( शेश्यित ) इति "एरनेकाच'' इति यणेव भवति तव विशायस्तवोपशायः, शयनं तवप्राप्तावसरमित्यर्थः, "व्युपयोः शेतेः पर्याय'' इति घञ् पर्यायादन्यत्रोपशय इत्यच् पूर्वसूत्रादनुपात्ययइत्यनुवृत्यैव पर्यायत्वे सिद्धे पुनः पर्यायग्रहणात् "अभिविधौ भावे इनुण्''इतीनुणं परमपि बाधित्वाऽभिविधावपि घञेव भवति उपशायो वर्ततइति अभिविधिरभिव्याप्तिः, पर्यायशयनं सार्वत्रिकमित्यर्थः शेरतेऽस्मिन्नङ्गुलय इति शयः, "पुंसि संज्ञायाम्'' इति घः ( शय्या ) "संज्ञायां समजनिषद'' इत्यादिनाऽधिकरणे स्त्रियां क्यप् ( शयनीयम् ) बाहुलकादधिकरणेऽनीयर् सुखशयनं पृच्छति ( सौखशायनिकः, ) "पृच्छतौ सुस्नातादिभ्य'' इति ठक् अतिशये भवमित्यातिशायिकम् अध्यात्मादित्वाट्ठञ् अनुशतिकादित्वादुभयोरुदाहरणयोरुभयपदवृद्धिः व्याप्तमातिशयिकेन रसेनेति माघप्रयोगश्चिन्त्यः ( अतिशायनं ) ल्युट्, "अतिशायन'' इति निपातनाद्दीर्घ "अबाधकान्यपि निपातनानि' इत्यतिशयनमित्यपि भवति संशयमापन्नः सांशयिकोऽर्थः "संशयमापन्ने'' इति ठक्, अत्र यद्यपि कर्मवत् कर्तुरपि संशयापन्नत्वमस्ति तथापि संशयादिति पञ्चम्या निर्देष्टव्ये प्रकरणसिद्धाया अपि द्वितीयायाः संशयमिति शब्देन पुनरुपादानं कर्मणोऽत्र प्राधान्यख्यापनार्थमिति तत्रैवायं प्रत्ययः "पूज्यः प्रतीक्ष्यःसांशयिकः संशयापन्नमानसः'' इति वदन्निघण्टुकारस्तु सूत्रं साधारणं मन्यते, एतदात्रेयन्यासकारपदमञ्जरीकारादयो न सहन्ते शोभनः शयोऽस्याः ( सुशयिका ) कपि ह्रस्वे "प्रत्ययस्थात्कात्'' इतीत्वम्, "उदीचामातः स्थान'' इति निषेधस्तु न भवति, [ यकपूर्वत्वे धात्वन्तयकोः प्रतिषेध ] इति ( शयुरजगरः ) "भृमृशि'' इत्युप्रत्ययः ( शयानकः ) स एव, आनकन् "शीङ्भियः'' इत्यानकन् ( शेवा लिङ्गाकृतिः, ) शेवायह्वेतिवन्नन्तो निपात्यते शेवं सुखम्, "इण्शीभ्यां वन्'' इति वन् ( शीधुः ) शीलं शैवालं, शैवलं, "शीङो धुग्लग्वालञ्चलञ'' इति धुग्लग्वालञ्चलञः प्रत्ययाः अपरे शीङ्H स्थुगिति पदन्तः प्रत्ययं द्वितीयादिं मन्यन्ते "शीङो धुक्'' इत्येव सूत्रम् अन्ये तूहिताः सह पठ्यन्ते यदाहुरात्रेयादयः बाहुलकाद्वालञ्वलञाविति शीलशब्दः शीलतेर्वा शेवलमिति बाहुलकाद्वलञ् ( शेपः, शेपसी, )"वृञ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च'' इत्यसुन् पुडागमश्च यथासंख्यं रूपे स्वाङ्गे च अकारान्तस्तु शेपशब्दः पप्रत्यये उक्तं च कैयटपदमञ्जर्योरकारान्तोऽपि शेपशब्दोऽस्ति यथा च वार्तिकमपि पठ्यते [ शुनः शेपपुच्छलाङ्गूलेषु ] इति ( शिखा ) "शीङो निद्ध्रस्वश्च'' इति मत्वर्थीयो वलच् ( शिखी ) "व्रीह्यादिभ्यश्च'' इतीनिः ( शिखावलं नगरं, ) "शिखाया वलच'' इति चातुरर्थिको वलच्, (शिनिः) क्षत्रियविशेषः, निप्रत्ययो ह्रस्व इति कार्तकौजपइत्यत्र न्यासे व्युत्पादितम् 22
कृदन्तरूपमाला
Sanskrit1 {@“शीङ् स्वप्ने”@} 2 शायकः-यिका, शायकः-यिका, 3 शिशयिषकः-षिका, 4 शाशय्यकः-य्यिका
5 शयिता-त्री, शाययिता-त्री, शिशयिषिता-त्री, शाशय्यिता-त्री
-- शाययन्-न्ती, -- शाययिष्यन्-न्ती-ती
-- 6 शयानः, 7 8 शाययमानः, शिशयिषमाणः, शाशय्यमानः
शयिष्यमाणः, शाययिष्यमाणः, शिशयिषिष्यमाणः, शाशय्यिष्यमाणः
9 सुखशीः-सुखश्यौ-सुखश्यः
-- -- -- 10 शयितम्-तः 11 -तवान्, शायितः, शिशयिषितः, शाशयितः-तवान्
12 शयः, 13 इति ग्रह्यादिपाठात् विपूर्वकात् णिनिप्रत्ययः।
निपातनात् देशविशेषवाचकत्वे वृद्ध्यभावः।
अन्यत्र विशायी इत्येव।]] विशयी, 14 15 खेशयः-खशयः, 16 बिलेशयः, 17 पूर्वाह्णशयः, 18 पार्श्वशयः, उरश्शयः, उदरशयः, पृष्ठशयः, हस्तशयः, ऊर्ध्वशयः, 19 उत्तानशयः, 20 अवमूर्धशयः, 21 दिग्धसहशयः, 22 गिरिशः, 23 24 शयालुः, 25 26 शयितः, 27 अतिशयितो गुरुं शिष्यः-अतिशयितो गुरुः शिष्येण, 28 ग्रामम् 29 अधिशयानः, 30 स्थण्डिलशायी 31 तरुस्थलशयी, 32 शेषशायी-अब्धिशायी, 33 रङ्गशायी, 34 शयानो भुङ्क्ते यवनः, शायः, शिशयिषुः-शिशाययिषुः, शाशयः
शयितव्यम्, शाययितव्यम्, शिशयिषितव्यम्, शाशय्यितव्यम्
35 शयनीयम् 36 , शायनीयम्, शिशयिषणीयम्, शाशय्यनीयम्
शेयम्, शाय्यम्, शिशयिष्यम्, शाशय्यम्
ईषच्छयः-दुश्शयः-सुशयः
-- -- 37 शय्यमानः, शाय्यमानः, शिशयिष्यमाणः, शाशय्यमानः
38 शयः, तव 39 उपशायः 40 -विशायः, उपशयः, विशयः, 41 संशयः-सांशयिकः, 42 43 अतिशयः-आतिशायिकः-आतिशयिकः, शायः, शिशयिषः, शाशय्यः
शयितुम्, शाययितुम्, शिशयिषितुम्, शाशय्यितुम्
44 संशीतिः 45 शय्या 46 , 47 सुखशायिका, 48 सुशयिका, शायना, शिशयिषा-शिशाययिषा, शाशय्या
शयनम्, 49 सुखशयनम्-सौखशायनिकः, श्मशानम् 50 , 51 अतिशायनम्-अतिशय- नम्-आतिशायनिकम्, शायनम्, शिशयिषणम्, शाशय्यनम्
52 शयित्वा, 53 शाययित्वा, शिशयिषित्वा, शाशय्यित्वा
54 उपशय्य, विशाय्य, प्रशिशयिष्य, प्रशाशय्य
शायम् २ शयित्वा २ शायम् शाययित्वा २ शिशयिषम् २ शिशयिषित्वा २ शाशय्यम् २
शाशय्यित्वा २
55 उप्रत्ययः।]] शयुः, 56 शयानकः, 57 शीधुः-शीलम्-शैवालम्-शेवलः, 58 शेवः, शेपः, 59 शिखा, 60 शिनिः, 61 निशीथः।
01 (१७१७)
02 (२-अदादिः-१०३२। अक। सेट्। आत्म।)
03 [[२। सन्नन्तात् द्विर्वचनादिकेषु कृतेषु सर्वत्र रूपमेवं बोध्यम्।]]
04 [[३। यङन्ते प्रत्ययस्य ङित्त्वात् ‘अयङ् यि क्ङिति’ (७-४-२२) इत्ययङ् सर्वत्र बोध्यः।]]
05 [[४। ‘इवर्णेष्वथ शीङ्श्रिञावपि’ (व्याघ्रभूतिकारिका
\n\n काशिका ७-२-१०) इति वचनाद् धातोः इड् भवतीति बोध्यम्।]]
06 [[५। शानच्प्रत्ययस्य ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावेन यद्यपि ‘क्ङिति च’ (१-१-५) इति गुणनिषेधोऽत्र प्राप्तः
\n\n तथापि ‘शीङः सार्वधातुके गुणः’ (७-४-२१) इति विशेषविधानाद् गुणो भवतीति बोध्यम्। ‘शयाना भुञ्जते यवनाः’ इत्यत्र ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति शानच् इति ज्ञेयम्।]]
07 [[आ। ‘शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम्।।’ भ। का। ९-८४।]]
08 [[६। अचित्तवत्कर्तृकत्वे एवं शानजपि ण्यन्तात् भवतीति माधवः। चित्तवत्कर्तृकत्वे तु ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति नित्यं परस्मैपदमेव।]]
09 [[७। सुखं शेते इति सुखशीः। द्विवचनादौ ‘एरनेकाचोऽसंयोगपूर्वस्य’ (६-४-८२) इति यणि सुखश्यौ सुखश्यः इत्यादीनि बोध्यानि।]]
10 [[८। ‘निष्ठा शीङ्--’ (१-२-१९) इति वचनात् धातोरत्र निष्ठाया अकित्त्वम्। तेन गुणः।]]
11 [[B। ‘मणिरत्नाधिशयितं प्रत्युदैक्षन्त तोयधिम्।।’ भ। का। ७-१०३।]]
12 [[९। पचादिपाठादच्प्रत्ययः। गुणायादेशौ।]]
13 [[१०। ‘विशयी देशे’ [ग। सू। ३-१-१३४]
14 [पृष्ठम्१३००+ २९]
15 [[१। खे शेते इति खेशयः--खशयः। ‘अधिकरणे शेतेः’ (३-२-१५) इति अच्प्र- त्ययः। ‘शयवासवासिष्वकालात्’ (६-३-१८) इति पाक्षिकः सप्तम्या अलुक्। एवं रङ्गेशयः अद्रिशयः बिलेशयः कुशेशयम् इत्यादयो बोध्याः।]]
16 [[आ। ‘अब्भ्रेण खे सञ्चरमाण आरात् बिलेशयद्वेषिसमानजूतिः। वा। वि। २-२३।]]
17 [[२। पूर्वाह्णे शेते इति पूर्वाह्णशयः। अत्र कालार्थकत्वात् न सप्तम्याः पाक्षिकोऽप्यलुक्-- ‘-- अकालात्’ (६-३-१८) इत्युक्तेः।]]
18 [[३। पार्श्वाभ्यां शेते पार्श्वशयः। उरसा शेते उरश्शयः। एवं उदरशयः पृष्ठशयः इत्यादयो ज्ञेयाः। अत्र सर्वत्र ‘पार्श्वादिषूपसंख्यानम्’ (वा। ३-२-१५) इति अच्प्रत्ययः।]]
19 [[४। उत्तानः शेते उत्तानशयः। अवमूर्धा शेते अवमूर्धशयः। अत्र ‘उत्तानादिषु कर्तृषु’ (वा। ३-२-१५) इति अच्प्रत्ययः।]]
20 [[B। ‘शौरिर्यशोदाशयने न्यधात्ताम् आदत्त चोत्तानशयां कुमारीम्।’ वा। वि। ३-४०।]]
21 [[५। दिग्धेन सह शेते इति दिग्धसहशयः। ‘दिग्धसहपूर्वाच्च’ (वा। ३-२-१५) इति अच्प्रत्ययः। ‘दिग्धसह’ इत्यत्र, मयूरव्यंसकादित्वात् (२-१-७२), अस्मादेव निर्देशाद्वा तत्पुरुषसमासः। तत उपपदसमासः।]]
22 [[६। ‘गिरौ डश्छन्दसि’ (वा। ३-२-१५) इति गिरावुपपदे शेतेर्डप्रत्ययः। प्रत्ययस्य डित्त्वेन टेर्लोपः। गिरिरस्यास्तीत्यर्थे लोमादित्वात् (५-२-१००) शप्रत्ययेन प्रसाध्य भाष्ये वार्त्तिकमिदं प्रत्याख्यातम्। निमित्तावधिसंकरत उभयमपि प्रमाणमद्यत्वे इति सिद्धान्तः।]]
23 [[C। ‘आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम्।।’ कु। सं। १-३७।]]
24 [[७। ‘आलुचि शीङो ग्रहणम्’ (वा। ३-२-१५८) इत्यालुच् ताच्छीलिकः। शयनशीलः शयालुः।]]
25 [[ड्। ‘हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान्।।’ शि। व। २-८०।]]
26 [[८। ‘मतिबुद्धि--’ (३-२-१८८) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् अस्मादपि धातोः वर्तमाने क्तप्रत्ययः।]]
27 [[९। ‘गत्यर्थाकर्मकश्लिषशीङ्--’ (३-४-७२) इत्यादिनाऽत्र कर्तृकर्मणोर्यथासम्भवं क्तप्रत्ययो ज्ञेयः। उपसर्गवशादत्र धातुस्सकर्मक इत्यवधेयम्।]]
28 [पृष्ठम्१३०१+ ३०]
29 [[१। अत्र ‘अधिशीङ्स्थाऽऽसां कर्म’ (१-४-४६) इत्याधारस्य कर्मत्वम्।]]
30 [[२। ‘व्रते’ (३-२-८०) इति णिनिः। स्थण्डिल एव शेते स्थण्डिलशायी। यस्स्थण्डिल एव व्रतविशेषानुपालनार्थं शेते स एवमुच्यते। यस्तु कदाचित् कटाद्यभावात् स्थण्डिले शेते सः स्थण्डिलशय इत्युच्यते इति बोध्यम्।]]
31 [[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।’ भ। का। ३-४१]]
32 [[३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
33 [[B। ‘पृक्ताग्रजः पृञ्जितगोपसूनुर्दृष्टोऽब्धिशायी स जनैर्युवद्भिः।।’ धा। का। २-४६]]
34 [[४। ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति लक्षणार्थे शानच्। शयानानामेव सतां भोजनकरणं यवनलक्षणमिति समुदितार्थः।]]
35 [[५। अधिकरणेऽप्यनीयर्प्रत्ययो भवति, बाहुलकात्। शेरतेऽस्मिन् इति शयनीयम्।]]
36 [[C। ‘गतमाभरणप्रयोजनं शयनीयं परिशून्यमद्य मे।।’ रघु। ८-६५]]
37 [[६। यकि, ‘अयङ् यि क्ङिति’ (७-४-२२) इति अयङ् आदेशः। आदेशस्य अनेकाल्त्वेऽपि ‘ङिच्च’ (१-१-५३) इत्यन्त्यस्येकारस्यादेशः।]]
38 [[७। ‘एरच्’ (३-३-५६) इति भावेऽच्प्रत्ययः।]]
39 [[८। पर्यायार्थे गम्यमाने, वि, उप इत्युपसर्गाभ्यां परस्यास्य ‘व्युपयोः शेतेः पर्याये’ (३-३-३९) इति घञ् प्रत्ययः, इवर्णान्तत्वलक्षणाच्प्रत्ययस्यापवादः। तव विशायः। मम राजोपशायः, राजानमुपशयितुं पर्याय इत्यर्थः। पर्यायभिन्नार्थे तु उपशयः, विशयः इत्यजेव।]]
40 [[ड्। ‘निशोपशायः कर्तव्यः फलोच्चायश्च संहतैः।।’ भ। का। ७-४१]]
41 [[९। संशय्यते इति संशयः = सन्देहः। संशयं आपन्नोऽर्थः सांशयिकः। ‘संशयमाप- न्नः’ (५-१-७३) इति ठञ्। सांशयिकः स्थाणुः। स्थाणुः संशयं = पुरुष इति सन्देहमापन्न इत्यर्थः। अमरसिंहस्तु ‘सांशयिकः संशयापन्नमानसः’ (३-१-५) इति संशयकर्तर्यपि प्रयोगमनुमेने
\n\n द्वितीयान्तप्रकरणे पुनः ‘संशयं--’ (५-१-७३) इति द्वितीयान्तत्वेनैव पाठात् कर्भण्येव प्रत्ययो न तु कर्तरि इति न्यासपद- मञ्जर्यादिषु स्पष्टम्।]]
42 [पृष्ठम्१३०२+ २९]
43 [[१। अतिशेते इत्यतिशयः। उपसर्गवशाद्धातोरर्थान्तरे वृत्तिः। अतिशये भवः आतिशायिकः, अध्यात्मादित्वात् (५-४-४४) ठञ्। अनुशतिकादित्वात् (७-३-२०) उभयपदवृद्धिः। ‘व्याप्तमातिशयिकेन रसेन’ (माघः १०-२३) इत्यत्र तु विन- यादित्वात् (५-४-३४) ठक्।]]
44 [[२। भावे क्तिन्। संशीतिः = संशयः। ‘तितुत्र--’ (७-२-९) इतीण्न्{??}एइषेधः।]]
45 [[३। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति संज्ञायां गम्यमानायां स्त्रियां भावादौ क्यप्प्रत्ययः। शेरतेऽस्यामिति शय्या। कित्त्वादयङ्।]]
46 [[आ। ‘शय्योत्थायं मृगान् विघ्यन्नातिथेयो विचक्रमे।।’ भ। का। ४-८]]
47 [[४। सुखशयनम् सुखशायिका। धात्वर्थनिर्देशे स्त्रियां ण्वुल्।]]
48 [[५। शोभनः शयोऽस्याः सुशयिका। ‘प्रत्ययस्थात् कात्--’ (७-३-४४) इतीकारः।]]
49 [[६। सुखेन शयनम्--सुखशयनम्। सुखशयनं पृच्छतीति सौखशायनिकः। ‘पृच्छतौ सुस्नातादिभ्यः’ (वा। ४-४-१) इति ठक्। ‘भृग्वादीन् अनुगृह्णन्तं सौखशायनिकान् ऋषीन्।।’ (रघुवंशः १०-१४)]]
50 [[७। शवानां शयनम् = श्मशानम्। पृषोदरादित्वात् (६-३-१०९) शवशब्दस्य श्मादेशः, शयनशब्दस्य ‘शान’ इत्यादेशः। काशिका (६-३-९) द्रष्टव्या।]]
51 [[८। अतिशयनम् एव अतिशायनम्। ‘अतिशायने तमबिष्ठनौ’ (५-३-५५) ‘नित्ययोगेऽतिशायने।’ (वा। ५-२-९४) इति सूत्रवार्त्तिकादिनिर्देशात् ल्युडन्ते दीर्घः पाक्षिकः
\n\n तेन अतिशयनम् अतिशायनम् इत्युभयमपि साधु। न च वाच्यम्-- ‘बाधकान्येव निपातनानि’ (परिभाषा। ११९) इति वचनात् अतिश- यनम् इत्यसाव्वेवेति
\n\n यतः ‘अबाधकान्यपि निपातनानि’ (परि १२०) इति वचनात् उभयमपि साच्वेवेति माधवः। वस्तुतः ‘अज्विधौ भयादीनामुपसंख्यानम्-- नपुंसके क्तादिनिवृत्त्यर्थम्’ (वा। ३-३-५६) इति वचनात् अस्य धातोः अतिपूर्वस्य ल्युटि रूपस्यानभिधानमेव
\n\n अत एव च निर्देशात् अतिशायनम् इत्येकमेव रूपं साधु इति प्रतीमः।]]
52 [[९। ‘न क्त्वा सेट्’ (१-२-१८) इति सेटः क्त्वायाः कित्त्वनिषेधात् गुणोऽत्र।]]
53 [[B। ‘… शयित्वा रजनीं सपौरः।’ भ। का। ३-१६।]]
54 [पृष्ठम्१३०३+ २९]
55 [[१। अत्यर्थं शेरते इति शयुः = अजगरः। औणादिकः [द। उ। १-९२]
56 [[२। औणादिके (द। उ। २६) आकप्रत्यये शयानकः इति भवति।]]
57 [[३। ‘शीङो धुक्लग्वलन्वालनः’ (द। उ। १०-९) इति क्रमेण धुगादिप्रत्ययेषु रूपाणीमानि सिद्धानि। शीधुः = मदिरा। केचित् शीथुः इति पठन्ति। शीलम् = स्वभावः। शेवल-शैवालौ जललताविशेषवाचकौ।]]
58 [[४। औणादिके (द। उ। ८-१२६) वन्प्रत्यये रूपम्। शेवः सर्पः। शेवा इति केचित्। औणादिके (द। उ। ६-६९) इति क्वनिप्प्रत्यये तु शीवा इति भवति।]]
59 [[५। औणादिके (द। उ। ३-५५) खप्रत्यये शिखा केशबन्धः।]]
60 [[६। औणादिके निप्रत्यये धातोर्ह्रस्वे च रूपम्। शिनिः क्षत्रियविशेष इति माधवः।]]
61 [[७। नितरां शेरतेऽस्मिन् प्राणिन इति निशीथः = अर्धरात्रम्। औणादिकस्थक्प्रत्ययोऽत्र।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
